संस्कृतसाहित्यनिहिता पर्यावरणीयचेतना आधुनिकभूगोलेन सह सम्बद्धा भवेत् – “डा. नेहा तिवारी पाण्डेयवर्या”

पौडीगढवालम्। हेमवतीनन्दनबहुगुणागढवालविश्वविद्यालयस्य (केन्द्रीयविश्वविद्यालयस्य) डॉ. बी. जी. आर. परिसरे पौडीगढवाले आयोजिते संस्कृतसप्ताहस्य अन्तर्गते “संस्कृतशिक्षा पर्यावरणीयसन्तुलनं च आधुनिकभूगोलस्य परिप्रेक्ष्ये” विषयेस्मिन् विशेषव्याख्यानकार्यक्रमः सम्पन्नः। अस्मिन् कार्यक्रमे संस्कृतस्य ज्ञानपरम्परायाः आधुनिकपर्यावरणचिन्तनस्य च अन्तस्सम्बन्धः सम्यक् प्रतिपादितः।
कार्यक्रमस्य मुख्यवक्त्री डा. नेहा तिवारी पाण्डेयवर्या, सहायकाचार्या, भूगोलविभागत:, डॉ. शिवानन्दनौटियालराजकीयस्नातकोत्तरमहाविद्यालय- कर्णप्रयाग-चमोलीत: आसीत्। तया संस्कृतशिक्षां आधुनिकभूगोलपर्यावरणचिन्तनाभ्यां सह संयोज्य भारतीयज्ञानपरम्परायां प्रकृतेः, जलस्य, वनस्पतीनां, जीवजगतः तथा पर्यावरणस्य विषये विद्यमाना संवेदनशीला दृष्टिः विस्तारतः निरूपिता।
स्वव्याख्याने तया प्रतिपादितं यत् पर्यावरणसंरक्षणस्य सन्तुलितजीवनस्य च अवधारणा केवलं आधुनिककालस्य आवश्यकता नास्ति, अपितु संस्कृतसाहित्ये भारतीयज्ञानपरम्परायां च प्रकृतिसमन्वितजीवनस्य चिन्तनं प्राचीनकालादेव प्रतिष्ठितम्। आधुनिकभौगोलिकसिद्धान्तानां सन्दर्भे संस्कृतसाहित्ये निहितां पर्यावरणीयदृष्टिं तया तार्किकतया सुबोधरूपेण च प्रस्तुतम्।
व्याख्यानस्य वैशिष्ट्यम् आसीत् यत् संस्कृतभूगोलयोः इव पृथग्विषययोः मध्ये विद्यमानान् अन्तर्सम्बन्धान् तया सरलतया स्पष्टीकृतवती। विषयस्य गाम्भीर्यं सहजाभिव्यक्त्या सह संयोज्य विद्यार्थिनः प्रेरिताः यत् संस्कृताध्ययनं केवलं भाषासाहित्यपर्यन्तं न सीमितम्, अपितु पर्यावरणभूगोलयोः तथा वैश्विकसमस्याः अवगन्तुं महत्त्वपूर्णं माध्यममपि अस्ति।
कार्यक्रमस्य अध्यक्षतां परिसरनिदेशकः प्रो. उमेशचन्द्रगैरोला अकरोत्। स्वाध्यक्षीयोद्बोधने तेन संस्कृतस्य भारतीयज्ञानपरम्परायाश्च व्यापकता प्रतिपादिता तथा समकालीनकाले अन्तर्विषयकाध्ययनस्य आवश्यकता विशेषतया उद्घोषिता। तेन पर्यावरणीयसन्तुलनविषयकः अयं संस्कृतशिक्षासम्बद्धः उपक्रमः अत्यन्तं उपयोगी प्रासंगिकश्च इति उक्तम्। स्वागतभाषणम् अतिथिपरिचयं च डा. मनोजकुमारः प्रस्तुतवान्। तेन मुख्यवक्त्र्याः परिचयः कार्यक्रमस्य विषयभूमिका च सम्यक् विवृता।
कार्यक्रमस्य सञ्चालनं श्रीगोकुलचन्द्रफुलारा कुशलतया कृतवान्। तस्य सुव्यवस्थितेन सञ्चालनक्रमेण कार्यक्रमस्य सर्वेऽपि सोपानाः प्रभावकरूपेण सम्बद्धाः अभवन्।
अन्ते संस्कृतविभागाध्यक्षः कार्यक्रमसंयोजकश्च दिनेशचन्द्रपाण्डेयः धन्यवादज्ञापनम् अकरोत्। तेन मुख्यवक्त्र्याः विद्वत्तापूर्णव्याख्यानाय कृतज्ञता प्रकटिता तथा संस्कृताध्ययनं समकालीनविषयैः सामाजिकसरोकारैश्च सह संयोजनीयम् इति प्रतिपादितम्।
संस्कृतसप्ताहस्य अन्तर्गतः अयं कार्यक्रमः संस्कृतसाहितत्य- निहितायाः पर्यावरणीयचेतनायाः आधुनिकभूगोलस्य परिप्रेक्ष्ये अवबोधनस्य दिशि महत्त्वपूर्णः प्रयासः अभवत्। अनेन विद्यार्थिनः सन्देशं प्राप्तवन्तः यत् भारतीयज्ञानपरम्परायां निहिता प्रकृतिसम्मता जीवनदृष्टिः अद्यतनस्य पर्यावरणसङ्कटकालेऽपि परमप्रासंगिकी वर्तते।







