उत्तराखण्डसंस्कृत भारतीहरिद्वार

संस्कृतसप्ताहोपलक्ष्ये कविसम्मेलनम्

हरिद्वारनगर्यां संस्कृतभारत्याः संस्थया संस्कृतसप्ताहोपलक्ष्ये अन्तर्जालपटले एकस्य भव्यस्य कविसम्मेलनस्यायोजनं कृतम्। कार्यक्रमस्यास्य शुभारम्भो भगवत्याः सरस्वत्याः वन्दनापुरस्सरमभवत्। तस्मिन्नवसरे श्रीमता गहतोडिकमलेन ध्येयमन्त्रः प्रस्तुतस्तथा च सम्मेलनं गतिमवाप।

अस्यां नूतनप्रविधिकयुक्तायां कविगोष्ठ्यां बहवो युवतरकवयः सहर्षं सहभागितां स्वीकृतवन्तः। अयं कार्यक्रमो विशिष्टातिथीनां उपस्थित्या नितरां शोभते स्म। यत्र मुख्यातिथिरूपेण संस्कृतभारत्याः प्रान्तसङ्घटनमन्त्रिणः शास्त्रिगौरवमहाभागाः विराजमाना आसन्। कार्यक्रमस्य अध्यक्षपदमपि विद्वद्वरेण्या आचार्यपादाः डाॅक्टरमिश्रनिरञ्जनाः समभूषयन्। तथैव विशिष्टातिथित्वेन डाॅक्टरपन्तप्रकाशवर्याः सारस्वतातिथित्वेन च डाॅक्टरमिश्रारविन्दनारायणमहोदयाः मञ्चस्य गरिमाणमवर्धयन्।

अस्मिन् कविसम्मेलने आमन्त्रितैर्युवकविभिः नानाविषयानधिकृत्य विविधेषु छन्दःसु स्वरचितानि सरसानि काव्यानि श्रावयित्वा श्रोतॄणां चेतांसि मुदितानि कृतानि। तेषु कविषु डाॅक्टरपोखरियालराहुलः परगाञ्यभिषेकः पनेरूसतीशः जोष्याशीषकुमारः नवीनप्रसादः पाण्डेयदीपकः कन्सवालकृष्णः जोष्यमितः वर्माङ्कितः इत्यादयः प्रमुखाः स्वकाव्यपाठेन सभामरञ्जयन्।

अथ अध्यक्षीयम् उद्बोधनं वितरन्तः आचार्यमिश्रनिरञ्जनाः सर्वान् कवीन्द्रान् आशीर्वचनैरनुगृह्य स्वयमपि मधुरं काव्यमेकमपठन्। एवमेव विशिष्टातिथिः डाॅक्टरपन्तप्रकाशोऽपि स्वकीयां नूतनां कवितां प्रस्तूय भावीन् कवीन् काव्यमार्गे अग्रेसर्तुं प्रात्साहयत्। अस्य सम्पूर्णस्य रमणीयस्य कार्यक्रमस्य सफलं सञ्चालनं युवकेन कविना जोशीब्रजेशेन महता कौशलेन सम्पादितम्। इत्थं गीर्वाणवाण्याः प्रमोदपूर्णोऽयं महोत्सवः आनन्दपूर्वकं सम्पन्नोऽभवत्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button