कण्वनगरीकोटद्वार
-
छात्रसङ्घस्य महामन्त्री श्रीमान् कण्डवालानुरागः स्वस्य जन्मोत्सवम् अत्यन्तम्
अथ कोटद्वारतः शुभसमाचारः ॥ पञ्चविंशत्युत्तरद्विसहस्रतमे वर्षे अक्टोबर्मासस्य अष्टादशे दिनाङ्के कोटद्वारस्थस्य विद्यावाचस्पतिपीताम्बरदत्तबडथ्वालहैमालयशासकीयस्नातकोत्तरमहाविद्यालयस्य छात्रसङ्घस्य महामन्त्री श्रीमान् कण्डवालानुरागः स्वस्य जन्मोत्सवम् अत्यन्तम् अभिनवेन प्रकारेण…
Read More » -
कोटद्वारनगरस्य युवसमाजसेवकौ देहल्यां कीर्तिं प्राप्नुतः । पौडीगढवालजनपदाय गौरवास्पदः क्षणः
राजधान्यां देहल्यां भारतमण्डपे एकदिवसीयः कर्नालनगरे च द्विदिवसीयः समारोहः सकलस्य पौडीजनपदस्य कोटद्वारनगरस्य च कृते महान् गौरवस्य विषयोऽभवत् । निफा (Nifaa) नाम्नः…
Read More » -
भरतेन भारतम् , रामेण अयोध्या, कृष्णेन वृन्दावनं सुप्रसिद्धं कृतम् – “सीताशरणमहाराजवर्य:”
कोटद्वारनगर्यां संगमरिसोर्ट् इत्यस्मिन् स्थले भव्यकथायाः भव्यायोजनम् अभवत् । अस्मिन् प्रसङ्गे प्रसिद्धगौभक्तः सुप्रसिद्धकथा-प्रवाचकः व्यासाचार्यः श्रीसीताशरणमहाराजः भक्तेभ्यः भगवान्कृष्णस्य अमृतमयीः लीलाः श्रावयामास। महाराजः…
Read More » -
उत्तराखण्डस्य मूलभावनानां गहनलेखक: “गिरीशतिवारी गिर्दा” जनै: आपदाविलेखे स्मृत:
गिरीशतिवारी गिर्दा इत्यस्य जनकवेरस्मिन् उत्तराखण्डस्य मूलभावनानां गहनं बोधं पूर्वमेव जातम्। तेन स्वकीयकाव्येन ता: भावा: जनसमाजे समर्प्य जना: चेतिता:। एषा व्यथा…
Read More » -
जानकीनगर-कोटद्वारे रितेशशर्मासरस्वतीविद्यामन्दिरे वैदिकगणितप्रांतीयमहोत्सवः २०२५ सम्पन्नः
जानकीनगर-कोटद्वार-पौड़ीगढ़वालस्थिते रितेशशर्मासरस्वती- विद्यामन्दिरे विद्याभारत्या: अखिलभारतीय-शिक्षासंस्थानसंबद्धया भारतीय-शिक्षासमित्या उत्तराखण्डेन सह आयोजितः प्रांतीयः वैदिकगणितमहोत्सवः २०२५ समापनं रंगारङ्गकार्यक्रमेण अभवत्। उद्घाटनसत्रे मुख्यातिथिरूपेण कृषि-मण्डी-समितेः पौड़ी-अध्यक्षः सुमन…
Read More » -
दुगड्डानगरे शिक्षकाणां स्वपदोन्नत्यर्थं सिंहनादः
अद्य पञ्चविंशतितमे दिवसे अगस्तमासस्य पञ्चविंशत्युत्तरद्विसहस्रतमे वर्षे राजकीयशिक्षकसङ्घस्य दुगड्डाख्यविकाशखण्डशाखया एकदिवसीयं विरोधप्रदर्शनं सफलतापूर्वकमनुष्ठितम् । पौडीजनपदस्य सर्वेषु पञ्चदशसु विकाशखण्डेषु सङ्घस्य राष्ट्रियाह्वानमनुसृत्य शिक्षकाः स्वस्य…
Read More » -
अतीव हर्षोल्लासेन निम्बूचौडक्षेत्रे दियादिव्याङ्गसंस्थायाः प्राङ्गणे स्वातन्त्र्यपर्व समनुष्ठितम्।
देशस्य स्वातंत्र्यप्राप्ते: अवसरे निम्बूचौडक्षेत्रे स्थितायां दियादिव्याङ्गसंस्थायां स्वतन्त्रतादिवसपर्व महता समारोहेण आचरितम्। सर्वप्रथमं मुख्यातिथित्वेन आमन्त्रितैः विद्वद्भिः कुकरेतिरमाकान्तमहोदयैः राष्ट्रध्वजारोहणं कृतम्। तदनन्तरं सर्वैः सह…
Read More » -
स्वतन्त्रताया: पूर्वसन्ध्यायां साहित्याञ्चलस्य काव्यगोष्ठी सम्पन्ना
स्वातन्त्र्यदिवसस्य पूर्वसन्ध्यायां पुण्यतोयाया मालिन्यास्तटे स्थितायां कण्वर्षेराश्रमभूमाै कोटद्वारनगर्यां साहित्याञ्चलनाम्नी साहित्यिकी संस्था स्वकीयस्य त्रिपञ्चाशत्तमस्य स्थापनावर्षस्योपलक्ष्ये पौरसभाभवने एकां महामहात्मिकां काव्यगोष्ठीं समायोजितवती। कार्यक्रमस्यारम्भस्तु गुरुरामरायविद्यालयस्य…
Read More » -
अथ कोटद्वारवार्ता संस्कृतसप्ताहस्य सफला परिसमाप्तिः
कोटद्वारस्थे मालिन्यास्तटविराजिते मालिनीवैलीशिक्षणमहाविद्यालये संस्कृतभारत्याः कोटद्वारशाखायाः संयुक्ततत्त्वावधाने समायोजितस्य संस्कृतसप्ताहस्य साफल्येन समापनमभवत्॥ यत्र हि मालिन्युपत्यकायां संस्कृतसम्भाषणेन सह अयं सप्ताहः आमानितः तत्रैव ईटेक्नोमाइण्ड्सार्थकयोगशालाद्वारा…
Read More » -
कण्वाश्रमे विश्वसंस्कृतोत्सवे उपनयनं, संस्कृताचरणं, भव्यशोभायात्रा
श्रावण्यां पूर्णिमायां तिथौ विश्वसंस्कृतदिवसस्य च पावनेऽवसरे कोटद्वारनगरसमीपे महर्षिकण्वस्य पुण्यतमे आश्रमे पावनमालिन्या नद्यास्तटे परमार्थवैदिकगुरुकुले नूतनवटूनामुपनयनसंस्कारः शास्त्रविधिना सुसम्पन्नोऽभवत्। अयं महोत्सवः संस्कृतभारत्याः संस्थायास्तत्त्वावधाने…
Read More »









