उत्तरप्रदेश

संस्कृतभाषा अस्मान् सर्वान् माता इव रक्षति – डॉ. रेणु

उत्तरप्रदेशसंस्कृतसंस्थानेन संचालकविनयश्रीवास्तवस्य मार्गदर्शनेन चालितायाः ऑनलाईनप्रशिक्षणपाठ्यक्रमनिर्माणयोजनायाः अन्तर्गतं सरलसंस्कृतसम्भाषणकक्षायां प्रेरणासत्रस्य प्रारम्भः सरस्वतीवन्दनाद्वारा कृतः। सरस्वतीवन्दनं गौरीमिश्रा कृतवती। संस्थानगीतिका अनुराधामिश्रा द्वारा प्रस्तुताभवत्।
संयोजकदिव्यारंजन महोदय: स्वागतसम्बोधनमकरोत् दिवाकरमिश्र: अतिथिपरिचयमकरोत् च । । सत्रस्य संचालनं प्रशिक्षकः शशिकान्तः अकरोत् । स्वागतगीतं रुचिरा द्वारा प्रस्तुतं संस्कृतगीतं नीति शर्मा द्वारा प्रस्तुतम्। सोनमः राहुलः च कक्षायाः अनुभवं प्रकटितवन्तौ।
प्रेरणासत्रस्य मुख्यवक्त्री डॉ. रेणुः स्वभाषणे संस्कृतभाषायाः महत्त्वं प्रकाशयित्वा उपस्थितजनेभ्यः अवदत् यत् संस्कृतभाषा अस्मान् सर्वान् मातृवत् रक्षति।
महाकविः दण्डी इत्यनेन अपि संस्कृतं देवानां भाषा इति प्रस्तावः कृतः संस्कृतस्य ज्ञानपरम्परा अतीव उत्तमा, तस्य उच्चारणं रोगाणां निवारणं करोति। मनसि अन्तःकरणे च संस्कृतभाषायाः आदरः भवेत्, अनेके वृत्तेः अवसराः अपि संस्कृते एव निहिताः सन्ति। संस्कृतम् अस्माकं भारतीयसंस्कृतेः धरोहरम् अस्ति अतः अस्माभिः तस्य गर्वः भवितव्यः।
एतादृशैः प्रेरणादायकैः वचनैः सर्वे अभिभूताः आसन्।
अन्ते प्रशिक्षकः हरिशचन्द्रः अतिथिभ्यः कृतज्ञतां प्रकटितवान् । कार्यक्रमे उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः विनयश्रीवास्तवः, प्रशासनिकपदाधिकारी जगदानन्द झा, दिनेशमिश्रः, योजना प्रमुखः भगवानसिंहः, प्रशिक्षणप्रमुखः सुधिष्ठा मिश्रः, समन्वयकः धीरज मैठाणी, दिव्यरञ्जनः, राधाशर्मा गणेशदत्तद्विवेदी इत्यादयः उपस्थिताः आसन्।
अन्ते शान्तिमन्त्रेण सूचनया च सह कार्यक्रमस्य सफलतापूर्वकं समाप्तिः अभवत्। कार्यक्रमस्य संयोजनं प्रशिक्षक: धनञ्जयमिश्र: कृतवान्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button