संस्कृतसप्ताहस्य तृतीयदिवसे ज्ञानवर्धकविमर्श: सार्थकपरिसंवाद:

हेमवतीनन्दनबहुगुणा-गढ़वालविश्वविद्यालयस्य (केन्द्रीयविश्वविद्यालयस्य) डॉ. बी. जी. आर. परिसरे पौडी-गढ़वाले आयोज्यमानस्य संस्कृतसप्ताहस्य तृतीयदिवसः ज्ञानवर्धक-विमर्शैः सार्थकपरिसंवादैश्च सफलतया सम्पन्नः। अस्य कार्यक्रमस्य अध्यक्षतां वाणिज्यविभागाध्यक्षः प्रो. अनूपपाण्डेयः अकरोत्।
कार्यक्रमस्य मुख्यवक्ता डा. दीपककुमारकोठारी, प्रभारी संस्कृतविभागः, राजकीयमहाविद्यालयः गणाई-गंगोली (पिथौरागढ) अभवत्। तेन “वैश्विकशान्तेः सन्दर्भे संस्कृतस्य प्रासंगिकता” इति विषये प्रेरणादायकं व्याख्यानं प्रस्तुतम्। महाभारतस्य उपनिषदां च विविधप्रसङ्गान् उद्धृत्य संस्कृतभाषायाः शान्ति-सद्भाव-मानवतामूलकदृष्टेः वैश्विकमहत्त्वं सुस्पष्टतया निरूपितम्।
अस्मिन्नवसरे कार्यक्रमसंयोजकः संस्कृतविभागाध्यक्षः दिनेशचन्द्रपाण्डेयः मुख्यवक्तारं समागतान् अतिथींश्च सादरं स्वागतवान्। कार्यक्रमस्य सञ्चालनं वैदिकमङ्गलाचरणं च पौडीपरिसरस्य शोधच्छात्रः अंशुलघिल्डियालः अकरोत्। तस्य प्रभावशाली सुव्यवस्थितं च मंचसञ्चालनं सम्पूर्णकार्यक्रमस्य शोभां वर्धितवान्।
संस्कृतसप्ताहस्य अन्तर्गतं प्रतिदिनं विविधविषयेषु विद्वद्व्याख्यानानां माध्यमेन संस्कृतभाषायाः सांस्कृतिकं, दार्शनिकं तथा वैश्विकं महत्त्वं छात्राणां समक्षं प्रभावकरूपेण प्रस्तूयते।







