संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डदेशदेहलीमनोरंजनराजनीतिलाइफस्टाइलविदेशव्यापार

“विश्वस्मिन् विश्वे संस्कृतस्य प्रभाव:” विषयेस्मिन् एकदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी समनुष्ठिता,

👉🏻डॉ. डेविडफ्रौली, डॉ. औष्करपुजोलश्च जातौ सम्मानितौ। 👉🏻 अस्मिन् आयोजने अमेरिकाया: स्पेनस्य च वैदेशिकौ संस्कृतविद्वांसौ सम्मानितौ। 👉🏻 संस्कृतमनीषिभिः संस्कृतानुरागिभि: च संस्कृतवाङ्मयस्य वैश्विकप्रभावविषये विहिता: चर्चा:। 👉🏻 लिथु-आनिया देशस्य राजदूती महामहिमशालिनी डायाना मिकेविएशन् वर्या कार्यक्रमे मुख्यातिथित्वेन उपातिष्ठत

नवदिल्ली। श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृत-विश्वविद्यालयस्य व्याकरणविभागेन स्वस्तिवाचनमिति संस्थया च सम्भूय श्रीलालबहादुरशास्त्रीराष्ट्रिय-संस्कृतविश्वविद्यालयस्य कुलपते: मार्गदर्शने विश्वस्मिन् अपि विश्वे संस्कृतस्य प्रभाव: इत्यस्मिन् विषये एकदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी विश्वविद्यालयस्यैव स्वर्णजयन्तीत्याख्ये भूतलीये सभागारे समायोजिता । सङ्गोष्ठीकार्यक्रमस्य शुभारम्भ: मातृसरस्वत्या: वन्दनापूर्वकं वैदिकमङ्गलाचरणेन दीपप्रज्वलनेन च समजायत। ततः परं समेषाम् अतिथीनां स्वागतसपर्या सम्पादिता।

विदितमेव समेषां यत् प्रायशः विश्वस्य सर्वासामपि भाषाणां जननी ऋषिगणसाधिता देवगणपूता गीर्वाणवाणी एव वर्तते। अनया एव संस्कृतया वाण्या देशस्य सांस्कृतिकं चारित्रिकं च परिपोषणं विधीयते। भारतस्य सर्वमपि तत्त्वजातं संस्कृते एव निहितम् अस्ति। अस्मिन्नेव सन्दर्भे संस्कृतयोगायुर्वेदादिनां संरक्षणपरा “स्वस्तिवाचनम्” इति संस्था देशस्य राजधान्यां दिल्ल्यां ऐषमो बुधवासरे एकाम् अन्ताराष्ट्रियां सङ्गोष्ठीम् आयोजितवती, यत्र अनेके पाश्चात्यदेशीया: संस्कृतविद्वांस: अपि सविशेषं निमन्त्रिता:। एतेषु वैदेशिकसंस्कृतजनेषु सुख्यात:, डॉ. डेविडफ्रॉली, सुख्यात: स्पेन्देशीयो मनीषी च औष्करपुजोल: अन्यतमौ आस्ताम्। लिथु-आनिया देशस्य राजदूती महामहिमशालिनी डायाना मिकेविएशन् वर्या कार्यक्रमे मुख्यातिथित्वेन उपस्थाय शोभासंवर्धनं विहितवती। ध्येयमस्ति यत् डेविडफ्रॉलीमहोदय: संस्कृत-संवर्धन-संरक्षण-क्षेत्रे योगदानार्थं भारतसर्वकारेण पद्मभूषणेन अपि अलंकृतो वर्तते। एताभ्यां विद्वद्भ्यां संस्कृतवाङ्मयस्य गहनाध्यायनपूर्वकं तेषु तेषु देशेषु संस्कृतस्य प्रसाराय महान् यत्नो विहितो वर्तते। भारतीय-संस्कृते:, संस्कृतभाषाया:, भारतीयप्राच्यसाहित्यस्य च पाश्चात्यदेशेषु व्यापकरीत्या प्रसारणे एतयोः विशेषं योगदानं निध्याय एव स्वस्तिवाचनम् इतनया संस्थया एतौ मनीषिणौ अभिनन्दनप्रशस्तिपत्रप्रदानेन सम्मानितौ। अस्मिन् अवसरे सम्मान-ग्रहणानन्तरं विश्वे भारतीयसंस्कृते:, संस्कृतस्य च प्रभावस्य विविधान् आयामान् आलक्ष्य, विद्वद्भिः परिचर्चा कृता। तै: प्रतिपादितम् यत् एकविंश्या: शताब्द्या: वैश्वीकरणस्य वर्तमानपरिवेशे संस्कृताध्ययनस्य आवश्यकता-विषये विस्तारपूर्वकं परिचर्चा विहिता। अन्ते च संगोष्ठ्यां अध्यक्षीयं वक्तव्यं प्रददता विश्वविद्यालयस्य कुलपतिना प्रो. मुरलीमनोहरपाठकवर्येण कार्यक्रमं प्रशंसता स्वस्तिवाचनम् इत्यस्य अयं संस्कृतसेवाप्रकल्प: भृशं श्लाघित:। व्याकरणविभागस्य वरिष्ठ: आचार्य: प्रो. जयकान्तसिंह: शर्मावर्य:, अपर: वरिष्ठ: आचार्य: प्रो. रामसलाहीद्विवेदीवर्य:, चापि नैजं संस्कृतसंस्कृतिसंरक्षणविषयकम् उद्बोधनं प्रदत्तवन्तौ। कार्यक्रमस्य सफलं सञ्चालनम् महासचिव: डॉ.सुनीलजोशी सुष्ठुतया कृतवान्। कार्यक्रमस्य अन्ते प्रो. रामसलाहीद्विवेदीवर्य: सर्वेभ्यः उपस्थितेभ्य: जनेभ्य: धन्यवादज्ञापनं कृतवान्। सङ्गोष्ठ्या: व्यवस्थाज्जातं सर्वमपि स्वस्तिवाचनस्य सहसचिव: डॉ. जीवनजोशीमहोदय: सम्भालितवान्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button