पंजाबसंस्कृत भारती

संस्कृतम् आत्मज्ञानस्य भाषा – प्रान्तप्रचारकः श्रीमान् नरेन्द्रः

संस्कृतभारतीपञ्जाबस्य साप्ताहिकम् आवासीयसंस्कृतसम्भाषणशिबिरस्य आरम्भः

अजय कुमार:- होशियारपुरम्, साधु-आश्रमः – संस्कृतभारतीपञ्जाब आयोजितस्य साप्ताहिकस्य आवासीयस्य संस्कृतवार्तालापशिबिरस्य उद्घाटनं होशियारपुरे साधु-आश्रमे अभवत्। सम्पूर्णपञ्जाबतः प्रायः ४० प्रशिक्षुणः शिबिरे भागं गृहीतवन्तः ।

मुख्यातिथिरूपेण उपस्थितः राष्ट्रीयस्वयंसेवकसंघस्य पञ्जाबप्रान्तस्य प्रचारकः नरेन्द्रजी स्वसम्बोधने अवदत् यत्, “संस्कृतम् आत्मज्ञानस्य भाषा अस्ति। अद्य भारतस्य युवभिः स्वभाषायाः, ज्ञानस्य, देशस्य, परम्परायाः च विषये ध्यानं दातव्यम्। यावत् युवकाः संस्कृतं न जानन्ति तावत् ते स्वराष्ट्रस्य परम्पराः, भारतीयत्वस्य मौलिकभावना: च अवगन्तुं न शक्नुवन्ति।” अतः सर्वैः युवकै: संस्कृतम् अधिगन्तुं प्रयतितव्यम्।”

मुख्यवक्ता उत्तरक्षेत्रपत्राचारप्रमुखः सुशीलमहोदयः अवदत् यत् संस्कृतं कस्यापि एकस्य प्रदेशस्य भाषा नास्ति, अपितु सर्वेषां दक्षिण-एशियायाः निधिः अस्ति। उदाहरणानि उद्धरन् सः अवदत् यत् अधुना पाकिस्तानस्य एकस्मिन् विश्वविद्यालये अपि संस्कृताध्ययनम् आरब्धम्, एतेन ज्ञायते यद् दक्षिण-एशियायाः संस्कृतं प्रति आदरः, स्नेहः च वर्तते इति ।

कार्यक्रमस्य अध्यक्षता विश्वेश्वरानन्दविश्वबन्धुसंस्कृतभारतभारत्यनुशीलनसंस्थायाः विभागाध्यक्षा, संस्कृतभारत्याः होशियारपुर-जनपदाध्यक्षा प्रो. ऋतु बाला सर्वेषां अतिथीनां स्वागतं कृतवती। डॉ. नीरजः कार्यक्रमस्य प्रास्ताविकं प्रस्तुतवान्। सरस्वतातिथि: श्रीमान् अजयकुमारः आर्यः सारस्वतवचोभिः धन्यवादज्ञापनं कृतवान्। डॉ. ओमनदीपः, डॉ. तेजप्रकाशः च मञ्चसञ्चालनं कृतवन्तौ।

एतदवसरे होशियारपुरतः अनेके गणमान्याः उपस्थिताः अभवन्, येषु श्रीमान् भगवतीप्रसादः, श्रीमान् सर्वेशचड्ढा, गगनदीपपाठकः, प्रो.कन्हैयालालपराशरः, पं.ओंकारः, श्रीमान् हरीशखोसला, श्रीमान् दीपकवालियाः, कार्यक्रमाय आगताः संस्कृताध्येतारः सम्मिलिताः अभवन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button