सम्पूर्णविश्वेन आदरपूर्वकं भारतीयज्ञानपरम्परा: स्वीकृता: – “डा.शैलपुत्री”
हेमवतीनन्दनबहुगुणागढवालकेन्द्रीयविश्वविद्यालयस्य बिडलापरिसरे संस्कृतसप्ताहमहोत्सवस्य द्वितीयदिवसे गरिमामयः कार्यक्रमः सम्पन्नः,

श्रीनगरम् (गढवालः), ०२ सितम्बर २०२६।
हेमवतीनन्दनबहुगुणागढवालकेन्द्रीयविश्वविद्यालयस्य संस्कृतविभागेन आयोजितस्य संस्कृतसप्ताहमहोत्सवस्य द्वितीयदिवसीयः कार्यक्रमः अत्यन्तं भव्यतया गरिमामयवातावरणे च सम्पन्नः।
कार्यक्रमस्य प्रारम्भे अतिथीनां पारम्परिकरीत्या स्वागतं कृतम्। ततः बिडलापरिसरस्य संस्कृतविभागाध्यक्षः डा. विश्वेशवाग्मी स्वागतवक्तव्यं प्रदाय सर्वेषाम् अतिथीनां, आचार्याणां छात्राणां च हार्दिकं स्वागतं कृतवान्। सः अवदत् यत् भारतीयज्ञानपरम्परायाः मूलाधारः संस्कृतविद्यायामेव निहितः अस्ति, अतः भारतस्य स्वस्वरूपस्य साक्षात्कारः संस्कृतज्ञानद्वारेणैव सम्भवः।
कार्यक्रमस्य मुख्यवक्त्री दर्शनशास्त्रविभागाध्यक्षा डा. कविता भट्टवर्या भारतीयदर्शनस्य संस्कृतसाहित्यस्य च गूढान् अन्तःसम्बन्धान् विषये सारगर्भितं व्याख्यानं दत्त्वा छात्रान् भारतीयज्ञानपरम्परायाः अनुसरणाय प्रेरितवती। तया उक्तं यत् भारतीयज्ञानपरम्पराः अद्य सम्पूर्णविश्वेन आदरपूर्वकं स्वीकृताः सन्ति।
समारोहस्य अध्यक्षतां संस्कृतविभागस्य पूर्वविभागाध्यक्षा प्रो. कमला चौहानवर्या अकरोत्। स्वकीयाध्यक्षीयोद्बोधने तया संस्कृतभाषायाः वैश्विकमहत्त्वं, सांस्कृतिकविरासतां तथा आधुनिकपरिप्रेक्ष्ये तस्याः प्रासङ्गिकतां विशदीकृतवती।
विशिष्टातिथिरूपेण उपस्थितौ हिन्दीविभागस्य आचार्यः डा. कपिलपंवार: तथा लोककलासंस्कृतिनिष्पादनकेन्द्रस्य आचार्यः डा. महेन्द्रपंवार: छात्राणां नाट्यप्रतिभायाः प्रशंसां कृत्वा भविष्ये उभयविभागयोः संयुक्ततत्त्वावधानेन नाट्यमञ्चनस्य योजनां प्रतिपादितवन्तौ।
*छात्राणां मनोहरा प्रस्तुति:- “कालिदासस्यविवाह:”*
कार्यक्रमस्य मुख्याकर्षणं संस्कृतविभागस्य छात्रैः प्रस्तुतं ‘कालिदासस्य विवाहः’ इति लघुनाटकम् आसीत्। महाकवेः कालिदासस्य जीवनप्रसङ्गाधारितं तन्नाट्यं सजीवतया अभिनीतं, यत् प्रेक्षकैः साधुवादैः करतलध्वनिभिश्च सम्यक् प्रशंसितम्। तदनन्तरं छात्रैः संस्कृतसुभाषितानां सस्वरपाठेन भाषायाः लालित्यं सौन्दर्यं च प्रकटितम्।
कार्यक्रमस्य समापनं डा. प्रीतिमहोदया धन्यवादज्ञापनेन अकरोत्। अन्ते सर्वैः ध्येयमन्त्रः शान्तिपाठश्च सामूहिकरूपेण कृत:। सम्पूर्णकार्यक्रमस्य कुशलं प्रभावी च सञ्चालनं डा. बालकृष्णबधानीमहोदयेन कृतम्। अस्मिन् अवसरे विश्वविद्यालयस्य आचार्याः, शोधार्थिनः, बहुसंख्यकाः छात्राश्च उपस्थिताः आसन्।







