निरन्तराभ्यासेन संस्कृतभाषाया: उन्नतिः सम्भवति – “मुकेशकुमारपाठक:”

लक्ष्मणनगर्याम् उत्तरप्रदेशसंस्कृतसंस्थानेन गृहे गृहे संस्कृतम् इत्याख्ययोजनया आयोजितानि द्वादशदिवसीयानि आभासिकसंस्कृतशिक्षणशिबिराणि अगस्तमासे सफलं समापितानि ।
अस्मिन् प्रसङ्गे वरिष्ठप्रशासनिकाधिकारी मिश्रदिनेशोऽवोचत् यद् गृहे गृहे संस्कृतमिति योजना उत्तरप्रदेशसंस्कृतसंस्थानस्य एका विशिष्टा योजना वर्तते । अनया योजनया न केवलं मण्डलस्तरेऽपि तु ग्रामस्तरेष्वपि संस्कृतस्य प्रचारः प्रसारश्च सकले राज्ये विधीयते । अतः सरलसंस्कृतभाषायां प्रशिक्षणं प्राप्य निरन्तरोऽभ्यासः परमावश्यको येन संस्कृतवाणी व्यावहारिकी परिष्कृता च भवेत् ॥
तथैवाचार्यगौतमानिलकुमारो न्यगदत् यद् गृहे गृहे संस्कृतमिति योजना गीर्वाणवाण्याः व्यावहारिकतां वर्धयितुमतीव सफला सिध्यति । अतः यत्र भौतिककक्षाः सञ्चाल्यन्ते तत्र समाजस्य सर्वेऽपि जना अवश्यमेव लाभं प्राप्नुयुरिति ।
अस्य कार्यक्रमस्य समापनसत्रे उत्तरप्रदेशस्य महोबजनपदान्तर्गतवघौराग्रामस्थितस्य समग्रपूर्वमाध्यमिकविद्यालयस्य प्राचार्या माननीया पाठकशारदादेवी वाग्देव्याः सरस्वत्याः चित्रं पुष्पहारेण समलङ्कृत्य कार्यक्रमस्य समापनम् अकरोत् । समापनावसरेऽस्मिन् प्राचार्यया सह सर्वेऽध्यापकाः छात्राश्च समुपस्थिता: आसन् । अस्य शिक्षणशिबिरस्य केन्द्रप्रबन्धकस्तु संस्थानस्याध्यापकः श्रीमान् पाठकमुकेशकुमार: एवासीत् । विद्यालस्यान्ये कर्मचारिणो बहवश्छात्राश्चापि तस्मिन् सत्रे उपस्थिता: अभवन् ।