भारतीयभाषाणां निनादः : राष्ट्रियसंगोष्ठ्यां विदुषां सार्थकसंवादः
श्रीभगवानदास–आदर्शसंस्कृतमहाविद्यालये आयोज्यते द्विदिवसीया संगोष्ठी।

हरिद्वारम्। भारतीयभाषाणां समृद्धां परम्परां केन्द्रीयकृत्वा हरिद्वारे श्रीभगवानदास–आदर्शसंस्कृतमहाविद्यालये (केन्द्रीयसंस्कृतविश्वविद्यालयसम्बद्धे) द्विदिवसीया राष्ट्रियभाषाशोधसंगोष्ठी भव्यतया आयोजिताभवत्। भारतीयभाषासमितेः आर्थिकसहयोगेन “भारतीयभाषापरिवारसम्मेलनम् (Conference on Indian Linguistic Heritage)” इति शीर्षकेन एषा संगोष्ठी दिनाङ्के २९–३० जनवरी २०२६ तमे महाविद्यालयपरिसरे संजायते।
कार्यक्रमस्य संरक्षकः प्रो. श्रीनिवासवर्खेड़ी (कुलपतिः, केन्द्रीयसंस्कृतविश्वविद्यालयः), परामर्शकः प्रो. यशवीरसिंहः (अध्यक्षः, प्रबन्धसमितिः) तथा सम्मेलननिदेशकः डॉ. रविन्द्रकुमारः (प्रभारीप्राचार्यः) इत्येषां गरिमामय्यां उपस्थितौ द्विदिवसीया एषा राष्ट्रियसंगोष्ठी सम्पद्यते।

दिनाङ्के २९ जनवरी २०२६ (गुरुवासरे) प्रातः १० वादने आयोजितस्य उद्घाटनसत्रस्य अध्यक्षतां प्रो. यशवीरसिंहः अकरोत्। मुख्यातिथिरूपेण डॉ. रमेशपाण्डेयशास्त्री (पूर्वशिक्षानिदेशकः, भारतसरकारः) उपस्थितः आसीत्। विशिष्टातिथिषु प्रो. मनीषकुमारपाण्डेयः (कुलपतिः, फोनीक्सविश्वविद्यालयः) तथा प्रो. शीतलनाथमिश्रः (पूर्वकुलपतिः, हिमाचलविश्वविद्यालयः) समुपस्थिताः आसन्। कार्यक्रमसञ्चालनं श्रीमान् कृष्णदेवराणामहोदयः (निदेशकः, संस्कृतशिक्षा–उत्तराखण्डम्) अकरोत्। सरस्वतीवन्दनां प्रो. वेदप्रकाशोपाध्यायः (राष्ट्रपतिसम्मानितः संस्कृतविद्वान्) सुमधुरतया प्रस्तुतवान्।

सम्मेलनान्तर्गतं शोधपत्रवाचनसत्राणि अपि आयोजितानि, येषु देशस्य विविधविश्वविद्यालयेभ्यः आगताः विद्वांसः स्वस्वशोधपत्राणि प्रस्तुतवन्तः। दिनाङ्के ३० जनवरी २०२६ (शुक्रवासरे) आयोजितस्य शोधपत्रवाचनसत्रस्य अध्यक्षता डॉ. भोलाशंकरमहोदया, मुख्यातिथिरूपेण श्री गिरिशकुमारअवस्थी (कुलसचिवः, उत्तराखण्डसंस्कृतविश्वविद्यालयः) तथा विशिष्टातिथिरूपेण श्री योगेन्द्रविद्यार्थीमहोदयः (संस्कृतभारती) सत्रं सभालंकरिष्यन्ति। समापनसत्रस्य अध्यक्षता प्रो. यशवीरसिंहः, मुख्यातिथिरूपेण डॉ. रमेशकुमारपाण्डेयः (पूर्वकुलपतिः, अखिलभारतीयभाषा-संस्कृतिसंस्थानम्) , विशिष्टातिथिषु श्री दीपककुमारअग्रवालः (संस्कृतसचिवः, उत्तराखण्डशासनम्), डॉ. पदमाकरमिश्रः तथा डॉ. ओमप्रकाशशुक्लः प्रमुखतया उपस्थिता: वर्तन्ते।

अस्मिन् सम्मेलने देशस्य विविधप्रदेशेभ्यः आगताः प्रख्याताः संस्कृतविद्वांसः, शिक्षाविदः, शोधकर्तारः तथा विश्वविद्यालयानां आचार्यगणाः गरिमामयीं उपस्थितिं प्रकटितवन्तः। कार्यक्रमसंयोजकमण्डले डॉ. मञ्जूपटेलः तथा डॉ. आशिषमाश्रवणः समाविष्टौ, आयोजनसमित्यां च अनेके प्राध्यापकाः शोधार्थिनः च सक्रियां भूमिकां निर्वहन्ति स्म। आयोजकैः संस्कृतभारतीयभाषाभ्यां भाषावैभवसमृद्धिं च प्रति रुचिं वहन्तः विद्वांसः, शोधार्थिनः, विद्यार्थिन: सम्मेलनसहभागितां कर्तुं विनीततया आमन्त्रिताः अत्र वर्तन्ते ।
अस्मिन् अवसरे मंचासीनैः अतिथिभिः संयुक्तरूपेण पत्रिकाया: विमोचनं कृत्वा भारतीयभाषाणां संरक्षण-संवर्धनयोः आवश्यकता प्रतिपादिता। वक्तारः अवदन् यत् भारतीयभाषाः केवलं संवादस्य साधनानि न, अपि तु अस्माकं सांस्कृतिकचेतनाया: बौद्धिकपरम्परायाश्च वाहिकाः सन्ति। नवशिक्षानीत्याः अन्तर्गतं मातृभाषाया: भारतीयभाषाणां च प्रोत्साहनं सकारात्मकं संकेतम् इति अपि ते अवोचन्। संगोष्ठ्यां देशस्य विविधराज्येभ्यः आगताः भाषाविशेषज्ञाः, शोधार्थिनः, शिक्षकाः च भारतीयभाषासमृद्धिसम्बद्धेषु नानाविषयेषु स्वविचारान् प्रस्तुतवन्तः।







