उत्तराखण्ड

संस्कृत-सप्ताह-महोत्सवस्य भव्यं समापनम्, कोटग्रामे संस्कृतमयं जातं वातावरणम्

उत्तरकाशी। आदर्श-संस्कृत-ग्राम-कोटग्रामे उत्तराखण्ड-संस्कृत-संस्थानम् (उत्तराखण्ड-सर्वकारः) तथा केन्द्रीय-संस्कृत-विश्वविद्यालयः, नवदेहली इत्येतयोः संयुक्ततत्त्वावधाने सञ्चालितस्य आदर्श-संस्कृत-ग्राम-परियोजनायाः अन्तर्गतं आयोजितस्य संस्कृत-सप्ताह-महोत्सवस्य भव्यं समापन-समारोहः हर्षोल्लासेन उत्साहेन च सम्पन्नः।

कार्यक्रमस्य अध्यक्षतां श्रीराजीवकुँवरः, मण्डलाध्यक्षः, सांकरी-भाजपा अकरोत्। मुख्यातिथिरूपेण श्रीजयचन्दः, जिला-उपाध्यक्षः, भाजपा उपस्थितः आसीत्। विशिष्टातिथिरूपेण श्री रणदेवराणाः, मण्डलोपाध्यक्षः, सांकरी-भाजपा उपस्थितः आसीत्। अतिथिरूपेण श्री प्रदीपरावतः, श्रीराजेन्द्रलालः, श्रीमनोजकुँवरः इत्यादयः गणमान्याः जनप्रतिनिधयः ग्रामवासिनश्च कार्यक्रमे उपस्थिताः आसन्।

कार्यक्रमे उपस्थितैः अतिथिभिः वक्तृभिश्च संस्कृतभाषायाः महत्त्वम्, संस्कृतस्य प्रचार-प्रसारः, भारतीयसंस्कृतेः संस्काराणां च संरक्षणम् तथा संस्कृतभाषायाः जनजनं प्रति प्रसारणस्य आवश्यकता इत्यादिविषयेषु स्वविचाराः प्रस्तुताः। वक्तारः अवदन् यत् संस्कृतं केवलं प्राचीनज्ञानस्य भाषा नास्ति, अपितु भारतीयसंस्कृतेः, परम्परायाः संस्काराणां च आधारभूता भाषा अस्ति। तैः आदर्श-संस्कृत-ग्राम-कोटग्रामे संस्कृतभाषां प्रति ग्रामवासिनां वर्धमानस्य उत्साहस्य प्रशंसा कृता।

आचार्यः माधवप्रसादपौडेलः, आदर्श-संस्कृत-ग्राम-प्रशिक्षकः एवं संयोजकः, संस्कृत-सप्ताहस्य अन्तर्गतं आयोजितानां विविधकार्यक्रमाणां संक्षिप्तविवरणं प्रस्तुतवान्। सः अवदत् यत् सप्ताहपर्यन्तं आयोजितैः कार्यक्रमैः ग्रामवासिनां, विशेषतः बालकानां युवानां च, संस्कृतभाषां प्रति नूतना रुचिः उत्साहश्च उत्पन्नः अस्ति। भविष्येऽपि संस्कृतस्य प्रचार-प्रसाराय एतादृशानां कार्यक्रमाणां निरन्तरं आयोजनस्य संकल्पं सः व्यक्तवान्।

संस्कृत-सप्ताहस्य अन्तर्गतं आयोजितायां सरल-संस्कृत-सामान्यज्ञान-प्रतियोगितायां उत्कृष्टप्रदर्शनं कृतवन्तः प्रतिभागिनः अतिथिभिः पुरस्कारैः सम्मानिताः।
प्रथमस्थानम् — कुमारी शिवन्या
द्वितीयस्थानम् — कुमारी अञ्जली
तृतीयस्थानम् — श्री किशोर उनियालः
प्रोत्साहनपुरस्कारः — श्री प्रदीप उनियालः
प्रोत्साहनपुरस्कारः — कुमारी राखी
विजेतृभ्यः सर्वेभ्यश्च प्रतिभागिभ्यः अतिथिभिः पुरस्काराः शुभकामनाश्च प्रदत्ताः। प्रतियोगितायां बालकेभ्यः आरभ्य वयोवृद्धेभ्यः पर्यन्तं ग्रामवासिनां उत्साहपूर्णसहभागितया कार्यक्रमः विशेषरूपेण आकर्षकः प्रेरणादायकश्च अभवत्।

कार्यक्रमस्य अन्ते आयोजकैः सर्वेभ्यः अतिथिभ्यः, जनप्रतिनिधिभ्यः, ग्रामवासिभ्यः, प्रतिभागिभ्यश्च कृतज्ञता ज्ञापिता। संस्कृतभाषां प्रति वर्तमानमुत्साहं निरन्तरं धारयितुं तथा “मम भाषा संस्कृतम्” इति संकल्पेन संस्कृत-सप्ताह-महोत्सवस्य गरिमापूर्णं समापनम् अभवत्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button