पंजाबसंस्कृत भारती
संस्कृतपठनेन मानसिकविकास: भवति- ‘मनीष:’
संस्कृतभारती-द्वारा आयोजितं व्याख्यानं पटियालाजनपदस्य नाभानगरे

अजयकुमार-आर्य:।पञ्जाबः। पटियाला जनपदस्य नाभा-नगरे मॉडल हाई स्कूल अन्तर्गते संस्कृतभारती-द्वारा आयोजितं व्याख्यानं सञ्जातम् । सत्रेऽस्मिन् मुख्यवक्ता संस्कृतभारत्या: विस्तारकः मनीषः आसीत्। तेन उक्तं यत् ‘संस्कृतं सर्वासां भाषाणां जननी अस्ति, सर्वे पुरातनाः ग्रन्थाः संस्कृतेन एव सन्ति, संस्कृत-पठनेन मानसिक विकासः भवति । विद्यालयस्य प्रधानाचार्यः श्रीमज्जीवन: आगतस्य मनीषविस्तारकस्य धन्यवादं कृतवान् । सत्रेऽस्मिन् छात्राणां सङ्ख्या १५० आसीत्। कार्यक्रमेस्मिन् तत्रत्याः शिक्षकाः शिवकुमारः, धर्मपालः, रचना इत्यादयः समुपस्थिता: आसन्।
Follow Us







