उत्तराखण्डहरिद्वार

संस्कृतस्पर्धासु भागं गृह्णन्तः छात्राः संस्कृतस्य अमूल्यनिधयः — त्रिवेन्द्रसिंहरावतः ।। संस्कृतस्य प्रचारप्रसाराय सर्वकारः व्यापकस्तरे कार्यं करोति — मदनकौशिकः

उत्तराखण्डसंस्कृतसंस्थानेन आयोजितानाम् द्विदिसीयराज्यस्तरीयसंस्कृतस्पर्धानाम् पुरस्कारेण सह समापनम्

हरिद्वारम् ।। उत्तराखण्डसंस्कृतसंस्थानेन (उत्तराखण्डसर्वकारः), हरिद्वारद्वारा आयोजितस्य अष्टादशस्य संस्कृतमहोत्सवस्य अन्तर्गतं राज्यस्तरीयायाः संस्कृतस्पर्धायाः (२०२६–२७) द्वितीयदिने विविधासु स्पर्धासु समापनसमारोहः पुरस्कारवितरणकार्यक्रमश्च हरिद्वारस्य भूपतवालास्थिते महाजनभवने सम्पन्नः। कार्यक्रमस्य शुभारम्भः सर्वैः अतिथिभिः दीपप्रज्वालनेन कृतः।

उत्तराखण्डसंस्कृतसंस्थानस्य उपाध्यक्षः डॉ. नवीनचन्द्रपन्तः, संस्थानस्य सचिवः मुख्यसमन्वयकश्च प्रो. विनयकुमारविद्यालङ्कारः, वित्ताधिकारिणी मायादेवी तथा शोधाधिकारी राज्यसमन्वयकश्च डॉ. हरीशचन्द्रगुरुराणी इत्येते संयुक्तरूपेण मञ्चासीनानाम् अतिथीनां माल्यार्पणेन स्मृतिचिह्नप्रदानेन च स्वागतं कृतवन्तः।

कार्यक्रमस्य अध्यक्षः, उत्तराखण्डस्य पूर्वमुख्यमन्त्री हरिद्वारस्य वर्तमानसांसदश्च श्री त्रिवेन्द्रसिंहरावतः सर्वेभ्यः प्रतिभागिभ्यः आशीर्वचनानि प्रदत्तवान्। सः अवदत् यत् विविधासु संस्कृतस्पर्धासु भागं गृह्णन्तः छात्रछात्राः संस्कृतस्य अमूल्यनिधयः सन्ति। स्वप्रतिभया ते स्वमातापितॄन् गुरून् च गौरवान्वितवन्तः।

oplus_2

मुख्यातिथिः उत्तराखण्डसर्वकारस्य आपदाप्रबन्धनमन्त्री हरिद्वारविधायकश्च श्री मदनकौशिकः अवदत् यत् वर्तमानसर्वकारः संस्कृतभाषायाः प्रचारप्रसाराय व्यापकस्तरे कार्यं कुर्वन् अस्ति। संस्कृतस्य संरक्षणसंवर्धनयोः सर्वकारस्य विशेषं योगदानम् अस्ति इति सः प्रतिपादितवान्।

संस्कृतसंवर्धनाय सर्वेषां शिक्षणसंस्थानानां सामूहिकः प्रयासः आवश्यकः — प्रो. रमाकान्तपाण्डेयः

सारस्वतातिथिः उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. रमाकान्तपाण्डेयः उत्तराखण्डस्य सर्वेषां शिक्षणसंस्थानानां सामूहिकरूपेण संस्कृतसंवर्धनकार्ये प्रवृत्तत्वं प्रशंसितवान्। सः प्रतिभागिभ्यः छात्रछात्राभ्यः शुभकामनाः प्रदाय तेषाम् उत्साहवर्धनं कृतवान्।

संस्कृतस्पर्धाभिः संस्कृतमयं वातावरणं निर्मितम् — श्रीशदेवपुजारी

अतिविशिष्टातिथिः संस्कृतभारत्याः अखिलभारतीयसम्पर्कप्रमुखः श्री सुदेवपूजारी अवदत् यत् सम्पूर्णे प्रदेशे आयोजिताभिः संस्कृतस्पर्धाभिः संस्कृतमयस्य वातावरणस्य निर्माणं जातम्।

विशिष्टातिथिः संस्कृतभारतीपश्चिमोत्तरप्रदेशक्षेत्रस्य क्षेत्रसम्पर्कप्रमुखः प्रो. प्रेमचन्द्रशास्त्री अवदत् यत् भारतीयज्ञानपरम्परायाः संस्कृतभाषायाश्च उन्नतौ संस्थानस्य महत्त्वपूर्णं योगदानम् अस्ति। संस्कृतभारत्याः उत्तराखण्डप्रान्तस्य सङ्घटनमन्त्री श्री गौरवशास्त्री अपि सर्वेभ्यः प्रतिभागिभ्यः शुभकामनाः प्रदत्तवान्।

द्वितीयदिने विविधासु संस्कृतस्पर्धासु प्रतिभागिनां प्रतिभाप्रदर्शनम्

कार्यक्रमस्य द्वितीयदिने कनिष्ठवर्गे संस्कृतनाटकस्य, संस्कृतश्लोकोच्चारणस्य च स्पर्धाः आयोजिताः। वरिष्ठवर्गे संस्कृतसमूहगानस्य, श्लोकोच्चारणस्य च स्पर्धाः सम्पन्नाः। मञ्चासीनैः सर्वैरतिथिभिः विजेतृभ्यः प्रमाणपत्राणि स्मृतिचिह्नानि च प्रदाय पुरस्कारैः सम्माननं कृतम्।

कार्यक्रमस्य सञ्चालनं संस्थानस्य शोधाधिकारी राज्यसमन्वयकश्च डॉ. हरीशचन्द्रगुरुराणी कृतवान्। अन्ते संस्थानस्य सचिवः प्रो. विनयकुमारविद्यालङ्कारः सर्वेषाम् आगन्तुकानां प्रति धन्यवादज्ञापनं कृतवान्।

अस्मिन् अवसरे गुरुकुलमहाविद्यालयस्य ज्वालापुरस्य पूर्वप्राचार्यः डॉ. हरिगोपालशास्त्री, डॉ. रविन्द्रार्यः, भूपेन्द्रगहतोड़ी, डॉ. विजयकुमारत्यागी, डॉ. सुशीलकुमारत्यागी, डॉ. राधेश्यामबहुखण्डी, डॉ. केशवदत्तबलियानी, रोशनलालगौडः, प्रकाशचन्द्रतिवारी, पण्डितः हेमन्ततिवारी, गणेशफोन्दणी, डॉ. किशोरीलालरौतुड़ी, रमाकठैतः, लीलारावतः इत्यादयः संस्कृतशिक्षकाः, शिक्षिकाः, शिक्षाविदः, समाजसेविनश्च उपस्थिताः आसन्।

—

राज्यस्तरीयसंस्कृतस्पर्धायाः परिणामाः

वरिष्ठवर्गः

१. संस्कृतनाट्यस्पर्धा

– प्रथमस्थानम् — श्रीभगवानदास-आदर्शसंस्कृतमहाविद्यालयः, हरिद्वारम्।
– द्वितीयस्थानम् — डायनेस्टी-मॉडर्न-गुरुकुल-एकेडमी, छिनकीफार्म, खटीमा, ऊधमसिंहनगरम्।
– तृतीयस्थानम् — राजकीयः इण्टर-कॉलेजः, बापरू, चम्पावतम्।

२. संस्कृतसमूहनृत्यस्पर्धा

– प्रथमस्थानम् — डायनेस्टी-मॉडर्न-गुरुकुल-एकेडमी, छिनकीफार्म, खटीमा, ऊधमसिंहनगरम्।
– द्वितीयस्थानम् — नरेन्द्रमहिलाविद्यालयः इण्टर-कॉलेजः, चम्बा, टिहरीगढवालम्।
– तृतीयस्थानम् — आर्यकन्यापाठशाला इण्टर-कॉलेजः, रुड़की, हरिद्वारम्।

३. संस्कृतसमूहगानस्पर्धा

– प्रथमस्थानम् — डायनेस्टी-मॉडर्न-गुरुकुल-एकेडमी, छिनकीफार्म, खटीमा, ऊधमसिंहनगरम्।
– द्वितीयस्थानम् — आचार्यकुलम्, पतञ्जलियोगपीठम्, हरिद्वारम्।
– तृतीयस्थानम् — दुर्गादत्तकपि-संस्कृतोत्तरमध्यमाविद्यालयः, हल्द्वानी, नैनीतालम्।

४. संस्कृतवादविवादस्पर्धा

– प्रथमस्थानम् — पी.एम. श्री राजकीयः इण्टर-कॉलेजः, पतलट, नैनीतालम्। प्रतिभागिनौ — गुड्डू रूवाली, चन्दू त्रिपाठी।
– द्वितीयस्थानम् — पतञ्जलिगुरुकुलम्, मूल्याग्रामः, देवप्रयागः, टिहरीगढवालम्। प्रतिभागिन्यौ — जाह्नवी, प्रिया।
– तृतीयस्थानम् — श्रीगुरुरामराय-लक्ष्मणसंस्कृतमहाविद्यालयः, देहरादूनम्। प्रतिभागिनौ — नीरज बिजल्वाणः, सौरभ तिवाडी।

५. संस्कृताशुभाषणस्पर्धा

– प्रथमस्थानम् — पतञ्जलिविश्वविद्यालयः, हरिद्वारम्। प्रतिभागिनी — शुभाङ्गिन्यार्या।
– द्वितीयस्थानम् — राजकीयः इण्टर-कॉलेजः, पश्यां, ओखलकाण्डा, नैनीतालम्। प्रतिभागिनी — दीपिका परगाईं।
– तृतीयस्थानम् — श्रीदर्शनसंस्कृतमहाविद्यालयः, मुनिकीरेती, ऋषिकेशः, टिहरीगढवालम्। प्रतिभागी — अक्षितबहुगुणः।

६. संस्कृतश्लोकोच्चारणस्पर्धा

– प्रथमस्थानम् — डायनेस्टी-मॉडर्न-गुरुकुल-एकेडमी, छिनकीफार्म, खटीमा, ऊधमसिंहनगरम्। प्रतिभागिनी — साक्षी भट्टः।
– द्वितीयस्थानम् — पतञ्जलिगुरुकुलम्, मूल्याग्रामः, देवप्रयागः, टिहरीगढवालम्। प्रतिभागिनी — सन्ध्या।
– तृतीयस्थानम् — श्रीशक्तिपीठाश्रमसंस्कृतविद्यालयः, मनीला, अल्मोड़ाम्। प्रतिभागी — भूपेशचन्द्रपाण्डे।

कनिष्ठवर्गः

१. संस्कृतनाट्यस्पर्धा

– प्रथमस्थानम् — डायनेस्टी-मॉडर्न-गुरुकुल-एकेडमी, छिनकीफार्म, खटीमा, ऊधमसिंहनगरम्।
– द्वितीयस्थानम् — इण्टर-कॉलेजः, गगरीगोल, गरुड़, बागेश्वरम्।
– तृतीयस्थानम् — ब्रिगेडियरविद्याधरजुयाल-संस्कृतोत्तरमध्यमाविद्यालयः, कोट, पौड़ीगढवालम्।

२. संस्कृतसमूहगानस्पर्धा

– प्रथमस्थानम् — डायनेस्टी-मॉडर्न-गुरुकुल-एकेडमी, छिनकीफार्म, खटीमा, ऊधमसिंहनगरम्।
– द्वितीयस्थानम् — विजन-पब्लिक-स्कूलः, चम्पावतम्।
– तृतीयस्थानम् — के.वी.एम. पब्लिक-स्कूलः, हल्द्वानी, नैनीतालम्।

३. संस्कृतसमूहनृत्यस्पर्धा

– प्रथमस्थानम् — पतञ्जलिगुरुकुलम्, मूल्याग्रामः, देवप्रयागः, टिहरीगढवालम्।
– द्वितीयस्थानम् — राजकीयः इण्टर-कॉलेजः, कोटद्वारम्, पौड़ीगढवालम्।
– तृतीयस्थानम् — एस.एम.एस. दत्ता मेमोरियल नोजगे पब्लिक-स्कूलः, ऊधमसिंहनगरम्।

४. संस्कृतवादविवादस्पर्धा

– प्रथमस्थानम् — श्रीमद्दयानन्द-आर्षज्योतिर्मठगुरुकुलम्, पौधा, देहरादूनम्। प्रतिभागिनौ — प्राञ्जलः, आरवः।
– द्वितीयस्थानम् — आचार्यकुलम्, पतञ्जलि, हरिद्वारम्। प्रतिभागिनौ — शौर्यराजः, गौरिका।
– तृतीयस्थानम् — डायनेस्टी-मॉडर्न-गुरुकुल-एकेडमी, छिनकीफार्म, खटीमा, ऊधमसिंहनगरम्। प्रतिभागिन्यौ — कञ्चनलोहनी, किरतकौर।

५. संस्कृताशुभाषणस्पर्धा

– प्रथमस्थानम् — श्रीपरशुरामचतुर्वेदविद्यालयः, देहरादूनम्। प्रतिभागी — अर्जितनारायण उनियालः।
– द्वितीयस्थानम् — ब्रिगेडियरविद्याधरजुयाल-संस्कृतोत्तरमध्यमाविद्यालयः, कोट, पौड़ीगढवालम्। प्रतिभागी — तेजसबडोनी।
– तृतीयस्थानम् — श्रीदर्शनसंस्कृतमहाविद्यालयः, मुनिकीरेती, टिहरीगढवालम्। प्रतिभागी — केशवः।

६. संस्कृतश्लोकोच्चारणस्पर्धा

– प्रथमस्थानम् — श्रीशक्तिपीठाश्रम-संस्कृतोत्तरमध्यमाविद्यालयः, मनीला, अल्मोड़ाम्। प्रतिभागी — योगेशबलोदी।
– द्वितीयस्थानम् — श्रीपरशुरामचतुर्वेदीविद्यालयः, देहरादूनम्। प्रतिभागी — आदित्यभट्टः।
– तृतीयस्थानम् — श्रीदर्शनसंस्कृतमहाविद्यालयः, मुनिकीरेती, टिहरीगढवालम्। प्रतिभागी — कृष्ण उनियालः।

विशेषपुरस्काराः

– सर्वश्रेष्ठाभिनेतृपुरस्कारः — दीपककुमारः, इण्टर-कॉलेजः, गगरीगोल, गरुड़, बागेश्वरम्।
– सर्वश्रेष्ठाभिनेत्र्याः पुरस्कारः — इशिताचन्दः, डायनेस्टी-मॉडर्न-एकेडमी, छिनकीफार्म, खटीमा, ऊधमसिंहनगरम्।

एवं राज्यस्तरीयसंस्कृतस्पर्धायाः माध्यमेन छात्रछात्राणां संस्कृतभाषाप्रतिभायाः, सांस्कृतिककौशलस्य भारतीयज्ञानपरम्परायाश्च संरक्षणसंवर्धनस्य सन्देशः प्रसारितः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button