उत्तराखण्डहरिद्वार

उत्तराखण्ड-संस्कृतसंस्थानस्य नवनियुक्तस्य राज्यमन्त्रिणः डॉ. नवीनचन्द्रपन्तमहोदयस्य भव्यः स्वागताभिनन्दनसमारोहः

हरिद्वारम्। उत्तराखण्डसंस्कृतसंस्थानस्य नवनियुक्तस्य राज्यमन्त्रिणः डॉ. नवीनचन्द्रपन्तमहोदयस्य स्वागतार्थं पञ्चपुरीक्षेत्रस्य समस्तसंस्कृतविद्यालयानां महाविद्यालयानां च प्राचार्यैः, प्रधानाचार्यैः तथा आचार्यगणैः श्रीगरीबदासीयसाधुसंस्कृतमहाविद्यालये दिव्यः भव्यश्च स्वागताभिनन्दनसमारोहः समायोजितः।

अस्मिन् कार्यक्रमे श्रीगरीबदासीयसंस्कृतमहाविद्यालयस्य सम्माननीया प्राचार्या डॉ. प्रेरणागर्गमहोदया स्वविचारान् प्रस्तुतवती। तया संस्थानस्य राज्यमन्त्रिमहोदयस्य समक्षं संस्थानस्य पूर्वपरम्परानुसारं समस्तेभ्यः संस्कृतविद्यालयेभ्यः छात्राणां कृते पुस्तकप्रदानस्य पुनः व्यवस्था, तथा च सङ्गणकसुविधायाः उपलब्धतासम्बद्धा महत्त्वपूर्णा माँग् प्रस्तुता।


अस्यैव क्रमे जगतदेवसिंहसंस्कृतमहाविद्यालयस्य सम्माननीयः प्राचार्यः डॉ. राजेन्द्रगौनियालमहोदयः अपि राज्यमन्त्रिमहोदयस्य स्वागतं कृतवान्।

निर्मलसंस्कृतोत्तरमाध्यमिकविद्यालयस्य सम्माननीयः प्रधानाचार्यः दिवाकरगौडमहोदयः, उदासीनसंस्कृतविद्यालयस्य सम्माननीयः आचार्यः सागरझामहोदयः, तुलसीरामलेखडामहोदयः, ऋषिकुलविद्यापीठस्य आचार्यः महेशबहुगुणमहोदयः, पालीवालसंस्कृतविद्यालयस्य सम्माननीयः प्रधानाचार्यः आचार्यः घनश्याममुनियालमहोदयः, कमलेशबहुगुणमहोदयः, दिनेश भट्टमहोदयः, भगवत्धाम्नः सम्माननीयः आचार्यः जगतनयनबहुखणडीमहोदयः तथा भगवत्धाम्नः सम्माननीयः प्रधानाचार्यः राकेशमण्डलवालमहोदयः च स्वशुभकामनाः प्रेषितवन्तः।

भारतीसंस्कृतविद्यालयस्य सम्माननीयेन आचार्येण दुर्गादत्तजोशीमहोदयेन अपि राज्यमन्त्रिमहोदयस्य सत्कारः कृतः। निर्धन नीकेतनात् सम्माननीयेन आचार्येण डॉ. ताराप्रसादअवस्थीमहोदयेन अपि स्वागतसम्मानं कृतम्।

सभूमदेवसंस्कृतविद्यालयस्य सम्माननीयः प्रधानाचार्यः डॉ. रवीशतिवारीमहोदयः अपि राज्यमन्त्रिमहोदयस्य सम्मानं कृतवान्। चेतनज्योतिसंस्कृतविद्यालयस्य सम्माननीयाः तारादेवीउपाध्यायमहोदया, चेतनचौबेमहोदयः तथा महेशमहोदयः च स्वागतवन्दनं कृतवन्तः।

रामानुजसंस्कृतमहाविद्यालयस्य साहित्यविभागस्य प्रख्यातः विद्वान् डॉ. प्रकाशजोशीमहोदयः अपि स्वशुभकामनाः प्रेषितवान्।

खुब्बनपुरसंस्कृतमहाविद्यालयस्य सम्माननीयः प्रधानाचार्यः डॉ. अतुलचमोला महोदयः अपि राज्यमन्त्रिमहोदयस्य स्वागतसम्मानं कृत्वा शुभकामनाः प्रदत्तवान्।

श्रीगरीबदासीयसंस्कृतमहाविद्यालयस्य डॉ. डम्बरप्रसादतोडेलमहोदयस्य, आचार्यरामरेशशर्ममहोदयस्य, डॉ. प्रियदर्शनीओलीमहोदयायाः तथा नरेन्द्रउपाध्यायमहोदयस्य च अथकसहयोगेन कार्यक्रमः सफलतया सम्पन्नः। सर्वैः छात्रैः अपि सम्पूर्णकार्यक्रमे महत्त्वपूर्णं सहयोगं प्रदत्तम्।

कार्यक्रमस्य कुशलं सञ्चालनं केशवदत्तबलियानीमहोदयेन कृतम्।

अस्मिन्नेव अवसरे राज्यमन्त्रिमहोदयः स्वसम्बोधने अवदत् यत्— अहं संस्कृतस्य उन्नत्यर्थं निरन्तरं प्रयत्नशीलः अस्मि। माननीयमुख्यमन्त्रिमहोदयेन अपि संस्कृतसम्बद्धानां समस्याणां समाधानार्थं विशेषः समयः प्रदातुं सङ्कल्पः कृतः अस्ति। संस्कृतविद्यालयानां याः काश्चन समस्याः सन्ति, तासां समाधानार्थं अहं प्रतिदिनं द्वौ घण्टौ समयं दास्यामि। सर्वेभ्यः सम्बन्धिताधिकारिभ्यः निर्देशाः प्रदत्ताः सन्ति यत् संस्कृतसम्बद्धाः समस्याः मम समीपं लम्बमानाः न तिष्ठेयुः, तासां शीघ्रमेव समाधानं क्रियताम्।

एवं राज्यमन्त्रिमहोदयेन माननीयमुख्यमन्त्रिणः विचाराः सर्वेषां समक्षं प्रस्तुताः।

निश्चितरूपेण राज्यसर्वकारः संस्कृतक्षेत्रस्य समस्याः गम्भीरतया स्वीकृत्य तासां समाधानं करिष्यति इति सर्वेषां मनसि पूर्णा आशा विश्वासश्च वर्तते।

कार्यक्रमस्य अन्ते धन्यवादज्ञापनं कृतम्।

अस्यैव क्रमे गुरुकुलमहाविद्यालयस्य आचार्यः हेमन्ततिवारीमहोदयः, संस्कृतविद्यालयसङ्घटनस्य हरिद्वारजनपदाध्यक्षः राज्यमन्त्रिमहोदयस्य अत्यन्तमुत्साहेन स्वागतं कृतवान्।

अस्मिन् गरिमामये समारोहे डॉ. सुशीलत्यागीमहोदयः, डॉ. विजयत्यागीमहोदयः, आचार्यदेवकीशर्ममहोदयः, सुरेशरणपन्तमहोदयः, सुशीलचौधरीमहोदयः इत्यादयः अनेकाः गणमान्याः महानुभावाः उपस्थिताः आसन्। सर्वैः मिलित्वा राज्यमन्त्रिमहोदयस्य हार्दिकं स्वागतं सम्माननं च कृतम्।

पुनरपि उत्तराखण्डसंस्कृतसंस्थानस्य नवनियुक्ताय राज्यमन्त्रिणे डॉ. नवीनचन्द्रपन्तमहोदयाय हार्दिक्यः शुभकामनाः अभिनन्दनानि च। संस्कृतस्य संरक्षणे, संवर्धने, प्रचारप्रसारे च भवतः कार्यकालः सफलः, यशस्वी च भवतु इति शुभाशयाः।

जयतु संस्कृतम्। जयतु भारतम्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button