सन्तसहारा-आयुर्वेदिक एवं चिकित्सीयमहाविद्यालये नवदिवसीयसंस्कृतसम्भाषणस्य कार्यशालायाः समापनम्

अजयकुमार:, । पञ्जाबप्रान्तस्य बठिण्डानगरे स्थिते सन्तसहारा आयुर्वेदिक एवं चिकित्सीयमहाविद्यालयः एवं संस्कृतभारती पञ्जाबप्रान्तः एतयोः संयुक्ततत्त्वावधाने आयोजितायाः नवदिवसीयसंस्कृतसम्भाषणस्य कार्यशालायाः गतदिने समापनं जातम् । समापनकार्यक्रमस्य शुभारम्भः दीपप्रज्वलनेन दीपमन्त्रेण च अभवत् । कार्यक्रमे छात्रछात्राभिः सरस्वतीवन्दना, उद्देश्यगीतम्, नाटकम्, सांस्कृतिकनृत्यम्, इत्यादयः प्रस्तुतयः कृताः । प्रशिक्षकः शशिकान्तशास्त्रिमहोदयः संस्कृतसम्भाषणकार्यशालां सम्यक् चालितवान् । तस्य अध्यापनशैली मधुरा, सरला, रोचका च आसीत् । छात्रछात्राः आनन्देन संस्कृतं पठितवन्तः ।
कार्यक्रमे अस्मिन् मुख्यवक्तृरूपेण बठिण्डा जनपदस्य संस्कृतभारत्याः अध्यक्षा डा. डिम्पलशर्मा महोदया आगता । सा उक्तवती यत् वैद्यानां कृते किमर्थं संस्कृतम् आवश्यकम् । यत्र संस्कृतम् अस्ति तत्र संस्कारः, यत्र संस्कारः अस्ति तत्र अस्माकं संस्कृतिः ।
उपाचार्येण वैद्येन लवनीशमहोदयेन उक्तं यत् आयुर्वेदस्य सर्वे ग्रन्थाः यथा चरकसंहिता, सुश्रुतसंहिता, अष्टाङ्गहृदयादयः संस्कृतभाषायाम् एव सन्ति । अनेन संस्कृतसम्भाषणेन छात्राणां कृते बहवे लाभाय भविष्यति ।
कार्यक्रमे अध्यक्षरूपेण प्राचार्यः वैद्यः श्रीदेवफोन्दणी उक्तवान् यत् यः आयुर्वेदस्य उत्तमं कुशलं निपुणं भवितुं पुनश्च वैद्यकीयं साधयितुम् इच्छति तस्य कृते संस्कृतं बहु आवश्यकम् । यतोहि वयं सर्वे संस्कृतेन आयुर्वेदस्य औषधं चिकित्सां च ज्ञातुं शक्नुमः । अस्मिन् कार्यक्रमे ६० छात्रछात्राः भागं स्वीकृतवन्तः । प्राचार्येण डॉ. श्रीदेवफोन्दणीमहोदयेन, उपाचार्येण डॉ. लवनीशमहोदयेन च आगतानाम् अतिथीनां स्मृतिचिह्नेन स्वागतं कृतम् ।
अस्मिन् अवसरे ८ प्राध्यापकाः, १० प्राध्यापिकाः, ८० छात्राः च समुपस्थिताः आसन् ।







