संस्कृतस्य शास्त्रीयार्थतन्त्रे निहिताः सन्ति सेवार्थस्य बह्व्यः सम्भावनाः

पौडी। हेमवतीनन्दनबहुगुणगढ़वालविश्वविद्यालयस्य (केन्द्रीयविश्वविद्यालयस्य) डॉ. बी. जी. आर. परिसरे पौडीगढ़वाले आयोजिते संस्कृतसप्ताहस्य चतुर्थदिने “संस्कृतस्य शास्त्रीयार्थतन्त्रम् : वर्तमानार्थसेवाया: सन्दर्भे” सार्थकं ज्ञानवर्धकं च व्याख्यानम् अभवत्। अस्मिन् कार्यक्रमे संस्कृतस्य शास्त्रीयज्ञानस्य आधुनिकार्थसेवाया: सम्भावनाभिः सह सम्बन्धः प्रमुखतया प्रतिपादितः।

मुख्यवक्ता डा. कञ्चनतिवारी, उत्तराखण्डसंस्कृतविश्वविद्यालयस्य हरिद्वारस्थितसाहित्यविभागस्य सहायकाचार्य:, स्वव्याख्याने उक्तववान् यत् संस्कृतसाहित्ये शास्त्रेषु च अर्थस्य अवधारणा विस्तृतरूपेण विवेचिता अस्ति। तया प्रतिपादितं यदर्थः जीवनस्य अनिवार्यः पुरुषार्थः अस्ति, किन्तु भारतीयदर्शने धर्मार्थकाममोक्षरूपेषु चतुर्षु पुरुषार्थेषु सः सर्वोच्चलक्ष्यं न भवति। अर्थस्य मर्यादितः सदुपयोगः एव शास्त्रीयपरम्परायाः मुख्यः सन्देशः इति तया निरूपितम्।

कार्यक्रमस्य अध्यक्षतां प्रो. अनूपकुमारडोबरियालः, जन्तुविज्ञानविभागाध्यक्षः, अकरोत्। स्वाध्यक्षीयोद्बोधने तेन उक्तं यत् भारतीयचिन्तने अर्थस्य महत्त्वम् अवश्यं स्वीकृतम्, किन्तु सः जीवनस्य एकमात्रं लक्ष्यं नास्ति। संस्कृताध्ययनं समकालीनावश्यकताभिः सह संयोजयितुं आवश्यकता वर्तते इति तेन बलपूर्वकम् अभिहितम्।








