सिद्धखाले द्विदिवसीया संस्कृतस्पर्धा सम्पन्ना, छात्राः धनराश्या प्रमाणपत्रैश्च सम्मानिताः
* संस्काराणां सशक्तं माध्यमं संस्कृतम् *

रिखणीखालः। अटलोत्कृष्टराजकीय इण्टरकॉलेज सिद्धखाले उत्तराखण्ड-संस्कृत-संस्थानेन आयोजिता द्विदिवसीया विकासखण्डस्तरीया संस्कृतस्पर्धा २४ सितम्बर २०२६ दिनाङ्के समापिता। कार्यक्रमस्य अध्यक्षतां विद्यालयस्य प्रधानाचार्यः श्री अजयकुमारशर्मा महोदयः अकरोत्।
समापनसमारोहे विकासखण्डप्रमुखा श्रीमती रेणुरावत मुख्यातिथिरूपेण उपस्थिताभूत्। स्वीये सम्बोधने तया उक्तं यत् “संस्कृतमेव संस्काराणां मूलं माध्यमञ्च अस्ति” इति। विद्यालयेषु संस्कृतभाषायाः प्रचारार्थं अधिकप्रयत्नान् करणीयान् इति अपि सा प्रेरितवती।
विशिष्टातिथिः श्रीमती सुनीतारावत सर्वेषां प्रतिभागिनां उत्साहवर्धनम् अकरोत्। समाजसेवकः श्री दीनबन्धु ‘विरोधी’ स्वविद्यालयजीवनस्य स्मरणं कृत्वा संस्कृतस्य महत्त्वं प्रतिपादितवान्। समाजसेवकः श्री वसन्तजोशी संस्कृतसंस्कृत्योः संरक्षणाय सर्वान् समाहूतवान्। क्षेत्रपञ्चायत्सदस्या श्रीमती मनीषारावत संस्कृतोत्थानसंवर्धनयोः विषये स्वविचारान् प्रस्तुतवती।
ग्रामप्रधानः चुरानीग्रामस्य श्री राकेशनेगी परिवर्तमानकाले संस्कृतशिक्षां रोजगारसङ्गं सम्बद्धुं प्रेरणां दत्तवान्।
विकासखण्डशिक्षाधिकारिणी सुश्री किरणनेगी विकासखण्डस्तरात् जिलास्तराय चयनितान् छात्रान् शुभाशिषा अभिनन्दितवती। तया प्रथम–द्वितीय–तृतीयस्थानप्राप्तेभ्यः छात्रेभ्यः प्रमाणपत्राणि नगदधनराशिश्च प्रदाय सम्मानः कृतः। चयनिताः प्रतिभागिनः अधुना जिलास्तरीयासु संस्कृतस्पर्धासु सहभागित्वं करिष्यन्ति।
कार्यक्रमस्य सञ्चालनं श्री विनोदडोबरियाल, श्री राजेन्द्रसिंहः तथा श्री मोहितपन्तः संयुक्तरूपेण अकुर्वन्। अस्मिन् अवसरे विकासखण्डस्तरीयसंयोजकः श्री नरेशकुमारशर्मा (सहायकाध्यापकः संस्कृतं), श्रीमती शिखारावत: (प्रवक्ता आङ्ग्लभाषा), श्री सतपालसिंहराणा (सहायकाध्यापकः गणितं), श्री दीपकरावत: (प्रवक्ता भौतिकविज्ञान), श्रीमती दीक्षानेगी (सहायकाध्यापिका विज्ञानं) तथा श्री प्रभाकरशुक्लः (सहायकाध्यापकः हिन्दी) प्रमुखरूपेण उपस्थिताः आसन्।
वार्ताहरः — कुलदीपमैन्दोलः







