उत्तराखण्डपौड़ी

नवप्रवेशितानां छात्राध्यापकानां कृते ‘दीक्षारम्भः’ कार्यक्रमः आयोजितः

हरिद्वारं। उत्तराखण्डसंस्कृतविश्वविद्यालयस्य शिक्षाशास्त्रविभागे सत्रे २०२६–२८ नवप्रविष्टानां छात्राध्यापकानां छात्राध्यापिकानाञ्च कृते ‘दीक्षारम्भः’ नाम कार्यक्रमः गरिमामयवातावरणे सम्पन्नः। अस्य कार्यक्रमस्य मुख्योद्देश्यः नवप्रविष्टविद्यार्थिनः विभागीयशैक्षणिकपरिवेशेन, पाठ्यक्रमेण, शिक्षणप्रशिक्षणस्य कार्यप्रणाल्या तथा विभागीयगतिविधिभिः परिचितान् कर्तुं नवशैक्षणिकसत्रस्य सकारात्मकसार्थकशुभारम्भं च आसीत्।

कार्यक्रमे शिक्षाशास्त्रविभागाध्यक्षेन नवप्रविष्टानां छात्राध्यापकाणां छात्राध्यापिकानाञ्च आत्मीयस्वागतं कृतम्। तेन अध्यापकपरिचयः, विभागपरिचयः, कार्यक्रमपरिचयः, पाठ्यक्रमपरिचयः, विषयानुसारं प्रश्नपत्रपरिचयश्च विस्तरेण प्रस्तुतः। तदनन्तरं विभागे प्रतिदिनं सञ्चाल्यमानानां शैक्षणिकसहशैक्षणिकगतिविधीनां सम्यग् विवरणमपि प्रदत्तम्।
नवसत्रे छात्राध्यापकानां सक्रियसहभागितां नेतृत्वक्षमतां च प्रोत्साहयितुं सर्वसम्मत्या छात्राध्यापकः विनोदबेलवालः दलनायकत्वेन, छात्राध्यापिका , नेहा दलनायिकात्वेन तथा छात्राध्यापकः खुशपन्तः कोषाध्यक्षत्वेन चयनिताः।

सत्रसमन्वयकेन डा. सुमनप्रसादभट्टेन शिक्षकप्रशिक्षणकाले अनुशासनस्य, नियमितोपस्थितेः, शैक्षणिकसहभागितायाः, शिक्षणकौशलविकासस्य तथा विभागीयकार्यक्रमेषु सक्रियभागग्रहणस्य महत्त्वं नवप्रविष्टेभ्यः अवबोधितम्।
विभागेन विशेषोपक्रमरूपेण च पूर्वछात्राणां नवप्रविष्टछात्राध्यापकानां कृते CTET इत्यादीनां शिक्षकपात्रतापरीक्षाणां सिद्ध्यर्थम् अभिनवकार्यक्रमान्तर्गतं विशेषकक्ष्याणां सञ्चालनव्यवस्था आरब्धा। अस्याः प्राथमिकताया: उद्देश्यः नियमितपाठ्यक्रमेण सह गुणवत्तापूर्णप्रतियोगितापरीक्षासिद्धतां व्यावसायिकदक्षताविकासं च सुनिश्चितं कर्तुम् अस्ति। एषा विद्यार्थीकेन्द्रितरोजगारोन्मुखशिक्षायाः दिशि विभागस्य महत्त्वपूर्ण: प्रयास: इति प्रतिपादितम्।

अस्मिन् अवसरे प्रो. बिन्दुमतीद्विवेदी, प्रो. अरविन्दनारायणमिश्रः, डा. सुमनप्रसादभट्टः, श्रीमती मीनाक्षीसिंहरावतः, कार्यालयलिपिका श्रीमती अनीताकुकरेती, अनुसेवकः श्री धर्मेन्द्रपाण्डेयः तथा पूर्वछात्राध्यापकः जगदीशचन्द्रपाण्डेयः गरिमामयी उपस्थितिम् अलङ्कुर्वन्। विभागीयशिक्षकैः कर्मचारिभिश्च नवप्रविष्टविद्यार्थिनां उज्ज्वलशैक्षणिकभविष्याय शुभाशंसाः प्रदत्ताः। कार्यक्रमः सामूहिकेन शान्तिपाठेन समापितः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button