उत्तराखण्डनैनीताल

रामनगरमहाविद्यालयस्य डॉ. मूलचन्द्रशुक्लः विद्यावाचस्पति-मानदोपाधिना समलङ्कृतः।

वार्ताहरः- डॉ. अभिषेकपाण्डेयः।रामनगरम्। संस्कृतवाङ्मयस्य साधनायां निरतः, शास्त्राध्ययन-अध्यापनयोः निष्ठावान्, रामनगरस्थिते पी.एन.जी. राजकीय-स्नातकोत्तर-महाविद्यालये संस्कृतविभागे प्रभारी वरिष्ठः सहायकाचार्यः डॉ. मूलचन्द्रशुक्लः, संस्कृतोच्चशिक्षाक्षेत्रे स्वस्यै दीर्घकालिकोत्कृष्टसेवायै गौरवस्वरूपं डी. लिट् (विद्यावाचस्पति:) इति मानदोपाधिना समलङ्कृत:।

एष मानदोपाधिः वाराणसेय- काशी-हिन्दी-विद्यापीठेन अस्मै विशेष-मानद-सम्मानसमारो हावसरे प्रदत्त:। वाराणस्यां मालवीय-सभागारे सम्पन्ने गरिमामये समारोहे बहूनां प्रख्यातानां शिक्षाविदां, साहित्यकाराणां, प्रशासनिकाधिकारिणां च करकमलैः डॉ. शुक्लः सम्मानितोऽभवत्।

तत्र समारोहस्य मुख्यातिथिः अन्ताराष्ट्रियख्यातिलब्धः कविः डॉ. हरेन्द्रहर्षः, अध्यक्ष: प्रख्यातसाहित्यकारः डॉ. ओमप्रकाशद्विवेदी ‘ओम’, संरक्षकः सेन्ट्रल-बार-एसोसिएशन-वाराणसीयोऽध्यक्षः काशी-सेवा-समितेः, साहित्यभूषणश्च डॉ. रामावतारपाण्डेय आसन् ।
विशिष्ट-अतिथिषु डॉ. चन्द्रभालसुकुमारः, कर्नल् डॉ. आदिशङ्करमिश्रः, श्रीप्रकाशश्रीवास्तवः ‘गणेशः’, तथा च काशी-हिन्दी-विद्यापीठस्य कुलसचिवः इन्द्रजीततिवारी विशेषरूपेण उपस्थिता आसन्।
समुल्लेखनीयं वर्तते यत् विद्यावाचस्पति-पुरस्कारः–२०२६ इत्यस्य कृते जनवरी मासस्य‌ २५ दिनाङ्के काशी-हिन्दी-विद्यापीठेन चयनं कृत्वा अस्मै संस्कृतविदुषे डॉ. मूलचन्द्रशुक्लाय एष: मानदोपाधिः समर्पित:।
संस्कृतविषये उच्चशिक्षायामध्यापने, शास्त्र-सनातनपरम्परासंरक्षण- अकादमिकसेवा-इत्यादि – विविध-क्षेत्रादिषु कृतं तस्य विशिष्टमवदानमेव अस्य सम्माननस्य मूलाधारः।
डॉ. मूलचन्द्रशुक्लः विगतद्वादशवर्षेभ्यः संस्कृताध्यापनस्य पुण्यकार्ये समर्पितचित्तो दरीदृश्यते। सम्प्रत्येष: महाविद्यालये संस्कृतविभागे प्रभारीरूपेण कार्यं कुर्वन् , योग-समन्वयकत्वेन सह बहूनि शैक्षिक-सहशैक्षिक-दायित्वानि अत्यन्तं कौशलपूर्वकं निर्वहन् अग्रेसरति। अयं संस्कृतस्य विविधपूर्वसम्पादित-समुत्कृष्टकार्याणामुपलक्ष्ये पूर्वमपि द्वाभ्यां राष्ट्रिय-अन्ताराष्ट्रिय-पुरस्काराभ्यां सम्मानितो जातः।
अस्य गौरवपूर्णस्योपलब्धिप्रसङ्गे महाविद्यालयस्य प्राचार्यः प्रो. एम.सी. पाण्डेयः, मुख्य-प्रॉक्टर प्रो. एस.एस. मौर्यः, प्रभारी-प्राचार्यः डॉ. दीपकखाती, डॉ. डी.एन. जोशी, डॉ. मुरलीधरकापड़ी, डॉ. नितिनढोमने, गोविन्दसिंहजंगपांगी च इत्यादयो नैके प्राध्यापकाः शिक्षणेतरकर्मचारिणश्च हर्षोल्लासेन सह हार्दिकाः शुभाशंसाः प्रेषितवन्त:।
अस्मिन्नवसरे भारतीय-विधिक-शिक्षा-आन्दोलनस्य राष्ट्रिय-समन्वयकः समरबहादुरसरोजः, लब्धख्यातः गीतकारः भजनगायकश्च राजकुमार-आशीर्वादः, सन्मार्ग – हिन्दी-सान्ध्य-दैनिकस्य पत्रकारो विजयकुमारगुप्तः, विन्ध्याचलात् समायातः स्वामी ब्रह्माण्डभैरवशरणः, डॉ. चन्द्रकान्तमिश्रः, विजयनारायणतिवारी सहिता: नैके प्रथिता: जनाः, गणमान्यसज्जना:, सम्मानिता: विद्वांसश्च उपस्थिता आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button