अखिलभारतीय-शिक्षा-समागम–२०२६ इत्यन्तर्गतं ज्ञानवर्धक-रचनात्मक-कार्यक्रमाणाम् आयोजनम् अभवत्
चन्द्रबदनी-परिसरे कविता-रचना तथा प्रश्नोत्तरी-प्रतियोगिताः आयोजिताः।

चन्द्रबदनी , टिहरी। श्रीदेवसुमन-उत्तराखण्ड-विश्वविद्यालयस्य चन्द्रबदनी-परिसरे परिसरनिदेशकस्य डाॅ. महन्थमौर्यस्य अध्यक्षतायां शिक्षामन्त्रालयस्य भारतसर्वकारस्य तत्त्वावधाने आयोजितस्य अखिलभारतीय-शिक्षा-समागम–२०२६ इत्यन्तर्गतं ज्ञानवर्धक-रचनात्मक-कार्यक्रमाणाम् आयोजनम् अभवत्।
अस्मिन् कार्यक्रमे कविता-रचना तथा भारतीय-ज्ञान-परम्परा-विषये प्रश्नोत्तरी-प्रतियोगिते आयोजिते। विद्यार्थिनः महोत्साहेन प्रतियोगितासु सहभागित्वं कृतवन्तः।

कविता-रचना-प्रतियोगितायां षट् विद्यार्थिन्यः सहभागिन्यः अभवन्। बी.ए. तृतीय-सत्रस्य छात्रे खुशबू तथा सृष्टि भावपूर्णं कविता-पाठं प्रस्तुतवत्यौ। तयोः प्रभावशालिनी प्रस्तुतिः भारतीयसंस्कृतेः, परम्परायाः तथा मानवीयमूल्यानां गौरवं सम्यक् प्रकाशितवती। कार्यक्रमस्य संचालनं हिन्दी-विभागस्य प्राध्यापिका डाॅ. सरिता कविता-पाठेन सह कृतवती।
अध्यक्षीय-सम्बोधने डाॅ. महन्थमौर्यः भारतीय-ज्ञान-परम्परायाः समृद्ध-विरासतां ज्ञातुं तथा तां नवपीढ्यै प्रेषयितुं आवश्यकताम् अवोचत्। द्विदिवसीय-कार्यक्रमस्य नोडल-अधिकारी डाॅ. मूलचन्द्र-शुक्लः कार्यक्रमस्य उद्देश्यान् विवृण्वन् विद्यार्थिनः भारतीय-ज्ञान-परम्परां ज्ञातुं, अवगन्तुं च आत्मसात्कर्तुं प्रेरितवान्।

कार्यक्रमस्य अन्ते एण्टी-ड्रग-सेल इत्यस्य नोडल-अधिकारी डाॅ. सुरेशकुमार-भट्टः सर्वान् मद्यादिव्यसनमुक्तेः शपथं कारितवान्। समापन-सत्रे डाॅ. गुरुप्रसाद-थपलियालः धन्यवाद-ज्ञापनं कृत्वा सर्वेषां प्राध्यापकाणां, कर्मचारिणां तथा विद्यार्थिनां सहयोगाय हार्दिकम् आभारम् अव्यक्तयत्।

अस्य कार्यक्रमस्य प्रमुखोद्देश्यः विद्यार्थिषु भारतीय-ज्ञान-परम्परायाः प्रति रुचि-गौरव-भावनायाः विकासः, रचनात्मक-प्रतिभायाः प्रोत्साहनम् तथा नशामुक्त-समाज-निर्माणस्य जागरूकतायाः संवर्धनम् आसीत्।







