उत्तराखण्डहरिद्वार

संस्कृतभाषा विविधसंस्कृतीनां ऐक्यस्य, तथा च सदाचरणस्य, विज्ञानस्य च भाषा — स्वामी चिदानन्दमुनिमहाराजः

हरिद्वारे त्रयोदशजनपदानां सहभागितया अष्टादशस्य संस्कृतमहोत्सवस्य भव्यः शुभारम्भः

हरिद्वारम्। उत्तराखण्डसंस्कृतसंस्थानम्, हरिद्वारम् इत्यस्य तत्त्वावधाने अष्टादशसंस्कृतमहोत्सवस्य अन्तर्गतं राज्यस्तरीयसंस्कृतस्पर्धानां २०२६-२७ इत्यस्याः शुभारम्भः हरिद्वारस्य भूपतवालास्थिते महाजनभवने भव्यतया सम्पन्नः।

उद्घाटनसमारोहे पतञ्जलिगुरुकुलम्, टिहरी इत्यत: बालिकाभिः वैदिकमङ्गलाचरणं तथा वन्देमातरम् इति राष्ट्रगीतं प्रस्तुतम्। अतिथीनां स्वागतार्थं डायनेस्टी मॉडर्न गुरुकुल एकेडमी, खटीमा इत्यस्य छात्रैः छात्राभिश्च स्वागतगीतम् प्रस्तुतम्।

दीपप्रज्वलनेन कार्यक्रमस्य शुभारम्भः

कार्यक्रमस्य पावनसान्निध्यं परमार्थनिकेतनम्, ऋषिकेशम् इत्यस्य परमाध्यक्षः महामण्डलेश्वरः स्वामी चिदानन्दमुनिमहाराजः अलङ्कृतवान्। कार्यक्रमस्य मुख्यातिथिः उत्तराखण्डशासनस्य संस्कृतशिक्षासचिवः श्रीदीपककुमारः, अध्यक्षरूपेण हरिद्वारनगरनिगमस्य महापौरः श्रीमती किरणजैसलः, उत्तराखण्डसंस्कृतसंस्थानस्य उपाध्यक्षः डॉ. नवीनचन्द्रपन्तः, संस्थानस्य सचिवः प्रो. विनयकुमारविद्यालङ्कारः, संस्कृतशिक्षानिदेशालयस्य निदेशिका श्रीमती मञ्जुभारती, उपनिदेशकः तथा हरिद्वारस्य सहायकनिदेशकः डॉ. वाजश्रवाआर्यः, संस्थानस्य वित्ताधिकारिणी श्रीमती मायादेवी, संस्कृतभारत्याः उत्तराखण्डप्रान्ताध्यक्षः डॉ. आनन्दभारद्वाजः च उपस्थिताः आसन्।

oplus_2

एतैः सर्वैः संयुक्तरूपेण दीपप्रज्वालनं कृत्वा कार्यक्रमस्य विधिवत् उद्घाटनं कृतम्। संस्थानस्य सचिवेन तथा राज्यस्तरीयसंस्कृतस्पर्धायाः मुख्यसमन्वयकेन प्रो. विनयकुमारविद्यालङ्कारेण मञ्चासीनाः सर्वे अतिथयः माल्यार्पणेन, स्मृतिचिह्नप्रदानेन, उत्तरीयवस्त्रप्रदानेन च सम्मानिताः।

संस्कृतभाषा संस्कृतेः संवाहिका — स्वामी चिदानन्दमुनिमहाराजः

अस्मिन्नवसरे स्वामी चिदानन्दमुनिमहाराजः स्वीयैः आशीर्वचनैः सर्वान् अनुगृह्य अवदत् यत् संस्कृतभाषा एव संस्कृतेः संवाहिका, सर्वेषां संस्काराणां जननी च अस्ति। संस्कृतभाषा भयम् अपसारयति, भावान् जागरयति, ‘वसुधैव कुटुम्बकम्’ इति उदात्तभावनायाः सत्प्रेरणां च ददाति। संस्कृतभाषा देवभाषा, दिव्यभाषा च अस्ति। ऐक्यस्य विज्ञानस्य च तेन सह
सा सङ्गमस्य संयमस्य च भाषा इति तेन प्रतिपादितम्।

पञ्चाशत्सहस्राधिकैः प्रतिभागिभिः संस्कृतस्पर्धासु सहभागिता

उत्तराखण्डसंस्कृतसंस्थानस्य सचिवः तथा राज्यस्तरीयस्पर्धायाः मुख्यसमन्वयकः प्रो. विनयकुमारविद्यालङ्कारः अवदत् यत् विकासखण्डस्तरे तथा जनपदस्तरे आयोजितासु संस्कृतस्पर्धासु प्रदेशस्य विविधप्रकारकविद्यालयानां, महाविद्यालयानां, विश्वविद्यालयानां, कान्वेण्टविद्यालयानां, सार्वजनिकविद्यालयानां, नवोदयविद्यालयानां, केन्द्रीयविद्यालयानां, गुरुकुलानां, संस्कृतविद्यालयानां, विद्यामन्दिराणां च छात्राः छात्राश्च, शिक्षकाः, प्रधानाचार्याः, प्राचार्याश्च सहभागितां कृतवन्तः। एतेषु स्पर्धात्मककार्यक्रमेषु पञ्चाशत्सहस्राधिकाः जनाः सहभागिनः अभवन्।

अस्मिन् द्विदिवसीये राज्यस्तरीयसंस्कृतस्पर्धाकार्यक्रमे उत्तराखण्डस्य त्रयोदशजनपदेभ्यः प्रथमस्थानं प्राप्तवन्तः प्रतिभागिनः भागं गृह्णन्ति। मञ्चासीनैः अतिथिभिः सर्वेभ्यः प्रतिभागिभ्यः आशीर्वादाः शुभकामनाश्च प्रदत्ताः।

संस्कृतस्पर्धाभिः व्यक्तित्वस्य विकासः

कार्यक्रमस्य मुख्यातिथिः संस्कृतशिक्षासचिवः श्रीदीपककुमारः सर्वेभ्यः प्रतिभागिभ्यः शुभकामनाः प्रदाय अवदत् यत् विविधाभिः संस्कृतस्पर्धाभिः व्यक्तित्वस्य निर्माणं भवति, प्रतिभायाः विकासः च जायते।

कार्यक्रमाध्यक्षः हरिद्वारनगरनिगमस्य महापौरः श्रीमती किरणजैसलः अवदत् यत् संस्कृतस्पर्धाभिः संस्कृतभाषायाः प्रचारः, प्रसारः, संवर्धनं संरक्षणं च भवति।

प्रथमदिवसे अष्टसु स्पर्धासु आयोजनम्

राज्यस्तरीयसंस्कृतस्पर्धायाः प्रथमदिवसे कनिष्ठवर्गे संस्कृतसमूहनृत्यम्, संस्कृताशुभाषणम्, संस्कृतवादविवादः, संस्कृतसमूहगानं च आयोजितानि। वरिष्ठवर्गे संस्कृतनाटकम्, संस्कृतसमूहनृत्यम्, संस्कृताशुभाषणम्, संस्कृतवादविवादः च सम्पन्नानि। एवं प्रथमदिवसे आहत्य अष्टस्पर्धानाम् आयोजनम् अभवत्।

विद्वद्भिः निर्णायकत्वेन निर्व्यूढा भूमिका

विविधासु स्पर्धासु श्रीगिरीशचन्द्रतिवारी, हंसवीटॉक, प्रो. हरीशचन्द्रतिवारी, डॉ. मूलचन्द्रशुक्लः, प्रो. रामरतनखण्डेलवालः, डॉ. रवीन्द्रआर्यः, डॉ. प्रियापाण्डेयः, श्रीगुरुराकेशमहाराजः, प्रो. बिन्दुमतीद्विवेदी, डॉ. हिमाचलकुमारी, डॉ. राघवझा, डॉ. पुरुषोत्तमः, डॉ. अरुणकुमारमिश्रः, डॉ. प्रीतिः, डॉ. नारायणदत्तमिश्रः इत्यादयः विद्वांसः निर्णायकत्वेन स्वां भूमिकाम् अनिर्वहन्।

अनेकैः कार्यकर्तृभिः कार्यक्रमस्य सफलतायां योगदानम्

अस्मिन् कार्यक्रमे हरिद्वारजनपदसंयोजकः डॉ. विजयकुमारत्यागी, डॉ. केशवदत्तबलियानी, डॉ. रोशनलालगौडः, घनश्यामउनियालः, डॉ. सुशीलकुमारत्यागी, डॉ. राधेश्यामबहुखण्डी, मनोजशर्मा, उत्तराखण्डसंस्कृतसंस्थानस्य प्रशासनाधिकारी डॉ. किशोरीलालरतूडी, प्रशासनिकाधिकारिणी लीला रावतः, जगतनयनबहुखण्डी, कुलदीपमैन्दोलः, तारादत्तअवस्थी च विशेषसहयोगं कृतवन्तः। नीमागैरोला तथा लावण्यागैरोलयोः उपस्थित्या कार्यक्रमस्य शोभा वर्धिता।

कालिदासलघुत्रयीपुस्तकस्य विमोचनम्

कार्यक्रमस्य विशेषाकर्षणरूपेण डॉ. मूलचन्द्रशुक्लेन विरचितायाः ‘कालिदासलघुत्रयी’ इति पुस्तकस्य मञ्चासीनैः अतिथिभिः सामूहिकरूपेण विमोचनं कृतम्।समाचारलेखनसमये अपि राज्यस्तरीयसंस्कृतस्पर्धानां कार्यक्रमः निरन्तरं प्रचलति स्म।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button