मध्यप्रदेश

४७तमः वार्षिकोत्सवो भव्यतया सम्पन्नः (३८४ छात्र-छात्राः पुरस्कृताः)

डॉ॰ चन्द्रकान्तदत्तशुक्लः। मऊ उत्तरप्रदेशः।
सन्तगणिनाथ- राजकीयस्नातकोत्तर- महाविद्यालयस्य सप्तचत्वारिंशत्तमः वार्षिकोत्सवः कुशलतया सम्पन्नः। विशिष्टातिथिः श्रीमती इन्दू देवी ‘डायमण्ड’ माननीया अध्यक्षा नगरपञ्चायतमुहम्मदाबादस्य समारोहाध्यक्षः महाविद्यालयस्य प्राचार्यः श्रीमान् डॉ॰ प्रहलादराम महोदयः अन्ये च सम्मान्याः सम्मिल्य दीपं प्रज्ज्वाल्य, मातरं सरस्वतीं प्रपूज्य समारोहस्य शुभारम्भं कृतवन्तः । तत्रादौ संस्कृतविभागीयै: छात्रैः सरस्वतीवन्दना स्वागतगीतादिकं प्रस्तुतम्। महाविद्यालयस्य प्राध्यापकैः माल्यार्पणेन, उत्तरीय-स्मृतिचिह्नादिस्वागतवस्तूनि प्रदाय अतिथीनां स्वागतं विहितम्। वचोभिः स्वागतभाषणं कृतं कुलानुशासकैः डॉ. राकेशकुमारवर्यैः। वार्षिकाख्या हिन्दीविभागाचार्यैः डॉ. अवनीशपाण्डेयवर्यैः प्रस्तुता।
अवसरेsस्मिन् महाविद्यालयस्य छात्र-छात्राः अनेकान् सांस्कृतिककार्यक्रमान् प्रस्तुतवन्तः। ‘आयो रे, शुभ दिन आयो’ सोनाली विश्वकर्मा, शम्भो, शिवशम्भूस्वयम्भू गीतोपरि वंशिकारायः, महिषासुरमर्दिनीस्त्रोत्रमुपरि रञ्जू-खुशबू प्रजापती योगप्रदर्शनृत्यं,’श्यामा आन बसो वृन्दावन में’ रुचि यादवः, ‘बैखौफ आजाद रहना है मुझे’ प्रशंसा सिंहः, ‘जो है अलबेला मदनैनों वाला’ सोनाली, ‘पिंगा ग पोरी, साक्षी पाण्डेया, ‘घर मोरे परदेशिया’ आफरीन खां, ‘तू मेरी खामोशी’ अमनकुमारः मधुवन में कन्हैया’ रितिका चौहानादयः छात्राः अत्यन्तं मनोहरं नृत्यं कुशलतापूर्वकं प्रस्तुतवत्यः। ‘ऊंचा हिमालय ऊँचा तिरङ्गा’ अवनीशसरोजः, ‘लहरा के झूमे तिरंगा, तारों को चूमे तिरंगा’ आस्था वर्मा, ‘क्या मनमौजी’ रिया गुप्ता प्रभृतिच्छात्राः सुमधुरगीतं प्रस्तुतवत्यः। अभय-चन्द्रकेशप्रभृतयः वर्तमानराजनीतिमादाय सन्देशप्रदायकं नाटकं प्रस्तुतवन्तः।
मध्ये-मध्ये अतिथयः मिशनशक्ति, अटलजयन्ती, परिषदीय, विभागीयपुरस्कारान्नपि छात्रेभ्यः प्रमाणपत्रसहितान् प्रदत्तवन्तः।
विशिष्टातिथि महोदया श्रीमती इन्दुदेवी छात्राणां प्रस्तुतिमवलोक्य मोदमाना हृदा प्रशंसितवती। तया प्रोक्तं यत् जीवने साफल्याय स्पर्धा आवश्यकी अतः यदा कदापि स्वकीयां प्रतिभां प्रदर्शयितुम् अवसरो मिलेत् सोत्साहं प्रतिभागिता विधेया। अन्ते सा महाविद्यालयपरिवाराय छात्रछात्राभ्यश्च शुभकामनाः प्रदत्तवती। अध्यक्षीयाशीर्चने प्राचार्यः डॉ. प्रहलादरामवर्यः सम्बोधितवान् यत् मम महाविद्यालयस्य छात्राणां सांस्कृतिकप्रस्तुतिः नितरां मनोहारिणी आसीत्। एतादृशं प्रदर्शनं न केवलं मनोरञ्जनकरम् अपितु जीवने स्वास्थ्यप्रदम् अनुशासनप्रदं च भवति। प्राचार्यवर्य आसन्नवार्षिकपरीक्षामवलोक्य अचिरम् अवशिष्टं पाठ्यक्रमं प्रपूर्य सम्यक्तया सज्जीभूय च परीक्षायां सम्मिलिता भवन्त्विति उक्तवान्। अस्मिन् क्रमे महाविद्यालयतः सेवानिवृत्तिं प्राप्तवतोः प्रमोदचौबे, शोभासिंहेत्यनयोः सौप्रस्थानिकं विहितम्। अन्ते संस्कृतविभागीयपरास्नातक छात्राभिः आंचलगुप्ता महकमौर्या आकांक्षा चौहान सुस्मिता रेणू यादव साधना चौहान स्नेहा मनीषा मधुरिमा चौहान तैत्तिरीयोपनिपनिषदः दीक्षान्तोपदेशः प्रस्तुतः। समेभ्यः धन्यवादज्ञापनं डॉ. बालमुकुन्दयादववर्यैः प्रदत्तम्। वार्षिकोत्सवस्य सञ्चालनं समारोह केन डॉ. चन्द्रकान्तदत्तशुक्लवर्येण विहितम्। विशेषेण सहयोगिनः प्राध्यापकाः डॉ. अजयवर्मा, डॉ. विजयबहादुरयादवः, डॉ. दिवाकरयादवः, डॉ. अविनाशचन्द्रयादवः, डॉ. अमृता तिवारी, डॉ. दिनेशयादवः, डॉ. राजेशयादवः, डॉ. अभिनयगिरिः, डॉ. शादाब अहमदः, डॉ. कृष्णदेवोपाध्यायः, डॉ. मनोजवर्मा, डॉ. बृजरानी तिवारी, डॉ. आशुतोषत्रिपाठी, डॉ. सरिता दुबे, डॉ. प्रभा भारतीय, डॉ. शिवप्रतापरायः, डॉ. राजकमलयादवः, डॉ. दुर्गाप्रसादसिंहः, डॉ. शैलेन्द्रकुमारः, डॉ. सन्दीपगौरवः, डॉ. सतीशकुमारः, डॉ. अमितपटेलः प्रभृतयः आचार्याः, कार्यालयप्रमुखा चन्द्रप्रकाशवर्मा, रामकेशयादवप्रभृतयः कर्मचारिणः, सभ्याः नागरिकाः अभिभावकाः, सप्तशताधिकाः छात्र-छात्राश्चोपस्थिता आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button