“दर्शनं भारतीयज्ञानपरम्परायाः आत्मा ” — प्रो. वी.एन. खाली

रामनगरम्। भारतीयदर्शनं भारतीयज्ञानपरम्परायाः आत्मा अस्ति इति मुख्यातिथिरूपेण उत्तराखण्डराज्यस्य उच्चशिक्षानिदेशकः प्रो. वी.एन. खाली महोदयः गुरुदिवसव्याख्यानमालायां उक्तवान्। सः अवदत् यत् भारतीयज्ञानपरम्परायाः अन्तर्गतं भारतीयदर्शनपरम्परा अनादिकालात् प्रवर्तमाना अस्ति। अपि च, आङ्ग्लसाहित्यस्य प्रख्यातेन लेखकेन टी.एस. इलियट इत्यनेन उद्धृतानि “ॐ शान्तिः” इत्यादीनि वाक्यानि अस्याः परम्परायाः प्रभावेन प्रेरितानि सन्ति इति निर्दिष्टम्। स्वीयसम्बोधने सः विद्यार्थिभ्यः शुभाशयाः दत्त्वा भारतीयज्ञानपरम्परायाः विषये व्याख्यानं अत्यन्तमहत्त्वपूर्णम् इति कथयन्, अस्मिन् विषयेषु अधिकाधिकं ज्ञानं प्राप्तुं प्रेरितवान्।
वक्तव्यम् अस्ति यत् पी.एन.जी. राजकीयस्नातकोत्तरमहाविद्यालये रामनगरे “कैरियर-काउंसलिङ्ग” इत्यनेन प्रकोष्ठेन सञ्चालितायाः पञ्चम-शृंखलायाः दशमव्याख्यानं संस्कृतविभागस्य आयोजकत्वे सम्पन्नम्। अस्य विषयः आसीत्— “भारतीयदर्शनस्य परम्परा, वैशिष्ट्यं स्वरूपं च (भारतीयज्ञानपरम्परायाः सन्दर्भे)”।
अस्य मुख्यवक्ता आसीत् इलाहाबादकेन्द्रीयविश्वविद्यालयस्य संस्कृतविभागस्य सहायकप्राध्यापकः डॉ. आशीषकुमारत्रिपाठी महोदयः। तेन स्ववक्तव्ये संस्कृतभाषां विश्वस्य समस्तभाषाणां जननी इति निरूप्य, सा विविधज्ञानविज्ञानैः समन्विता अस्ति तथा भारतीयज्ञानपरम्परायाः नैतिकमूल्यानां शिक्षायाः अमूल्या निधिः इति प्रतिपादितम्।
सः अग्रे उक्तवान् यत्— “दृश्यते अनेन इति दर्शनम्”, अर्थात् येन ब्रह्मणः अथवा मोक्षस्य प्राप्तिः भवति तत् दर्शनम् इति। तेन दर्शनस्य आस्तिक-नास्तिकभेदौ विविच्य, आस्तिकदर्शनानां— सांख्य, योग, न्याय, वैशेषिक, पूर्वमीमांसा, वेदान्त— एतेषां षड्दर्शनानां परम्परा, वैशिष्ट्यं, स्वरूपं च विस्तारतः प्रतिपादितम्।
प्रश्नकाले अपि तेन विद्यार्थिनां जिज्ञासानां समाधानं कृतम्। कार्यक्रमस्य आरम्भे अतिथीनां स्वागतं कृत्वा कार्यक्रमनिदेशकः तथा प्राचार्यः प्रो. एम.सी. पाण्डे महोदयः स्वीयसम्बोधने गुरुदिवसस्य परम्परां विवृत्य, भारतीयदर्शनचिन्तनस्य समाजविकासे मार्गदर्शकत्वं प्रतिपादितवान्।
आयोजकसचिवः तथा संस्कृतविभागाध्यक्षः डॉ. मूलचन्द्रशुक्लः विषयस्य प्रस्ताविकां प्रस्तूय अन्ते सर्वेषां अतिथीनां आगन्तुकानां च आभारं व्यक्तवान्।
कार्यक्रमव्यवस्थापनकार्ये “कैरियर-काउंसलिङ्ग” इत्यस्य संयोजकः डॉ. अनुरागश्रीवास्तवः, सहसंयोजिका डॉ. लोतिका अमित: तथा प्रकाशसिंहबिष्टः प्रमुखतया सहयोगं कृतवन्तः।
अस्मिन् कार्यक्रमे महाविद्यालयस्य अन्येषां संस्थानां च बहवः गणमान्याः उपस्थिताः आसन्, येषु प्रो. विनयविद्यालंकारः, प्रो. जयातिवारी, प्रो. गीताशुक्ला, प्रो. गिरीशपन्तः, चीफ-प्रॉक्टर प्रो. एस.एस. मौर्यः, प्रो. पुनीताकुशवाहा, डॉ. सिराजअहमदः, डॉ. रंजनलता, डॉ. उमाकान्तशुक्लः, डॉ. कृपाशङ्करमिश्रः, डॉ. डी.एन. जोशी, डॉ. शारदापाठकः, डॉ. सुमनकुमारः, डॉ. राघवझा, डॉ. मुदितशुक्लः, भूपसिंहधामी, दीनदयालः, राधेकृष्णः इत्यादयः प्रमुखाः आसन्।
इति।







