उत्तराखण्डकण्वनगरीकोटद्वारसंस्कृत भारती

भरतेन भारतम् , रामेण अयोध्या, कृष्णेन वृन्दावनं सुप्रसिद्धं कृतम् – “सीताशरणमहाराजवर्य:”

🔵 गौर्माता राष्ट्रमाता – कोटद्वारे नवसंकल्पः प्रतिध्वनितः 🔵 । 🔵 समाज: संस्कृतेन वदतु तदर्थम् सम्भाषणम् आवश्यकम्🔵

कोटद्वारनगर्यां संगमरिसोर्ट् इत्यस्मिन् स्थले भव्यकथायाः भव्यायोजनम् अभवत् । अस्मिन् प्रसङ्गे प्रसिद्धगौभक्तः सुप्रसिद्धकथा-प्रवाचकः व्यासाचार्यः श्रीसीताशरणमहाराजः भक्तेभ्यः भगवान्कृष्णस्य अमृतमयीः लीलाः श्रावयामास।

महाराजः अवदत्— यथा अस्य देशस्य नाम परमपुण्यप्रतापिनः राज्ञः भरतस्य नाम्ना “भारतं” जातम्, तथैव एकः रामः अयोध्यां प्रसन्नां कृतवान्, एकः कृष्णः वृन्दावनं ख्यातं कृतवान्, अद्य तु कोटद्वारनिवासिनः गौधामं विख्यातं कृतवन्तः। बद्रीनाथात् आरभ्य बागेश्वरधामपर्यन्तं “गौर्माता राष्ट्रमाता” इति घोषः प्रतिध्वनति। अस्य पावनस्य अभियानस्य आद्यं केन्द्रं उत्तराखण्डप्रदेश एव अभवत्। अतः वयं सर्वे गौकृपाकाङ्क्षिणः। अस्माकं सन्तमहात्मानः अपि गौमातरं राष्ट्रमातरूपे प्रतिष्ठापयितुं यत्नवन्तः।

कथायां व्यासाचार्यः श्रीसीताशरणमहाराजः आत्मनः परमात्मनश्च मिलनस्य अद्भुतं स्वरूपं आधुनिकवैलेंटाइन-दिवसः इति निरूपितवान्। सः उक्तवान्—

नवरात्रोत्सवे मातृपूजनमेव खलु मदर्स् डे इति।

पितृपक्षे पितृश्रद्धा एव वास्तविकः फादर्स् डे इति।

व्यासपूर्णिमायां आचार्यपूजनमेव खलु टीचर्स् डे इति।

व्यासमहाराजेन स्पष्टीकृतं यत् भारतीयसंस्कृतौ प्रत्येकः उत्सवः, प्रत्येकः परम्परा, प्रत्येकं च अनुष्ठानं जीवनस्य परमात्मना सह संयोगस्य साधनं भवति। गौसेवा धर्माणां श्रेष्ठतमः इति उक्त्वा सः अभ्यदीदृत्— “गौर्माता राष्ट्रमाता” इत्ययं संदेशः भारतस्य आत्मा।

सुसंस्कृतमयश्रीमद्भागवतकथाया: एवं गौकथाया: दिव्यरसानन्दप्रदातु: श्रीसीताशरणमहाराजवर्यस्य जनहिताय संस्कृतसन्देश: अपि जनै: श्रुत: । यज्ञायोजनसमारोहे परीक्षितस्वरूपाश्रीमतीमोहिनीनौटियालद्वारा समर्जितभाग्यफलोदयेन व्यासश्रीसीताशरणमहाराजवर्यस्य मुखारविन्देन पितृणाम् एवं संगमरिजोर्टबालासौडकण्वनगरीकोटद्वारवासिनां कृते कथाश्रवणसौभाग्यं प्रदत्तम्।

अस्मिन् कार्यक्रमे सहस्रशः श्रद्धालवः उपस्थिताः आसन्। सर्वे भक्ताः श्रीकृष्णलीलारसपानं कृत्वा हृष्टाः अभवन्। सम्पूर्णं वातावरणं “गौर्माता राष्ट्रमाता” इति घोषेण, “जय श्रीकृष्ण” इति च घोषेण निनादितम्।

*समाज: संस्कृतेन वदतु तदर्थम् सम्भाषणम् आवश्यकम्*

संस्कृतसन्दर्भे महाराजश्रीवर्येण कथितं यत् भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा। प्रतिदिने प्रतिजन: संस्कृतेन वदतु तदर्थम् संस्कृतसम्भाषणम् आवश्यकं च तदर्थं सम्भाषणशिक्षकाणां संस्कृतभारत्या: कार्यकर्तृणां च महत्त्वपूर्णं योगदानं वर्तते।

जनहिताय संस्कृतेन कार्यं कुर्वन् अद्यापि लोकहितसमृद्धये तनुं समर्प्यमान: श्रीवासुदेवचमोलीवर्य: सुपरिचितसंस्कृतभारत्या: पूर्णकालिककार्यकर्ता वर्त्तते । तेषां श्रमसाध्यसंस्कृतम् अद्य कथारूपेण कर्मकाण्डरूपेण ज्योतिर्विद्रूपेण एवं कमलप्राच्यविद्यासंस्थानरूपेण सततं प्रवाहमानं वर्त्तते । कर्मणि प्रवृत्ते सति गौसेवकेषु परमगुरूणां सदाश्रयी वन्दनीयानां श्रीगोपालमणिमहाभागानाम् एवं च श्रीसीताशरणमहाभागानां पदानुगामी च पथानुगामी सदैव सहैव वर्तते । अत्र संस्कृतसम्भाषणविषये तै: कथितं यत्—

“संस्कृतभाषा केवलं ग्रन्थानां भाषा नास्ति, अपि तु जीवनस्य भाषा अस्ति। या भाषा अस्माकं ऋषिभिः दत्ता, या भाषा वेदानां, उपनिषदां, गीता-महाभारतयोः च माध्यमं जाता, सा एव संस्कृतभाषा। यदि वयं तां न केवलं पठेम, अपि तु नित्यजीवने प्रयुञ्जीमहि, तर्हि अस्माकं संस्कृतसंस्कृतिः पुनः सजीविता भविष्यति।” कथितं च यत्— संस्कृतं सर्वेषां भाषाणां जननी अस्ति। संस्कृतभाषायाः अभ्यासः बाल्यावस्थायामेव करणीयः। संस्कृतं सम्भाषणरूपेण प्रयुक्तं चेत्, तदा तद्भाषिणः न केवलं व्याकरणे निपुणाः, अपि तु संस्कृतिसंवर्धकाः भवन्ति। तै: उक्तं यत् “संस्कृतं सर्वत्र, संस्कृतं सर्वेषाम्” इत्ययं घोषः अस्माकं राष्ट्रीयं संकल्परूपेण स्वीकरणीयः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button