“अपनी धरोहर न्यास” इत्यनेन प्रसिद्धन्यायदेवस्य श्री-गोल्ज्यू-यात्राया: आयोजनार्थं योजना-सभा सम्पन्ना।

हरिद्वारे अटलबिहारीवाजपेयी इत्यत्र अतिथिगृहे “अपनी धरोहर न्यास” इत्यनया संस्थया गतवर्षम् इव अस्मिन् वर्षे अपि सम्पूर्ण-प्रदेशे श्री-गोल्ज्यू-यात्राया: आयोजनस्य निर्णयः कृतः। तस्याः यात्रायाः सफल-सम्पादनार्थं वार्षिक-कार्यक्रमेषु अन्तर्भूता योजना-सभा विधिवत् आयोजिताऽभवत्।
कार्यक्रमस्य शुभारम्भः मुख्यातिथिना राष्ट्रिय-स्वयंसेवक-संघस्य प्रान्त-प्रचारकेन डॉ. शैलेन्द्र-महाभागेन, विशिष्ट-अतिथिना प्रान्त-कार्यवाहेन डॉ. दिनेश-सेमवाल-महाभागेन, कार्यक्रमाध्यक्षेन गङ्गा-सभायाः अध्यक्षेन नितिन-गौतम-महाभागेन, विशिष्ट-अतिथिना शम्भू-प्रसाद-पाण्डेय-महाभागेन तथा न्यासाध्यक्षेन विजय-भट्ट-महाभागेन संयुक्तरूपेण भारतमाता-चित्रस्य पुरतः दीप-प्रज्वलनं पुष्पाञ्जलि-अर्पणं च कृत्वा कृतः।
सभायां संस्थाया: वार्षिक-प्रतिवेदनं महासचिवेन दिनेशमहाभागेन प्रस्तुतम्। प्रस्ताविक-उद्बोधनं सचिवेन सतीश-पाण्डेय-महाभागेन कृतम्। आगामिनी श्री-गोल्ज्यू-यात्राया: विस्तृत-रूपरेखां प्रस्तूय न्यासाध्यक्षः विजय-भट्ट-महाभागः अवदत् यत्— एषा यात्रा १९ अप्रैलतः ९ मेपर्यन्तं भविष्यति। यात्रा उत्तराखण्डस्य प्रत्येक-जनपदस्य प्रमुख-तीर्थ-स्थलैः, सिद्ध-पीठैः, धार्मिक-क्षेत्रैः च सह सञ्चर्य प्रायः ३५०० किलोमीटर-परिमितां दूरीं सम्पद्य, गोलू-महाराजस्य मुख्य-स्थानात् चंपावतम् आरभ्य तत्रैव समापनं करिष्यति।
अवसरेऽस्मिन् प्रान्त-प्रचारकः डॉ. शैलेन्द्र-महाभागः उक्तवान् यत्— सामाजिक-समरसताया: संवर्धनम् तथा उत्तराखण्डस्य सांस्कृतिक-समृद्धे: संरक्षणं, संवर्धनं च अस्याः संस्थाया: प्रशंसनीयं कार्यम् अस्ति। एतेषां कार्यक्रमाणां माध्यमेन वयं स्वमूलैः सह सम्बद्धाः भवामः। उत्तराखण्डः आध्यात्मिक-प्रदेशः अस्ति, यः “देवभूमि” इति नाम्ना प्रसिद्धः। अस्य देवभूमेः कण-कणे शङ्करस्य वासः विद्यते, अतः प्रत्येक-प्रदेशवासिनः कर्तव्यं भवति यत् स्व-सांस्कृतिक-परम्पराणां संरक्षणे सक्रिय-भूमिकां निर्वहेत्।
श्रीमतीनीलम-ध्यानी-महाभागया गढ़वाली-भाषया उत्तराखण्डस्य आध्यात्मिक-पृष्ठभूमेः तथा गढ़वाल-मण्डलस्य तीर्थ-स्थानानां माहात्म्यं विस्तरेण निरूपितम्। श्रीमतीसरिता-जोशी-महाभागया कुमाऊँनी-भाषया गोलू-महाराजस्य महत्त्वं मानस-खण्डस्य प्राचीन-सांस्कृतिक-इतिहासं च प्रकाश्य स्वविचाराः व्यक्तीकृताः। हरिद्वार-नगरस्य वरिष्ठ-समाजसेविना प्रकाश-जोशी-महाभागेन हरिद्वारस्य, गङ्गायाः च माहात्म्यं निरूपितम्। स उक्तवान् यत् गङ्गा-नगर्यां यात्राया: भव्य-स्वागतं सत्कारं च भविष्यति। यात्राया: चित्र-विमोचन-कार्यक्रमः “हर की पैड़ी”इत्यत्र सम्पन्नः। उज्ज्वल-पण्डित-महाभागेन यात्राया: निर्धारितमानचित्रानुसारेण च विस्तृत-विवरणं प्रदत्तम्। तेनोक्तं यत् पर्वतीय-प्रदेशेभ्यः देव-दोलिकाः प्रायः गङ्गा-स्नानार्थं हरिद्वारं आगच्छन्ति, यतो हि ब्रह्म-कुण्डस्य अद्वितीयं ऐतिहासिक-महत्त्वम् अस्ति।
कार्यक्रमाध्यक्षः गङ्गा-सभा-अध्यक्षः नितिन-गौतम-महाभागः उक्तवान् यत् गतवर्षात् अपि अधिक-सफलतया अस्याः यात्राया: आयोजनं भविष्यति। हरिद्वारस्य साधु-सन्तानां सान्निध्ये गङ्गा-सभा, पहाड़ी-महासभा, कुमाऊँ-एकता-समिति:, गढ़वाल-महासभा, संस्कृत-विद्यालय-महाविद्यालय: शिक्षक-समिति: इत्यादय: सामाजिक-संस्थाः सहयोगं दास्यन्ति। सनातन-परम्परायां गङ्गायाः विशेष-महत्त्वं वर्तते; सर्वेषु शुभ-कर्मसु गङ्गाजलस्य स्मरणं दर्शनं च अनादि-परम्परा अस्ति।
अन्ते न्यासाध्यक्षः विजय-भट्ट-महाभागः सर्वेषाम् अतिथीनां प्रति कृतज्ञतां धन्यवादं च ज्ञापितवान्। कार्यक्रमस्य सञ्चालनं कार्यक्रम-संयोजकेन डॉ. नवीन-पन्त-महाभागेन कृतम्।
अस्मिन् अवसरे विभाग-प्रचारकः राकेश-महाभागः, पूर्व-विधायकः लाखीराम-जोशी-महाभागः, कुण्डन-सिंह-टकोला-महाभागः, संजय-मठपाल-महाभागः, मनोज-सिलवाल-महाभागः,रघुवीर-सिंह-कालाकोटी-महाभागः, चन्दन-सिंह-किरोला-महाभागः, लक्ष्मण-सिंह-भण्डारी-महाभागः, पारस-काण्डपाल-महाभागः, दिनेश-जोशी-महाभागः, त्रिलोक-भट्ट-महाभागः, तरुण-व्यास-महाभागः, पवन-पन्त-महाभागः, डॉ. संजय-शाह-महाभागः, हेमन्त-तिवारी-महाभागः, महेश-बहुगुणा-महाभागः, जगत-नयन-महाभागः, केशव-बलियानी-महाभागः, महेन्द्र-सिंह-रौतेला-महाभागः, गुरप्रीत-सिंह-महाभागः, अनिल-टम्टा-महाभागः, डॉ. आनन्द-महाभागः, ललित-मोहन-जोशी-महाभागः सहिताः अन्ये अपि बहवः सज्जनाः उपस्थिताः आसन्।







