“दशदिवसीययोगकार्यशालाया: सफल-समापनम्” ।
95% उपस्थितछात्रेषु प्रखर-बुटोला ₹3000, धनराशिद्वारा सम्मानित: , सोनम: शुभम: योगप्रशिक्षकाय सम्मानितौ ।

मालिनीवैलीकालेज_इफ_एजुकेशन कोटद्वार इत्यत्र दशदिवसीय-योग-प्रशिक्षण-शिविरस्य सफलतया समापन-समारोहः आयोजितः। इयं योगकार्यशाला सार्थकयोगशालाया: च संस्कृतभारत्या: सहयोगेन सम्पन्नोभवत्।

अयं प्रशिक्षण-कार्यक्रमः मुख्यतया अष्टाङ्ग-योगाधारितः आसीत्। अस्मिन् यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यानादीनां विषयाणां सैद्धान्तिकी तथा व्यवहारिकी कौशलं प्रदत्तं। प्रतिदिनं योगाभ्यासः, प्राणायामः, ध्यानम्, मन्त्रोच्चारणम्, संतुलित-जीवन-शैली च विशेषरूपेण अभ्यासिताः।

योगगुरोः राकेश-कण्डवाल-महोदयस्य मार्गदर्शने सार्थकयोगशालासंस्थायाः प्रशिक्षकौ सोनम्-रावत-महोदया शुभमरावत-महोदयश्च शिविरस्य संचालनं सफलतया अकुरुताम्। समापनसमारोहे राजगौरव-नोटियाल: , जयवीर-सिंह-रावत: , सोनिया ध्यानी, शोभा-रावत: उपस्थिताः आसन्। कार्यक्रमस्य संचालनं डॉ० रमाकान्तकुकरेती-महोदयेन कृतम् च धन्यवादज्ञापनम् प्राचार्यवर्यया कृतम् ।

कार्यशालाया: संयोजिकया श्वेतारावतवर्यया एकादशदिनांकत: सर्वे शिक्षाशास्त्रिण: योगाय सम्प्रेरिता: च योगविषये सप्तचक्राणां च पञ्चकोषानां विषये मार्गदर्शनं कृतं । योगः स्वस्थ-अनुशासित-जीवनस्य आधारः इति प्रतिपाद्यविषये — “फिटनेस-की-डोज़, आधा-घण्टा-रोज़” इति सन्देशः जन-जनं प्रति प्रसारितव्यः इति मार्गदर्शकानाम् आह्वानं आसीत्। संस्कृतभारत्या: पौड़ीविभागसहसंयोजक: कुलदीप-मैन्दोला प्रतिदिनं मार्गदर्शनं कुर्वन् उक्तवान् यत् समस्तकर्माणि अस्माकं योगे भवन्ति ज्ञानयोगे कर्मयोगे भक्तियोगे , वैराग्ययोगे अपि योगसम्पूर्ति: भवति । पतञ्जलिना योगसूत्रं प्रदत्तं च महाभाष्ये व्याकरणसूत्राणां च शब्दनिष्पादने सुन्दरव्याख्या अपि कृता।

अस्मिन् अवसरे प्रशिक्षकौ सोनम्-रावत-महोदया शुभम्-महोदयश्च तयोः उत्कृष्ट-योगदानाय सम्मानितौ। तौ अत्र योगद्वारा दसदिवसीयकार्यशालायां योगस्य विभिन्नासनसूत्राणां च सम्यक् प्रदर्शनं कारितवन्तौ ।तथैव महाविद्यालयाध्यक्षेन योगम्बर-सिंह-महोदयेन गत-सत्रे 95% उपस्थितछात्रेभ्यः प्रोत्साहन-राशिः वितरिता। प्रखर-बुटोला ₹3000, आकांक्षा-रावत: ₹2000, अभिषेक-सती ₹2000, प्रियंका-जोशी ₹2000, अनु ₹2000, ऋतिक-बन्दूनी ₹2000, सर्वज्ञ-बुटोला ₹2000, अनुराधा ₹1000, नेहा-नेगी ₹1000 इति धनराशिः प्रदत्ता। अन्ते सर्वैः अतिथिभिः, प्रशिक्षकैः, छात्रैः च योगाभ्यासः नित्य-जीवनस्य अनिवार्य-अङ्गत्वेन स्वीकरणीयः इति संकल्पः कृतः। एवं स्वास्थ्य-रक्षा, अनुशासन-पालनम्, नशामुक्तिः, आध्यात्मिक-उन्नतिः च इति संकल्पेन कार्यशाला सफलतया सम्पन्ना।







