ऐषमो विश्व-पुस्तक-मेलके साहित्याकादेम्या: बहुभाषीयः कथा-पाठः सम्पन्नः। मुख्य बिंदवः —
👉 अध्यक्षरूपेण ओडिया-लेखकः अमरेशः खडुआ-वर्यः समुपस्थितः। 👉 संस्कृत-कथा-पाठेन डॉ. युवराज: भट्टराई श्रोतॄणां मनांसि समाकृष्टवान्। 👉 स्वीय-वक्तव्ये डॉ. युवराज: भट्टराई कथायाः ऐतिहासिकतां विवृण्वन् भारतीय-समाजे पुरातनकालादेव कथा-प्रकथन-परम्परायाः महत्त्वं प्राकाशयत्। 👉 बहुभाषीय-कथा-पाठे संस्कृत-प्रस्तुतिः विशेषाकर्षणं जातम्। 👉 संस्कृत-कथा-पाठे डॉ. युवराज: भट्टराई आकर्षणस्य केन्द्रम्।

नवदिल्ली, 14 जनवरी। ऐषमो विश्व-पुस्तक-मेलकस्य अवसरे साहित्याकादेम्या बुधवासरे सायंकाले बहुभाषीय-कथा-पाठ-कार्यक्रमः सफलतया आयोजितः। अस्मिन् कार्यक्रमे भारतस्य विभिन्नासु तिसृषु भाषासु प्रख्याताः कथाकाराः स्व-स्व-भाषाभिः निज-निज-कथानां प्रभावपूर्णं कथा-पाठ-प्रस्तवनम् अकुर्वन्।

कार्यक्रममिमं प्रख्यातः ओडिया-लेखकः अमरेशः खडुआ-वर्यः अध्यक्षितवान्। अत्रावसरे खडुआ-वर्येण कथितं यत्—कथा-पाठः साहित्यस्य तदङ्गं वर्तते येन लेखकाः साक्षात् पाठकैः सह संयोजिताः भवन्ति। कथा सरलः, लोकप्रियः, प्रभावशाली च माध्यमः अस्ति येन जनानां मानसेषु नैतिकतायाः, जीवन-मूल्यानां च आधानं सुगमतया कर्तुं शक्यते। एषः बहुभाषीयः मञ्चः भारतीय-साहित्यस्य भाषिक-वैविध्यं प्रकाशयन् राष्ट्रीय-एकतायाः सुदृढीकरणम् अपि करोति।
अस्मिन् कार्यक्रमे संस्कृत-भाषायाः कथा-पाठः विशेषाकर्षणरूपेण सिद्धः। अस्मिन् अवसरे संस्कृत-साहित्यकारः डॉ. युवराज भट्टराई “तस्य परिचयः” इति शीर्षकीयां स्वीयामाधुनिकीं संस्कृत-कथां प्रभावपूर्णतया प्रास्तौत्। तस्य कथा-पाठे भाषायाः शुद्धता, भावनानां गाम्भीर्यम्, कथ्यस्य संवेदनशीलता, भाषीय-प्रवाहः च स्पष्टतया प्रकटिताः अभवन्। श्रोतृवर्गः सम्पूर्ण-मनोयोगेन कथां श्रुत्वा तस्य प्रस्तुतिं मुक्तकण्ठेन प्राशंसत्।
अत्रेदमपि विशेषतया उल्लेखनीयं यत्—डॉ. युवराज भट्टराई स्वीय-वक्तव्ये कथायाः ऐतिहासिक-पृष्ठभूमिं विवृण्वन् अवदत् यत् भारतीय-समाजे पुरातनकालादेव कथा-प्रकथनस्य समृद्धा परम्परा अस्ति। रामायण-कथा, महाभारत-कथा, भागवत-सत्यनारायण-कथा चेत्यादयः भक्ति-कथाः अस्माकं जीवनस्य आध्यात्मिक-नैतिक-सांस्कृतिक-विकासे अत्यन्तं महत्त्वपूर्णाः सन्ति।
बालकानां सन्दर्भे पञ्चतन्त्र-हितोपदेश-वेतालपञ्चविंशतिका- सन्निभा: कथाः शिक्षाप्रदाः, आनन्ददायिन्यः मनोरञ्जनपूर्णाश्च सन्ति। एतासां परम्पराणां स्मरणं कृत्वा तेन अधुनातन-सन्दर्भे अपि कथायाः अपरिहार्य-महत्त्वं प्रकाशितम्। कथाः अद्यापि समाजस्य यथार्थं, संवेदनां च प्रभावपूर्णरूपेण अभिव्यक्तीकर्तुं समर्थाः सन्ति—इति तेन प्रतिपादितम्।
डॉ. युवराज: भट्टराई-वर्यस्य प्रस्तुतेः माध्यमेन एतत् सिद्धमभवत् यत् संस्कृत-भाषा अद्यापि समकालिक-विषयान् जीवनस्य यथार्थं च सशक्ततया अभिव्यञ्जयितुं पूर्णतया समर्था अस्ति। तस्य कथा-पाठः कार्यक्रमस्य प्रमुखेषु आकर्षणेषु एकतमः अभवत्।
बहुभाषीय-कथा-पाठ-कार्यक्रमे अन्यासु भाषासु अपि कथा-पाठः सम्पन्नः। तेषु कथा-पाठकेषु—
👉 ओडिया-भाषायां डॉ. एनी रायः,
👉 तेलुगु-भाषायां डॉ. दत्तेय अट्टमः,
👉 संस्कृत-भाषायां डॉ. युवराज भट्टराई—
स्व-स्व-कथाः प्रस्तुतवन्तः। विविध-भाषिक-प्रस्तुतिभिः कार्यक्रमे भाषिक-विविधतायां निहिता राष्ट्रिया एकता स्पष्टतया अनुभूता।
साहित्याकादेम्या आयोजितः अयं कार्यक्रमः विश्व-पुस्तक-मेलायां साहित्यिक-गतिविधीनां महत्त्वपूर्णः प्रकल्पः सिद्धः, यः भारतीय-साहित्यस्य बहुभाषीय-चेतनायाः सशक्तं सन्देशं समाजाय प्रायच्छत्।







