उत्तराखण्ड

रुद्रप्रयागजनपदस्य भव्यसंस्कृतमासमहोत्सव: भारतीकन्नोजियाद्वारा सम्पाद्यते ।

सितम्बर 18 दिनांके उत्तराखण्ड-संस्कृत-संस्थानेन समायोज्यते एकदिवसीया संस्कृतसंगोष्ठी।

रुद्रप्रयाग। उत्तराखण्ड-संस्कृत-संस्थानम् हरिद्वारम् तथा राजकीय-महाविद्यालयः जखोली (रुद्रप्रयाग:) इत्येतयोः संयुक्ततत्त्वावधानेन संस्कृतमासमहोत्सवस्य उपलक्ष्ये १८ सितम्बर २०२६ (शुक्रवासरे) प्रातः ११:०० वादने अन्तर्जालीय-माध्यमेन एकदिवसीया जनपदस्तरीया संस्कृतसंगोष्ठी समायोज्यते।

कार्यक्रमस्य अध्यक्षतां महाविद्यालयस्य प्राचार्या डा. माधुरीमहोदयाद्वारा सम्पद्यते । संगोष्ठ्याः मुख्यवक्त्री प्रो. कमला भारद्वाज:, सेवानिवृत्ता संकायाध्यक्षा, श्रीलालबहादुरशास्त्री-केन्द्रीय-संस्कृत-विश्वविद्यालय- नवीदिल्ली भविष्यति। विशिष्टातिथिरूपेण डा. प्रीति:, प्राध्यापिका, हेमवतीनन्दनबहुगुणा-गढ़वाल-विश्वविद्यालयात् सहभागिता करिष्यति।

कार्यक्रमस्य सहसंयोजिका कुमारी सुमन: तथा जनपदसंयोजिका डा. भारती इत्येताभ्यां सञ्चालनं विधास्यते।
आयोजकैः जनपदस्य संस्कृतप्रेमिणः, अध्यापकाः, शोधार्थिनः, छात्राः तथा संस्कृतानुरागिणः सर्वेभ्यः विनम्रं निमन्त्रणं प्रदत्तम् यत् ते अन्तर्जालीय-माध्यमेन उपस्थाय कार्यक्रमस्य शोभां वर्धयिष्यन्ति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button