पंजाब

सरस्वतीसंस्कृतमहाविद्यालये सम्पन्नं संस्कृतदिवसाचरणम्

सरस्वतीसंस्कृतमहाविद्यालये सम्पन्नं संस्कृतदिवसाचरणम्
केन्द्रियसंस्कृतविश्वविद्यालयेन सम्बद्धे, पञ्जाबराज्यस्य खन्नानगरे स्थिते सरस्वतीसंस्कृतमहाविद्यालये संस्कृतदिवसावसरे छात्रावबोधनकार्यक्रमः सम्पन्नः। समारोहस्य मुख्यवक्तृरूपेण पञ्जाबीविश्वविद्यालय-पटियालायाः संस्कृत-पालि-विभागस्य प्राध्यापकः प्रो. वीरेन्द्रशर्ममहोदयः उपस्थितः आसीत्। तेन स्वकीये ओजस्विनि वक्तव्ये संस्कृतभाषायाः संरक्षणस्य, दैनन्दिनव्यवहारे च तस्याः प्रयोगस्य महत्त्वं प्रतिपादितम्।
समारोहस्य मुख्यातिथिरूपेण उत्तरक्षेत्रस्य गीताशिक्षणप्रमुखः श्रीजोगिन्दरमहोदयः, विशिष्टातिथिरूपेण च संस्कृतभारत्याः पञ्जाबप्रान्तस्य मन्त्री श्रीअजयआर्यमहोदयः मञ्चम् अलङ्कृतवन्तौ। श्रीजोगिन्दरमहोदयेन गीतायाः दिव्यसन्देशान् जीवने अङ्गीकर्तुं छात्राः प्रेरिताः। श्रीअजयआर्यमहोदयेन तु पञ्जाबप्रान्ते संस्कृतभारत्याः कार्यविस्तारस्य, संस्कृतस्य जनभाषाकरणस्य च सङ्कल्पः पुनः स्मारितः।
समारोहे महाविद्यालयस्य छात्रैः संस्कृतेन विविधाः सांस्कृतिकप्रस्तुतयः, श्लोकोच्चारणम्, गीतमञ्चनं च प्रस्तुतम्। अन्ततः महाविद्यालयस्य प्राचार्येण सर्वेभ्यः अभ्यागतेभ्यः धन्यवादज्ञापनं कृतम्, कार्यक्रमश्च राष्ट्रगीतेन सह सम्पन्नः अभवत्।
अस्मिन् कार्यक्रमे प्रायः शतं छात्राः जनाश्च सम्मिलिताः आसन्। अवधातव्यं यत् एषः महाविद्यालयः शतवर्षेभ्योऽपि प्राचीनः वर्तते, उत्तरक्षेत्रे च अस्य महती प्रसिद्धिः वर्तते। अस्मिन् अवसरे महाविद्यालयस्य अध्यापकाः, नगरस्य गणमान्यसदस्याः, समितिसदस्याश्च समुपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button