संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

रामायणम् एव अनुशासनम् च संस्कृतसाहित्यस्य अद्वितीया निधि: वर्तते – डा.आशुतोषगुप्त:

रुद्रप्रयागे वाल्मीकिरामायणे अनुशासनविषये अभवत् अन्तर्जालीयव्याख्यानं

रुद्रप्रयाग। उत्तराखण्ड-संस्कृत-अकादमी-हरिद्वारं प्रतिवर्षं संस्कृतभाषायाः प्रचारार्थं प्रसारार्थं च अन्तर्जालमाध्यमेन संस्कृतव्याख्यानमाला आयोजयति। अस्मिन् एव क्रमे अस्मिन् वर्षे अपि महर्षिवाल्मीकिजयन्तीमासमहोत्सवस्य अन्तर्गतं उत्तराखण्डस्य सर्वेषु १३ मण्डलेषु २८ अक्टोबर् तः २७ नवम्बरपर्यन्तं अन्तर्जालीयसंस्कृतव्याख्यानं सञ्जातं ।

27 नवम्बर् दिनाङ्के कार्यक्रमस्य समापनदिवसस्य अवसरे रुद्रप्रयागजनपदस्य राजकीयस्नातकोत्तरमहाविद्यालय-अगस्त्यमुनिद्वारा ‘वाल्मीकिरामायणे अनुशासनम्’ इत्यस्मिन् विषये अन्तर्जालीया संस्कृतव्याख्यानमाला आयोजिता, यस्यां संस्कृतस्य सहायकप्राध्यापिका डॉ. मनीषासिंह: राजकीयस्नातकोत्तर- महाविद्यालय-अगस्त्यमुनित: संस्कृतविभागत: जनपदसंयोजिकाया: भूमिकायाम् आसीत् । महाकविकालिदासस्य “वागार्थविव सम्पृक्तौ” लिखितरघुवंशमहाकाव्यस्य श्लोकेन व्याख्यानमालाया: आरम्भ: अभवत् । तदनन्तरं राजकीयमहाविद्यालयस्य अगस्त्यमुनित: पूर्वविद्यार्थिना उद्धवभट्टेन वैदिकाह्वानरूपेण शिवसङ्कल्पसूक्तं मंगलं विहितं । तदनन्तरं शैक्षणिकप्रस्तावसम्बोधनं उत्तराखण्डसंस्कृताकादमीहरिद्वारस्य शोधपदाधिकारी डॉ. हरिशचन्द्रगुरुरानी इत्यनेन प्रोक्तम् । अपि च उत्तराखण्ड-संस्कृत-अकादमीहरिद्वारस्य सचिवः श्रीमान् एस.पी.खाली महोदयः व्याख्यानमालासम्बद्धानां सर्वेषां गणमान्यजनानाम् स्वागतं कृत्वा स्वस्य वक्तव्यं दत्तवान्।

व्याख्यानमालायां सहवक्तारूपेण हेमवतीनन्दनबहुगुणा- केन्द्रीयविश्वविद्यालयस्य श्रीनगरगढ़वालस्य कालिदाससम्मानेन अलङ्कृतः डॉ. आशुतोषगुप्तः व्याख्यानमालायां ‘वाल्मीकिरामायणे अनुशासनम्’ इत्यस्मिन् विषये चर्चां कृतवान्। डॉ आशुतोषः गुप्तः अवदत् यत्
रामायणं एव अनुशासनम् च संस्कृतसाहित्यस्य अद्वितीया निधि: वर्तते।

अस्मिन् अवसरे राष्ट्रपतिपुरस्कारेण अलङ्कृतः प्रो. शिवशंकरमिश्राचार्यः श्रीलालबहादुरशास्त्री राष्ट्रियसंस्कृतविश्वविद्यालयनवीदिल्लीत: शोधविभागप्रमुखत: व्याख्यानमालायाः विषये विस्तरेण चर्चां कृतवान्। न केवलं रामस्य अपितु रामायणस्य दशरथस्य, लक्ष्मणस्य, भरतस्य, शत्रुघ्नस्य अहिल्याया: इत्यादीनां सर्वेषां पात्राणां जीवनवृत्तान्तस्य सन्दर्भं दत्त्वा प्रो.शिवशंकरमिश्रेण स्वस्य सशक्तं व्याख्यानं प्रस्तुतम्।
विशेषातिथिरूपेण .प्रो.पी.एस.जगवाण:, प्राचार्य: राजकीयमहाविद्यालयगुप्तकाशीत: स्वोद्बोधने वाल्मीकिरामायणे स्त्रीपात्राणां चारित्रिकानुशासनेन सर्वैषां ध्यानाकर्षितं कुर्वन् चर्चां विहितवान्।

मुख्यातिथिरूपेण प्रो.दाताराम- पुरोहित:, राष्ट्रीयसंगीतनाटक- -अकादमी-पुरस्कारेण अलंकृत:, पूर्वं अंग्रेजीविभागाध्यक्ष: तथा लोकप्रदर्शनं तथा कलाकेन्द्रं इत्यस्य पूर्वनिदेशक:
हेमवतीनन्दन- बहुगुणाकेन्द्रीयविश्वविद्यालयश्रीनगरगढ़वालत: व्याख्यानमालायाम् उक्तवान् यत् व्याख्यानेन सह सम्पूर्णे भारते रामलीलायाः मञ्चनस्य विषये विस्तरेण चर्चां कृत्वा बाह्य-आन्तरिक-अनुशासनयोः विषये स्वस्य सूक्ष्मं गहनं च वक्तव्यं च दत्तवान् । मुख्यवक्ता वाल्मीकिरामायणं सनातनधर्मस्य महत्त्वपूर्णग्रन्थः इति वर्णितवान् ।

अवसरेस्मिन् कार्यक्रमाध्यक्ष: प्राचार्य: डॉ. सीतारामनैथानी, राजकीय-स्नातकोत्तर-महाविद्यालय-अगस्त्यमुनित: , स्वसम्बोधने रामायणमहत्त्वं प्रकाशितवान्।
अन्ते देहरादूननगरस्य राजकीयमहाविद्यालयस्य सहायकप्राध्यापिका जनपदसहसंयोजिका डॉ. नीतूबलूनी कार्यक्रमे उपस्थाय समागतानां समेषां धन्यवादं ज्ञापितवती।
कार्यक्रमस्य संचालनं जिलारुद्रप्रयागस्य संयोजिका राजकीय-स्नातकोत्तरमहाविद्यालयस्य-अगस्त्यमुनित: सहायिका प्राध्यापिका डॉ.मनीषासिंह: कृतवती।
अस्मिन् अवसरे उत्तराखण्डराज्ये स्थितानां विभिन्नानां महाविद्यालयानाम् प्राध्यापकाः, विभिन्नराज्यानां तथा प्राचार्या: प्राध्यापकाः, अधिकारिण; , शोधकर्तार:, छात्राः च उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button