उत्तराखण्डहरिद्वार

*प्रो.रमाकान्तपाण्डेयवर्येण उत्तराखण्ड -संस्कृत-विश्वविद्यालये हरिद्वारे कुलपतिपदे कार्यभारः गृहीतः*

वार्ताहरः- डॉ. मूलचन्द्रशुक्लः। हरिद्वारम्। भारतीयप्राच्यविद्यायाः मनीषिणे, कुशलप्रशासकाय, छात्रवत्सलाय समादरणीयाय आचार्यरमाकान्तपाण्डेयमहोदयाय उत्तराखण्डसंस्कृतविश्वविद्यालये, हरिद्वारे कुलपतिरूपेण नियुक्तये वयं हार्दमभिनन्दनानि शुभाशंसाश्च समर्पयामः।

प्रो. रमाकान्तपाण्डेयवर्यः संस्कृतवाङ्मयान्तर्गतविशेषरूपेण संस्कृतसाहित्ये,काव्यशास्त्रे, नाट्यशास्त्रे, भारतीयज्ञानपरम्परासन्दर्भे च एकः प्रख्यातः मेधायुतो विद्वान् वरीवर्ति।भवता दीर्घकालपर्यन्तं अध्यापन–अनुसन्धान–मार्गदर्शन–शैक्षणिकनेतृत्वादिभिः संस्कृतविद्यायाः भारतीयविद्यायाश्च क्षेत्रं समृद्धीकृतम्। भवता सम्पादितानि शोधकार्याणि, ग्रन्थलेखनम्, सम्पादनकर्म, शोधार्थिनां निर्देशनं च इत्यादीनि महत्त्वपूर्णानि प्रशस्तकार्याणि प्रतिबद्धविद्वत्त्वस्य सुदृढं प्रमाणम्। केन्द्रीयसंस्कृतविश्वविद्यालयस्थ – भोपाल -जयपुर-परिसरयोः निदेशकपदस्य महत्त्वपूर्णं दायित्वं निर्वहता भवता शैक्षणिकगुणवत्ता, अनुसन्धानसंस्कृतिः, संस्थागतानुशासनं च नवदिशामा नीतम्।

भवतः व्यक्तित्वे विद्वत्तया सह प्रशासनिककौशलं विशेषरूपेण संयुज्यते। एकतो भवतः शास्त्रसम्मतं गहनं गभीरञ्चाध्ययनं सर्वत्र प्रशस्यते, अपरतश्च भवतः दृष्टिः व्यावहारिकी, दूरदर्शिनी, कर्मठ – युता च सन्तिष्ठति। छात्रहिताय, अध्यापकसम्माननाय, विश्वविद्यालयस्य सर्वाङ्गीणविकासाय च भवतः निष्ठा सर्वविदिता चकास्ति। एतादृशस्य विदुषः उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिरूपेण नियुक्तिः संस्कृतशिक्षायाः भारतीयज्ञानविज्ञानस्य च क्षेत्रे नितरां मङ्गलकारिणी भविष्यति।

कुलपतिवर्येण वार्ताक्रमे प्रोक्तं यत् उत्तराखण्डसंस्कृतविश्वविद्यालयः न केवलं शैक्षणिकौत्तम्यस्य नूतनमानदण्डान् स्थापयिष्यति, अपितु अनुसन्धानम्, नवाचारः, पाण्डुलिपिशास्त्रम्, लोकविज्ञानम्, योगः, दर्शनम्, भारतीयज्ञानपरम्पराणां संरक्षण–संवर्धनं च कृत्वा एकं सशक्तं ज्ञानकेन्द्रं भविष्यति। अग्रे तेनोक्तं यत् एष: विश्वविद्यालयः राष्ट्रियस्तरे अन्ताराष्ट्रियस्तरे च भारतीयविद्यायाः प्रभावशाली प्रतिनिधिरूपेण प्रतिष्ठां प्राप्स्यति।
अस्मिन् शुभावसरे वयं प्रार्थयामः यत् भवान् उत्तमस्वास्थ्येन, दीर्घायुषा, अपारयशसा च एतद् दायित्वं सफलतया निर्वहन् संस्कृतविद्यां भारतीयज्ञानपरम्परां च नूतनशिखराणि प्रति नेतुं समर्थो भवतु।

उत्तराखडस्य मान.राज्यपाल – महोदयैः विश्वविद्यालयस्य च कुलाधिपतिभिः ले.ज. गुरमीत सिंह वर्यैः प्रो. रमाकान्त पाण्डेय वर्यः कुलपतिपदे नियुक्तः। प्रो. पाण्डेयवर्यः उत्तरप्रदेशस्य चित्रकूटस्थस्य सकरौंहा इति ग्रामस्य वास्तव्यो प्रस्थातः मूर्धन्यश्च मनीषी वर्तते। अस्य अनुजः सुकविः,लेखकः डा. उदित-नारायण -पाण्डेयः उत्तर-प्रदेश-सर्वकारे ए.आर.टी.ओ. प्रवर्तन-पदे नियुक्तो वर्तते।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button