उत्तराखण्डकण्वनगरीकोटद्वार

सभ्यता-संस्कारयोः प्रतीक: योग: – “ऋषिकण्डवाल:”

राज्य-राष्ट्रीय-स्तरे राकेश-कण्डवालः छात्रैः सह योगेन प्रसृत:

कण्वनगरी-कोटद्वारे योगक्षेत्रे सार्थकयोगशाला- योगासन-क्रीडा-प्रशिक्षण-कार्यशालायाः सफलं समापनम् सञ्जातम् । ख्यातिप्राप्तैः योगविद्यार्थिभिः प्रशिक्षकैश्च संयुक्तरूपेण कार्यशाला आयोजिता। अस्याः कार्यशालायाः समापनं मङ्गलवासरे हर्षोल्लासेन सम्पन्नम्। अवसरेऽस्मिन् योगासन-प्रतियोगिता, एकल-नृत्य-प्रतियोगिता, चित्रकला-प्रतियोगिता, तथा पुरस्कार-वितरण-सम्मान- समारोहः अपि आयोजितः।

कार्यक्रमस्य शुभारम्भः मुख्यातिथिना
श्री ऋषिकण्डवाल-महाभागेन (सिंचन-परामर्शक-उपाध्यक्षः, सम्मानप्राप्त-राज्यमन्त्री – उत्तराखण्ड-सर्वकार:) दीपप्रज्वलनेन कृतः। मुख्यातिथिना बालकैः सह गणमान्य-अतिथयः छात्राश्च सम्मानिताः, पुरस्काराश्च वितरिताः।

राष्ट्रीयस्तरे पदक-प्राप्तेषु क्रीडकेषु
बालयोगी सार्थकः कण्डवालः, संस्कृतिः गुसाईं, सन्तोषी रावत:, किशिता गुप्ता इत्येते विशेषरूपेण सम्मानिताः। तथा प्रतियोगितासु प्रथम-द्वितीय-तृतीय-स्थान-प्राप्ताः सर्वे प्रतिभागिनः पदकप्रमाणपत्रैश्च अलंकृताः। एतत् आयोजनम् । सार्थकयोगशालायाः कृते नितान्तं गर्वकरः क्षणः अभवत्।
कार्यक्रमे डिस्कवर् उत्तराखण्ड 24 न्यूज़ इत्यस्य प्रतिनिधिः श्री अम्बेशः पन्तः, डॉ. रमाकान्तः कुकरेती, कुलदीपः मैन्दोला, रोशनः गौडः, जितेन्द्रः धस्मानः, ममता गौडः, जनार्दनः द्विवेदी, प्रमोदः कण्डवालः, जगदम्बा कण्डवाल:, अञ्जलिः विष्ट:, पूजा रावत: तथा सर्वे अभिभावकाः उपस्थिताः सन्तः पूर्णं सहयोगं प्रदत्तवन्तः।

मार्गदर्शनं कुर्वन् मुख्यातिथिः श्री ऋषिकण्डवालः अवदत्—
“संयमः अनुशासनं च एव योगः। अल्पवयसि एव योगाभ्यासेन या प्रतिभा अर्ज्यते, सा अस्माकं सभ्यता-संस्कारयोः प्रतीकम्। आधुनिक-कौशल-संयुक्तयोगासनानि सम्पूर्ण-जीवनस्य स्वास्थ्याय भवितुमर्हन्ति। राकेशः कण्डवालः कण्वनगरीतः प्रदेशे देशे च विद्यार्थिभिः योगस्य कीर्तिं प्रसारयति।”
संस्कृतक्षेत्रस्य आचार्यः शारीरिक-शिक्षकश्च राकेशः कण्डवालः योगक्षेत्रे विशिष्टां उपलब्धिं प्राप्नोति। सः 2011 वर्षात् आरभ्य संस्कृतशिक्षणेन सह शारीरिकशिक्षायां योगप्रशिक्षणमपि ददाति। तस्य छात्राः जनपदे, प्रदेशे, राष्ट्रस्तरे च विजयध्वजं प्रसारयन्ति।

तस्य पुत्रः सार्थकः कण्डवालः अपि योगासनेषु गिनीज-वर्ल्ड-बुक इत्यत्र स्वनामाङ्कनं कृतवान्। अद्य तेषां माध्यमेन विविधेषु क्षेत्रेषु योगशालाः सञ्चालिताः सन्ति, छात्राः प्रशिक्षकरूपेण योगप्रशिक्षण-कार्यशालाः अपि सञ्चालयन्ति।
एतस्य वर्षस्य प्रारम्भे तेषां निज-आवासे सार्थकयोगशाला क्रीडायोगासन-कार्यशालायाः विधिवत् उद्घाटनं सम्पन्नम्, यस्याः अध्यक्षपदे श्रीमती कविता कण्डवाल: विराजन्ते, संरक्षकः राकेशः कण्डवालः अस्ति। प्रशिक्षकरूपेण सन्तोषी रावत:, सोनम रावत:, शुभम् रावत:, सार्थकः कण्डवालः इत्यादयः तेषां शिष्याः प्रतिदिनं योगप्रसारे महत्त्वपूर्णं योगदानं ददति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button