उत्तराखण्डहरिद्वार

उत्तराखण्डसंस्कृतविश्वविद्यालये नूतनकुलपतिनियुक्तिः

उत्तराखण्डसंस्कृतविश्वविद्यालये, हरिद्वारे कुलपतिपदे नूतननियुक्तेः शासनादेशः निर्गतः। उत्तराखण्डशासनस्य आदेशानुसारं प्रो. रामाकान्तः पाण्डेयः विश्वविद्यालयस्य कुलपतिरूपेण नियुक्तः।

आदेशे उल्लिखितं यत् उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिपदस्य कार्यदायित्वार्थं पूर्वं प्रवृत्ता अस्थायी अथवा अन्तरिम व्यवस्था निरस्ता कृता।

उत्तरप्रदेशराज्यविश्वविद्यालयाधिनियमः १९७३ तमे वर्षे धारा–१२ अन्तर्गत उपधारा (१) अनुसारं गठितया चयनसमित्या प्रस्तुतात् पैनलात् प्रो. रामाकान्तः पाण्डेयः कुलपतित्वाय चयनितः।

प्रो. रामाकान्तः पाण्डेयः वर्तमानकाले केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरपरिसरे (राजस्थानराज्ये) निदेशकपदे कार्यरतः अस्ति। सः स्वकार्यभारग्रहणदिनाङ्कात् आरभ्य आगामी त्रिवर्षपर्यन्तं अथवा अन्यादेशपर्यन्तं (यत् पूर्वं स्यात्) उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिरूपेण कार्यं करिष्यति।

एषः आदेशः लोकभवने, देहरादूननगरे, १४ जनवरी २०२६ दिनाङ्के निर्गतः। आदेशस्य प्रतिलिपयः सम्बन्धितविभागेभ्यः आवश्यककार्यवाह्यर्थं प्रेषिताः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button