पंजाबसंस्कृत भारती
शहीदमेजर-रवि-इन्दरसिंहसंधु-शासकीय-वरिष्ठ-माध्यमिकविद्यालय-बठिण्डानगरे संस्कृतसम्भाषणशिबिरस्य समायोजनम्

संस्कृतभारतपञ्जाबद्वारा बठिण्डानगरे आयोजितस्य सप्तदिवसीयस्य संस्कृतसम्भाषणशिबिरस्य समापनसमारोहस्य आयोजनं जातम्। संयोजकस्य श्रीमतः दिनेशकुमारबंसलस्य संस्कृताध्यपकस्य परिश्रमेण पूर्णतां प्राप्तवदेतद् शहीदमेजर-रवि-इन्दरसिंहसंधु-शासकीय-वरिष्ठ-माध्यमिकविद्यालयस्थ संस्कृतसम्भाषणशिबिरम्। शिबिरेस्मिन् सुश्री सरितायादवः शिक्षिकायाः भूमिकां कुशलतापूर्वकम् ऊढ़वती। शिबिरेण अनेकाः छात्राः लाभान्विताः अभवन्, तेषां संस्कृतभाषायां रुचिः अभवत् । समापनसमारोहे बठिण्डानगरस्य रजिन्द्रा-महाविद्यालयस्य संस्कृतविभागप्रमुखा डॉ. डिम्पलशर्मा मुख्यातिथिभूमिकाम् ऊढ़वाती। कार्यक्रमेस्मिन् विद्यालयस्य अधिकारिणः छात्रछात्राश्च समुपस्थिताः आसन्।
———
Follow Us