देहरादून
-
“विद्वानेव विजानाति विद्वज्जनपरिश्रमम् — डॉ. रमेशचन्द्रपाण्डेयः”
देहरादून-तुलसीप्रतिष्ठानम् (२ सितम्बरमासः) उत्तराखण्डविद्वत्सभायाः (पञ्जीकृतायाः) षोडशः स्थापना-दिवस-समारोहः अद्य देहरादून-नगरे तिलकमार्गे अवस्थिते तुलसीप्रतिष्ठाने अत्यन्तं हर्षोल्लास-गौरवपूर्णेन वातावरणेन सम्पन्नः। अस्मिन् अवसरे क्षेत्रेभ्यः विभिन्नेभ्यः…
Read More » -
अनुयायी ज्योतिपटवाल: ज्योतिर्विद: घिल्डियालवर्यस्य विजयीं आशिषं स्वीचकार
देहरादूनतः वार्ता । लैन्सडाउनक्षेत्रस्य विधायकस्य रावतदिलीपस्य धर्मपत्नीं रावतनीतूदेवीं जनपदपञ्चायतनिर्वाचने निर्णायकरूपेण पराजित्य राज्ये नवीनां कीर्तिं संस्थापयन्ती पटवालज्योतिर्देवी स्वदैवज्ञगुरुम् आचार्यं घिल्डियालचण्डीप्रसादं दैवज्ञम्…
Read More » -
संस्कृतम् अस्माकम् आनुवंशिकसूत्रेषु निहितम् अस्ति – गौरवशास्त्री प्रान्तसङ्घटनमन्त्री
देहरादूनम् , १३ अगस्तमासः २०२५। संस्कृतभारती देहरादूनम् इत्यनेन ‘गेहे-गेहे संस्कृतम्’ इत्यभियानान्तर्गते जनकल्याणन्यासे, सुमननगरे, धर्मपुरे, देहरादूनमहानगरे अद्य सायं ४:३० तः ७:००…
Read More » -
भोगपुरे ( देहरादूनम् ) त्रयोदशसंस्कृतग्रामाणां लोकार्पणम् – मा.मुख्यमन्त्री-शिक्षामन्त्र्योः सन्निधौ सांस्कृतिकसंकल्पस्य शुभारम्भः
देहरादूनजिल्लान्तर्गतं भोगपुरग्रामे अद्य त्रयोदशसंस्कृतग्रामाणां लोकार्पणसमारोहः भव्यरूपेण सम्पन्नः। अस्मिन् अवसरः उत्तराखण्डराज्यस्य मा.मुख्यमन्त्री श्री पुष्करसिंहधामी मुख्यातिथिरूपेण, मा.शिक्षामन्त्री डॉ. धनसिंहरावत विशिष्टातिथिरूपेण च सन्निहितौ…
Read More » -
अथ हिमवत्प्रस्थे पुण्यसलिलया गङ्गया पावितधरातले देहरादूनाख्ये नगरे संस्कृतभारत्या श्रीगङ्गोद्धारसेवासमित्या च संयुक्तोद्यमेन गीर्वाणवाणीसप्ताहस्य सन्दर्भे महान् यज्ञसमारोहः समतिष्ठत।
चन्द्रबनीस्थे गौतमकुण्डपरिसरे विराजिते श्रीबाबाबालकनाथमन्दिरे महतः श्रीहेमराजठाकुरस्य पावने सान्निध्ये संस्कृतभाषाया भारतीयसंस्कृतेश्च संरक्षणाय संवर्धनाय च कृतसङ्कल्पैः सुधीभिरेष यज्ञो व्यधायि। तत्र पुण्यदिने वैदिकमन्त्रघोषैर्दिशो…
Read More » -
उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं
कर्नाटकराज्ये स्थितं मत्तूरु-संस्कृतग्रामम् यत्र ग्रामवासिनः प्रायः सर्वे संस्कृतभाषायाम् एव नित्यजीवनं यापयन्ति, तत्र उत्तराखण्डशासनस्य एकं विशिष्टं शैक्षिकशिष्टमण्डलं शैक्षिकभ्रमणार्थं समागतम्। भ्रमणमेतत् माननीयस्य…
Read More » -
द्वितीयराजभाषायाः कार्यक्रमस्य क्रियान्वयनम्
ऋषिकेश:। शिक्षायाः संस्कृत-शिक्षायाः च सहायकनिदेशक: डॉ॰ चण्डीप्रसादः घिल्डियालः अवदत् यत् केंद्रराज्ययोः सर्वेषां सर्वकारीविभागानां नामपट्टिका च निश्चितकालसीमायाः अन्तर्गतं द्वितीयराजभाषारूपेण संस्कृतभाषारूपेण च…
Read More » -
द्वितीय-राजभाषासंस्कृतभाषायाः उन्नयनार्थं संस्कृतभारत्याः प्रतिनिधिमण्डलेन मुख्यमन्त्रीधामीवर्येण सह मेलनं कृतम्
उत्तराखण्डराज्ये संस्कृतभारत्याः प्रान्तसंगठनमंत्री श्री गौरव-शास्त्री, प्रान्त-मन्त्री श्री गिरीश-तिवारी, च कोषाध्यक्षः श्री अंकित-वर्मा इत्येते त्रयः प्रतिनिधयः राज्यस्य द्वितीय-राजभाषाया: सन्दर्भे संस्कृतभाषायाः उन्नयनं…
Read More » -
उत्तराखण्डसचिवालये संस्कृतसम्भाषणशिविरस्य शुभारम्भ: , संस्कृतशिक्षायाः नवं आयामं लप्स्यते
उत्तराखण्डराज्यस्य संस्कृतशिक्षाविभागस्य उत्तराखण्ड-संस्कृत-अकादम्याः च हरिद्वारनगर्याः संयुक्ततत्त्वावधानस्य अन्तर्गतं उत्तराखण्डसचिवालये देहरादूने संस्कृतसम्भाषणशिविरस्य शुभारम्भः माननीयमुख्यमन्त्रिणा श्रीपुष्करसिंहधामीवर्येण कृत: । शिविरस्य उद्घाटनसन्धौ उत्तराखण्डराज्यस्य माननीयमन्त्री डा.…
Read More » -
संस्कृतस्य प्राक्तनमहिमा — वर्तमानजीवने पुनः प्रतिष्ठाप्यते
संस्कृतभारतीदेहरादूनशाखायाः तत्त्वावधाने दूनविश्वविद्यालयपरिसरे आयोजितस्य पञ्चदिवसीयस्य संस्कृतसम्भाषणशिविरस्य हर्षोल्लासेन, समारोपः संजातः । अस्य शिविरस्य प्रमुखं लक्ष्यं आसीत् — विश्वविद्यालयीयच्छात्रेषु संस्कृतभाषायाः माधुर्यं, सरलतां…
Read More »









