उत्तराखण्डकण्वनगरीकोटद्वार

जनपदीययोगासनस्पर्धा–२०२६ भव्यतया समारब्धा

। कोटद्वारम्।राजकीय-शशिधरभट्ट-क्रीडाङ्गणे जनपदीययोगासनस्पर्धा – २०२६ इति प्रतियोगिता भव्यतया समारब्धा। अस्यां स्पर्धायां पौडीजनपदस्य विविधविद्यालयेभ्यः, गुरुकुलेभ्यः योगसंस्थाभ्यश्च बहवः योगासनक्रीडकाः समुत्साहेन सहभागीभूताः। कार्यक्रमस्य प्रारम्भः अतिथिस्वागतेन मुख्यातिथेः सम्माननेन च अभवत्। योगासनविषये योगप्रशिक्षक: श्रीराकेशकण्डवालः जनपदस्य राष्ट्रीयप्रतिभागितानां उपलब्धिं प्रस्तुतवान् तथा विगतवर्षेषु जनपदस्य क्रीडकानां उल्लेखनीयसफलताः विवृतवान्। स्पर्धायाः विविधयोगासनानां परिचयं श्रीजितेन्द्रधस्मानामहोदयः अकरोत्।

ततः तुलसीजुयाल:, संस्कृतिगुसैं तथा सौम्याशर्मा इत्येताः योगक्रीडक्यः मनोहरां योगमयीं प्रस्तुतिं प्रदर्श्य उपस्थितानां प्रशंसां प्राप्तवन्त्यः। मुख्यातिथि: अनीताबिष्टवर्या योगस्य स्वास्थ्य-अनुशासन-राष्ट्रनिर्माणयोः महत्त्वं प्रतिपाद्य स्पर्धायाः औपचारिकं शुभारम्भं कृतवती, विशिष्टातिथय: क्रीडासमन्वका: प्रशिक्षिका: विनोदपन्त:, वृजमोहन:, मुकेश:, सुरेश:, विरेन्द्रतनवार:, महेशकुकरेती, महेश्वरगुप्ता, पूरणराणा, तथा च अतिविशिष्टातिथि: सोहनलाल: प्रधानाचार्य: झण्डीचौडविद्यालयत: उपस्थिताः आसन्। अवसरेस्मिन् सुरेशकुकरेतीद्वारा योगक्रीडकानां प्रोत्साहनं च मार्गदर्शनं कृतं।

अनन्तरं पारम्परिकयोगासनम्, कलात्मकयोगनृत्यं , कलात्मकयुग्मं तथा तालात्मकक्रीडायोगासनं इत्येतेषु सर्वेषु आयुवर्गेषु स्पर्धाः सम्पन्नाः। क्रीडकैः संतुलनं, सौष्ठवशक्तिं तथा कलात्मककौशलं च उत्कृष्टतया प्रदर्शितम्।

समापनसमारोहे विजेतृणां परिणामाः घोषिताः तथा उत्कृष्टप्रदर्शनकर्तृभ्यः पदकेन प्रमाणपत्रेण च सम्मान्यते। आयोजकैः एषा स्पर्धा जनपदे योगासनक्रीडायाः संवर्धनाय महत्त्वपूर्णा इति प्रतिपादिता। अवसरेस्मिन् प्रशिक्षकरूपेण जितेन्द्रधस्माना, रजनी अग्रवाल:, भावना नेगी, सुरेशसिंह:,शुभमसिंह:, सोनमरावत:, सन्तोषी, कृष्णपालसिंह:, संजीवकुमार:, हेमन्तकुमार:, आदयश्च निर्णायकसहिता: उपस्थिताः आसन्। सञ्चालनं कुलदीपमैन्दोला अकरोत्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button