देवप्रयागविकासखण्डस्य संस्कृतछात्रस्पर्धाः भव्यतया सम्पन्नाः
“संस्कृताध्ययनेन सर्वसमाजस्य हितं निहितम्” — डॉ. मूलचन्द्रशुक्लः

देवप्रयागः। कुलदीप मैन्दोला। उत्तराखण्ड-संस्कृत-संस्थानस्य, हरिद्वारस्य तत्त्वावधाने 2026–27 तमवर्षस्य विकासखण्ड-देवप्रयागीयाः संस्कृत-छात्र-प्रतियोगिताः 23–24 सितम्बर 2026 दिनांके राजकीय-इण्टर-कॉलेज-महड़जाली इति विद्यालये सफलतया सम्पन्नाः।
दीपप्रज्वलनेन स्पर्धानामारम्भः
षट्सु विधासु विद्यार्थिनां प्रतिभाया: अद्भुतं प्रदर्शनम्
कनिष्ठवर्गे (६–१०) तथा वरिष्ठवर्गे (११–परास्नातक:) संस्कृतनाटकम्, समूहगानम्, समूहनृत्यम्, वादविवादः, आशुभाषणम्, श्लोकोच्चारणम् इत्यादयः स्पर्धाः आयोजिताः।
प्रतिभागिभिः उत्कृष्टा संस्कृतप्रस्तुतिः प्रदर्शिता।
पतञ्जलिगुरुकुलस्य मूल्यग्रामस्य उल्लेखनीयः विजयः
पतञ्जलिगुरुकुलम्, मूल्यग्रामः कनिष्ठवर्गे समूहनृत्ये, वादविवादे, आशुभाषणे, श्लोकोच्चारणे च प्रथमस्थानम् अलभत। वरिष्ठवर्गे समूहगाने, वादविवादे, आशुभाषणे, श्लोकोच्चारणे च अपि प्रथमस्थानं प्राप्तम्।
समापनसमारोहे विजेतॄणां सम्मानम्
समापनसमारोहे मुख्यातिथिः डॉ. मूलचन्द्रशुक्लः, श्रीदेवसुमनोत्तराखण्डविश्वविद्यालयस्य संस्कृतविभागाध्यक्षः आसीत्। विशिष्टातिथिः श्रीमती राधादेवी तथा अध्यक्षः सियारामचौहानः उपस्थितौ आस्ताम्।
षट्सु विधासु विद्यार्थिनां प्रतिभाया अद्भुतं प्रदर्शनम्
कनिष्ठवर्गे (६–१०) तथा वरिष्ठवर्गे (११–परास्नातक) संस्कृतनाटकम्, समूहगानम्, समूहनृत्यम्, वादविवादः, आशुभाषणम्, श्लोकोच्चारणम् इत्यादयः स्पर्धाः आयोजिताः। प्रतिभागिभिः उत्कृष्टा संस्कृतप्रस्तुतिः प्रदर्शिता।
पतञ्जलिगुरुकुलस्य मूल्यग्रामस्य उल्लेखनीयः विजयः
पतञ्जलिगुरुकुलम्, मूल्यग्रामः कनिष्ठवर्गे समूहनृत्ये, वादविवादे, आशुभाषणे, श्लोकोच्चारणे च प्रथमस्थानम् अलभत। वरिष्ठवर्गे समूहगाने, वादविवादे, आशुभाषणे, श्लोकोच्चारणे च अपि प्रथमस्थानं प्राप्तम्।
समापनसमारोहे विजेतॄणां सम्मानः
समापनसमारोहे मुख्यातिथिः डॉ. मूलचन्द्रशुक्लः, श्रीदेवसुमनोत्तराखण्डविश्वविद्यालयस्य संस्कृतविभागाध्यक्षः आसीत्। विशिष्टातिथिः श्रीमती राधादेवी तथा अध्यक्षः सियारामचौहानः उपस्थितौ आस्ताम्।