संस्कृतसप्ताहस्य द्वितीयदिवसे “मानवाधिकाराणाम् आधारः संस्कृतम्” विद्वद्भि: चर्चितम्

पौडीगढवालः, उत्तराखण्डं। हेमवतीनन्दनबहुगुणागढवालविश्वविद्यालयस्य (केन्द्रीयविश्वविद्यालयस्य) डॉ. बी. जी. आर. परिसरे, पौडीगढवाले आयोजितस्य संस्कृतसप्ताहस्य द्वितीयदिवसस्य समापनं गरिमामयवातावरणे सम्पन्नम्। कार्यक्रमस्य अध्यक्षतां भौतिकविज्ञानविभागस्य विभागाध्यक्षः प्रो. पीयूषसिन्हा महोदयः अकरोत्।
कार्यक्रमस्य शुभारम्भः वैदिकमङ्गलाचरणेन अभवत्, यत् केन्द्रीयसंस्कृतविश्वविद्यालयस्य श्रीरघुनाथकीर्तिपरिसरस्य देवप्रयागस्थितस्य वेदकर्मकाण्डपौरोहित्यविद्याशाखायाः सहायकाचार्येण डॉ. अङ्कुरवत्सेन सश्रद्धं प्रस्तुतम्।
अस्य कार्यक्रमस्य मुख्यवक्ता हरियाणासंस्कृतविद्यापीठस्य साहित्यविभागस्य सहायकाचार्यः डॉ. राधावल्लभशर्मा आसीत्। तेन “मानवाधिकाराणाम् आधारः संस्कृतम्” इत्यस्मिन् विषये विचाराः प्रस्तुताः। स्वव्याख्याने तेन संस्कृतभाषायाः मानवीयमूल्येषु, समतायां तथा अधिकारबोधे महत्त्वपूर्णां भूमिकां प्रकाशिता।
कार्यक्रमस्य संयोजकेन संस्कृतविभागाध्यक्षेण दिनेशचन्द्रपाण्डेयेन मुख्यवक्तुः परिचयः प्रस्तुतः तथा धन्यवादज्ञापनं कृतम्। कार्यक्रमस्य समन्वयिका प्रो. कुसुमडोबरियालवर्या आसीत्। कार्यक्रमस्य कुशलं प्रभावशाली च सञ्चालनं पौडीपरिसरस्य शोधच्छात्रेण राहुलबलोदीद्वारा कृतम्। तस्य सहजया, सुस्पष्टया प्रभावशालिन्या च वाक्शैल्या समग्रः जनसमुदायः कार्यक्रमे अन्तपर्यन्तं संलग्नः अभवत्।
अस्मिन् अवसरे संस्कृतस्य व्यापकं महत्त्वं तथा वर्तमानकाले तस्य प्रासङ्गिकता विषये सार्थकचर्चा अभवत्। संस्कृतसप्ताहस्य एषः कार्यक्रमः संस्कृतभाषायाः भारतीयज्ञानपरम्परायाश्च जागरूकतां सुदृढीकर्तुं प्रेरणादायकः अभवत्।







