संस्कृतभारत्याः व्रजप्रान्तस्य प्रबोधनवर्गः समुद्घाटित:
आगरा। 05जून 2024 तमे दिनाङ्के संस्कृतभारत्याः व्रजप्रान्तस्य प्रबोधनवर्गः समुद्घाटितः । कमलानगर-सरस्वती- शिशुमन्दिरे वर्गस्य उद्घाटनं दीपप्रज्वालनेन संस्कृतभारत्याः पश्चिम-उत्तर-प्रदेशस्य क्षेत्रसंगठनमंत्री मान्यवर: देवेन्द्रमहोदयः कृतवान् । अस्मिन् अवसरे स्वकीये अध्यक्षीये उद्वोधने प्रान्ताध्यक्षा प्रो० तुलसीदेवी अवोचत् यत् संस्कृतभाषायाः प्रचार- प्रसारस्य आवश्यकता अर्हर्निशं विद्यते । संस्कृतभारती एकमान्त्रं संगठनं दृश्यते यत् सर्वकारीयसहायतां विना समाजस्य बलेन भारतीयसंस्कृतेः संरक्षणम् विदधाति । विशिष्टाथितिः दीनदयालगौ – अनुसन्धानस्य मंत्रिवर्यः श्रीमान् हरिशंकरमहोदयः अवदत् यत् संस्कृतं विना भारतीय संस्कृतेः कल्पनां कर्तुं वयं न समर्थाः । ब्रजप्रान्तमंत्री डाॅ. धर्मेन्द्र-अग्रवालमहोदयः प्रबोधनवर्गस्य प्रास्ताविकीं प्रस्तौतवान् । अस्मिन् अवसरे प्रान्तप्रशिक्षणप्रमुखः सतीशमहोदयः , ब्रजप्रान्तसंगठनमंत्री श्रीमान् नरेन्द्रभागीरथी , लक्ष्मीनारायण: , वर्गाधिकारी श्री रघुवीर: , ओ३मप्रकाशबंसल, हरस्वरूप , डाॅ .जगदीशशर्मा , गंगाधर; अरोडा प्रमुखरूपेण उपस्थिताः आसन् । कार्यक्रमस्य संचालनं प्रान्तसहमंत्री , डाॅ गौरवगौतममहोदयः कृतवान् । वर्गे एकोनचत्वारिंशत् शिक्षार्थिन: उपस्थिताः सन्ति ।