कण्वनगरीकोटद्वारपौड़ी

“गुरुकुलं केवलं शिक्षाकेन्द्रं न, अपितु भारतीयसंस्कृतेः, सदाचारस्य, चरित्रनिर्माणस्य च जीवन्तपरम्परा- “विधायक: महन्तदिलीपरावत:”

श्रीसिद्धबलीगुरुकुलसंस्कृतविद्यालये भव्ययज्ञोपवीतसंस्कारस्य गरिमामयः समारोहः सम्पन्नः।

कोटद्वारम् । श्रीसिद्धबलीधाम्नि कण्वनगरी-कोटद्वारे स्थिते श्रीसिद्धबलीगुरुकुलसंस्कृतविद्यालये बटुकानां यज्ञोपवीतसंस्कारः वैदिकरीत्या श्रद्धाभक्तिसमन्वितः भव्यतया सम्पन्नः। अस्मिन् पुण्यावसरे विद्यालयस्य संरक्षकः कोटद्वारविधायकश्च श्रीमहन्तदिलीपरावतः मुख्यसान्निध्येन उपस्थितः आसीत्। वेदमन्त्रध्वनिभिः, यज्ञेन, मङ्गलस्नानेन, भिक्षायाचनेन च सम्पूर्णं गुरुकुलपरिसरं आध्यात्मिकवातावरणेन स्पन्दितम् अभवत्।
अवसरेस्मिन् अभिभावकै: सह आचार्यै: सह पूजनीयमंचे विधायकवर्येण सह डा.रमाकान्तकुकरेती, प्रधानाचार्य: अशोकजोशी, देवेन्द्रनौडियालः तथा अभिषेकडोबरियालः, संस्कृतस्पर्धानां जनपदसंयोजक: श्रीरोशनगौड: , संस्कृतप्रचारक: कुलदीपमैन्दोला , सिद्धार्थनैथानी आदय: गणमान्यजना:, उपस्थिता: आसन्।

कार्यक्रमस्य प्रारम्भे बटुकानां मङ्गलस्नानम् अभवत्। अभिभावकैः स्वपुत्रैः सह वैदिकविधिना पवित्रस्नानं विधाय उपनयनसंस्कारस्य शुभारम्भः कृतः। ततः आचार्याणां वेदघोषैः सह यज्ञोपवीतधारणसंस्कारः सम्पन्नः। अस्मिन् समये श्रीमहन्तदिलीपरावतमहाभागेन स्वयमेव स्वस्तिवाचनम् उच्चार्य सर्वेषां बटुकानां मङ्गलमयं, धर्मनिष्ठं, तेजस्वि च जीवनं प्रार्थितम्।

स्वीये प्रेरणादायके उद्बोधने श्रीमहन्तवर्येण उक्तं यत्— “गुरुकुलं केवलं शिक्षाकेन्द्रं न, अपितु भारतीयसंस्कृतेः, सदाचारस्य, चरित्रनिर्माणस्य च जीवन्तपरम्परा अस्ति।” तेन प्रतिपादितं यत् यज्ञोपवीतसंस्कारः बालकस्य ज्ञान, अनुशासन, संयम, सेवाभावस्य च आरम्भसूचकः महान् संस्कारः अस्ति। नित्ययज्ञः, वेदाध्ययनम्, गुरुभक्तिः, संस्कृतसंरक्षणं च राष्ट्रस्य सांस्कृतिकवैभवस्य मूलाधारः इति अपि तेन निरूपितम्।
संस्कारोत्तरकाले परम्परानुसारं भिक्षायाचनम् आयोजिता।
बटुकैः विनयपूर्वकं भिक्षा याचिता, अभिभावकैः श्रीमहन्तदिलीपरावतमहाभागेन च श्रद्धानुसारं दक्षिणा प्रदत्ता तथा शुभाशिषः समर्पिताः। एषः भावपूर्णः क्षणः गुरुपरम्परायाः पारिवारिकसंस्काराणां च अनुपमं दर्शनम् अभवत्।

विद्यालयस्य प्रबन्धकः डॉ. रमाकान्तकुकरेती अवदत् यत् गुरुकुलस्य प्रमुखलक्ष्यं वेदस्य, संस्कृतस्य, यज्ञस्य तथा भारतीयजीवनमूल्यानां संरक्षणं संवर्धनं च अस्ति। प्रधानाचार्यः अशोकजोशी संस्कारयुक्तशिक्षायाः महत्त्वं प्रतिपादयन् उक्तवान् यत् संस्काराः एव श्रेष्ठसमाजस्य दृढाधारः सन्ति। आचार्यौ देवेन्द्रनौडियालः तथा अभिषेकडोबरियालः अपि स्वकीयवक्तव्येषु उपनयनसंस्कारस्य आध्यात्मिकं शैक्षिकं च महत्त्वं विस्तरेण निरूपितवन्तौ।

oplus_2

कार्यक्रमस्य समापने सर्वे बटुकाः वैदिकाशिषा आशीर्वादिताः। अभिभावकैः गुरुकुलपरिवारस्य प्रति कृतज्ञता व्यक्तीकृता तथा एषः संस्कारः स्वसन्तानानां जीवनस्य अविस्मरणीयः क्षण: च प्रथम: अवसर: इति कथितम्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button