उत्तरप्रदेशलखनऊ

गृहे गृहे संस्कृतद्वारा प्रारब्धा सरलसंस्कृतभाषा शिक्षणकक्षा— ‘मुकेशपाठक:’

लखनऊ। निदेशकः विनयश्रीवास्तवः उत्तरप्रदेशसंस्कृतसंस्थानद्वारा संचालिताया: गृहे गृहे संस्कृतयोजनायाः अन्तर्गतं एप्रिलमासस्य द्वादशदिवसीयसंस्कृतशिक्षणकेन्द्रस्य उद्घाटनं कृतवान्। सः स्वभाषणेन सर्वान् आचार्यान् बोधयति स्म।
वरिष्ठप्रशासनिकपदाधिकारी डॉ. दिनेशमिश्रः अवदत् यत् एषा संस्थायाः प्राथमिकयोजना अस्ति। या मण्डलस्तरस्य संचालनं कृत्वा सम्पूर्णे राज्ये संस्कृतस्य प्रचारं कुर्वन् अस्ति।
प्रशासनिकपदाधिकारी डॉ. जगदानन्दझा उक्तवान् यत् आकर्षकरूपेण संस्कृतस्य अध्यापनेन छात्राणां मध्ये रुचिः उत्पद्यते। फलतः छात्राः संस्कृतकक्षासु उत्साहेन भागं गृह्णन्ति ।
उद्घाटनसत्रे प्राचार्यसहिताः सर्वे शिक्षकाः छात्राः च उपस्थिताः आसन्। संस्थायाः शिक्षकः मुकेशपाठकः अस्य केन्द्रस्य संचालनं कृतवान् । अस्मिन् अवसरे विद्यालयस्य कर्मचारिण: छात्राः च उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button