उत्तराखण्ड

चन्द्रबदनीपरिसरे आयोजिता भारतीयज्ञानपरम्पराविषये एकदिवसीया राष्ट्रियसङ्गोष्ठी

टिहरी, उत्तराखण्ड। श्रीदेवसुमनोत्तराखण्डविश्वविद्यालयस्य चन्द्रबदनीपरिसरे परिसरनिदेशकस्य डा. महन्तमौर्यस्य अध्यक्षतायां शिक्षामन्त्रालयस्य भारतसर्वकारस्य “अखिलभारतीयशिक्षासमागम–२०२६” इत्यन्तर्गतं “भारतीयज्ञानपरम्परा (भारतीयभाषाणां परिप्रेक्ष्ये)” इत्यस्मिन् विषये एकदिवसीया राष्ट्रियसङ्गोष्ठी समायोजिता। अस्याः सङ्गोष्ठ्याः प्रमुखोद्देश्यं भारतीयज्ञानपरम्परायाः, भारतीयभाषाणां समृद्धसांस्कृतिकपरम्पराया: संरक्षणं संवर्धनञ्च आसीत्।

कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनेन सरस्वतीवन्दनया च अभवत्। ततः कार्यक्रमसंयोजकेन संस्कृतविभागस्य सहायकाचार्येण डा. मूलचन्द्रशुक्लेन सङ्गोष्ठ्याः रूपरेखा विषयस्य समसामयिकप्रासङ्गिकता च प्रतिपादिता। परिसरप्राचार्येण अतिथीनां स्वागतं कृत्वा भारतीयज्ञानपरम्परायाः महत्त्वं आधुनिकशिक्षाव्यवस्थायां तस्याः उपयोगिता च विवृता।

मुख्यवक्त्रा प्रो. रामबहादुरशुक्लेन, जम्मूविश्वविद्यालयस्य संस्कृतविभागाध्यक्षेन, भारतीयज्ञानपरम्परायाः विविधाः आयामाः विस्तरेण निरूपिताः। तेन भारतीयभाषासु निहितायाः ज्ञानसम्पदः संरक्षणम्, अनुसन्धानं नूतनसन्ततये हस्तान्तरणञ्च अत्यावश्यकमिति प्रतिपादितम्। आधुनिकशिक्षायाः समकालीनसमाजस्य च सहैव भारतीयज्ञानपरम्परायाः समन्वयस्य आवश्यकतापि प्रतिपादिता।

सहसचिवया राजनीतिशास्त्रविभागस्य सहायकाचार्यया सुश्री वन्दनया भारतीयज्ञानपरम्परायाः भारतीयभाषाणां च संरक्षणं वर्तमानसन्ततये अत्यन्तमावश्यकमिति उक्त्वा तयोः व्यापकप्रचारप्रसारस्य आवश्यकता उद्घोषिता।

सङ्गोष्ठ्यां विश्वविद्यालयस्य परिसरस्य च शिक्षकाः, शोधार्थिनः, विद्यार्थिनश्च उत्साहपूर्वकं सहभागीभूताः अभवन्। तकनीकीसत्रेषु भारतीयभाषासु निहितं ज्ञानविज्ञानं, साहित्यं, संस्कृतिः, लोकपरम्पराः, शिक्षापद्धतयः तथा समकालीनसन्दर्भेषु भारतीयज्ञानपरम्परा इत्यादिषु विषयेषु शोधपत्राणि प्रस्तुतानि।

अन्ते भूगोलविभागस्य सहायकाचार्येण डा. गुरुप्रसादथपलियालेन धन्यवादज्ञापनं कृतम्। तेन समस्तेभ्यः अतिथिभ्यः, वक्तृभ्यः, शोधपत्रप्रस्तुतकर्तृभ्यः, आयोजकेभ्यः, शिक्षकभ्यः तथा प्रतिभागिभ्यः हार्दिकमाभारं प्रकटितम्।
एषा राष्ट्रियसङ्गोष्ठी भारतीयज्ञानपरम्परायाः भारतीयभाषाणां च प्रति जनजागरणवर्धनाय तथा तासां समकालीनशैक्षिकपरिप्रेक्ष्ये सुदृढसमन्वयाय महत्त्वपूर्णरूपेण सिद्धाभूत्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button