उत्तराखण्डकण्वनगरीकोटद्वार

राजकीयस्नातकोत्तरमहाविद्यालये कोटद्वारे संस्कृतमासमहोत्सवस्य अन्तर्जालीयसङ्गोष्ठी सम्पन्ना

कोटद्वारम्उ त्तराखण्डसंस्कृतसंस्थानेन आयोजितस्य संस्कृतमासमहोत्सवस्य अन्तर्गतं पौड़ीजनपदस्तरीया भारतीयज्ञानपरम्परायां वैदिकदार्शनिकं चिन्तनं इत्यस्मिन् विषये अन्तर्जालीयसङ्गोष्ठी उच्चतकनीकिपद्धत्या राजकीयस्नातकोत्तरमहाविद्यालये कोटद्वारे महता उत्साहेन सम्पन्नोभूत्।

कार्यक्रमस्य शुभारम्भः मातृशारदायाः प्रतिमायाः पुरतः दीपप्रज्वलनेन पुष्पार्चनेन च अभवत्। अस्मिन् अवसरे महाविद्यालयस्य प्राचार्यः प्रो० डी. एस. नेगी, प्रो० निरञ्जना शर्मा, डॉ० अरविन्द अवस्थी, प्रो० प्रतापबिष्ट:, डॉ० मनीषासिंह:, डॉ० ऐश्वर्या राणा तथा अन्ये गणमान्यजनाः उपस्थिताः आसन्। अनन्तरं दिव्यांश्या सरस्वतीवन्दना, नवीनबिष्टेन वैदिकमङ्गलाचरणं, मोनिकानौगेंद्वारा स्वागतगीतं च सुसम्पन्नम् कृतं।

अध्यक्षीयभाषणे प्राचार्यः प्रो० डी. एस. नेगी संस्कृतभाषायाः संरक्षणसंवर्धनाय वैदिकाध्यात्मिकचिन्तनस्य अनिवार्यतां प्रतिपादितवान्। प्रस्तावनावक्तव्ये उत्तराखण्डसंस्कृतसंस्थानस्य सचिवः प्रो० विनयकुमारविद्यालङ्कारः उपस्थितान् विद्वांसः सम्बोध्य संस्कृतप्रचारस्य महत्त्वम् अवदत्। शोधाधिकारी डॉ० हरीशगुरुराणी उपनिषदां ध्येयवाक्यानि उद्धृत्य वेदानां प्रति सर्वेषां ध्यानम् आकर्षितवान्।

विशिष्टातिथिः डॉ० सीताजुयालः भागवतमहापुराणस्य प्रसङ्गान् आधारीकृत्य भारतीयज्ञानपरम्परायाः गौरवं निरूपितवती। सहप्रवक्ता डॉ० अरविन्दावस्थी दार्शनिकदृष्ट्या मौलिकदर्शनशास्त्रस्य गूढतत्त्वानि प्रभावपूर्णेन व्याख्यानेन प्रस्तूतवान्। मुख्यवक्ता डॉ० दिनेशचन्द्रपाण्डेयः वेदं वैदिकसंहिताः, ब्राह्मणग्रन्थाः, आरण्यकानि, उपनिषदः तथा षड्दर्शनानि समन्वय्य भारतीयज्ञानपरम्परायाः अखण्डस्वरूपं विस्तरेण प्रतिपादितवान्।

संस्कृतविभागप्रभारी डॉ० मनीषासिंहः समस्तप्राध्यापकेभ्यः धन्यवादं ज्ञापयित्वा छात्रछात्राणां उत्साहवर्धनम् अकरोत्। जनपदसंयोजकः तथा कार्यक्रमसञ्चालकः डॉ० मनोरथप्रसादनौगें शान्तिपाठेन कार्यक्रमस्य समापनम् अकार्षीत्। कार्यक्रमे डॉ० आशारामबिजल्बाणः, डॉ० मीराकुमारी, डॉ० एम. पी. शर्मा, डॉ० सन्दीपकुमारः, डॉ० प्रमोदसिंहः, डॉ० जितेन्द्रसिंहः, डॉ० विनोदभण्डारी, डॉ० बिशनलालः, डॉ० राकेशशाहः, श्री अरविन्ददूतपुड़ी इत्यादयः प्राध्यापकाः उपस्थिताः आसन्। सङ्गोष्ठ्याः सफलसम्पादने संस्कृतविभागस्य डॉ० मनीषासिंहः, डॉ० गीता, डॉ० मनोरथप्रसादनौगें, डॉ० प्रिय-अग्रवालः तथा तकनीकीव्यवस्थायां डॉ० ऐश्वर्याराणा एवं डॉ० पवनभट्टः विशेषं योगदानम् अददुः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button