उत्तराखण्डहरिद्वार

उत्तराखण्ड-संस्कृत-विश्वविद्यालयः, हरिद्वारम् एवं साहित्य-अकादमी, नवदेहली इत्यनयोः संयुक्ततत्त्वावधाने आयोजिता एकदिवसीया राष्ट्रिया संगोष्ठी

वार्ताहरः- डॉ. प्रकाशपन्तः हरिद्वारम्। विकसितभारतस्य निर्माणे संस्कृतयुवलेखकानां योगदानम् इति विषयमादाय उत्तराखण्डसंस्कृतविश्वविद्यालयस्य सरस्वतीसभागारे चैत्रशुक्लतृतीया-तिथौ एकदिवसीये राष्ट्रिय-चर्चासत्रे भारतस्य विभिन्नप्रान्तेभ्य: समागतै: संस्कृतयुवलेखकैः तेषां कृतयः शोधपत्राणि च चर्चितानि। सत्रेऽस्मिन् मुख्यातिथिरूपेण संस्कृतशिक्षासचिवः श्रीदीपकगैरोला-महोदयः उपस्थितः आसीत्। सोऽवदत् यत् राज्ये संस्कृतस्य व्यापकरूपेण प्रचाराय, प्रसाराय, संवर्धनाय, संरक्षणाय च नैकाः कार्ययोजनाः निर्मिताः सन्ति। सः सूचितवान् यत् उत्तराखण्डसर्वकारेण त्रिंशदधिकद्विसहस्रतम-वर्षपर्यन्तं राज्यस्य पञ्चनवतिविकासखण्डेषु संस्कृतग्रामाणां स्थापनाय लक्ष्यं निर्धारितं वर्तते।

तिरुपतिस्थ केन्द्रीय-संस्कृत-विश्वविद्यालयस्य पूर्व-कुलपतिः डॉ. हरेकृष्ण-शतपथीमहोदयः अवदत् यत् वर्तमानकाले भारतराष्ट्रं विकासस्य मार्गे अग्रेसरो वर्तते इति। अस्मिन् राष्ट्रनिर्माणकार्ये संस्कृत-युव-लेखकानां दायित्वम् इतोऽप्यधिकं वर्तते यतोहि इयं भाषा न केवलं भारतस्य अपितु विश्वस्य सर्वासां भाषाणां जननी अस्ति, तथा भाषेयं नैतिकमूल्यानां संस्कृतेश्च संरक्षणाय आवश्यकी वर्तते। उक्तमपि वर्तते यत् “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा”। संस्कृतभाषायां लेखनं न केवलं शब्दानां संयोजनम् अपितु विचाराणां, संस्कृतेः, भारतीयज्ञान-परम्परायाश्च संवर्धकम् अस्ति।

भारतस्य स्वरूपं केवलं भौतिकविकासेनैव न निर्धार्यते अपितु तस्य स्वरूपम् आध्यात्मिकपरम्परया, वेदैः, उपनिषद्भिः, संस्कृतसाहित्येन, व्याकरणेन च निरूप्यते।
“विना वेदं विना गीतां विना रामायणी कथाम्।
विना कवि: कालिदासं भारतं भारतं न हि।।”
सन्दर्भेऽस्मिन् केन्द्रीय-संस्कृत-विश्वविद्यालयस्य पूर्व-कुलपतिः प्रोफेसर राधवल्लभ-त्रिपाठिमहोदयः युवसंस्कृतलेखकै: सह चर्चां कुर्वन्नब्रवीत् यत् आधुनिकयुगे कृत्रिम-बुद्धिचातुर्यस्य(A. I.) प्राकृतिक-बुद्धिचातुर्यस्य(N. I.)च मध्ये समन्वयः आवश्यकः अस्तीति। यतोहि कृत्रिम-बुद्धिचातुर्यं तत् यान्त्रिकज्ञानम् अस्ति यत् गणनां विश्लेषणं च शीघ्रत्वेन सम्पादयति तथा च प्राकृतिक-बुद्धिचातुर्यमिति मनुष्यस्य अन्तःस्थितः विवेकः, संस्कारः, नीतिशास्त्रञ्च अस्ति यत् भारतीयपरम्परायाः केन्द्रबिन्दुः अस्ति। यदि कृत्रिम-बुद्धिचातुर्यं बुद्धिं प्रददाति तर्हि प्राकृतिक-बुद्धिचातुर्यं सम्यक् मार्गं प्रदर्शयति।

युव-लेखकाः एतयोः द्वयोः सन्तुलनं कृत्वा नवभारतस्य निर्माणं कर्तुं शक्नुवन्ति। पद्मश्रिया सभाजित: त्रिवेणीकवि: प्रोफेसर अभिराज-राजेन्द्रमिश्रमहोदयः अवदत् यत् संस्कृतं साहित्यस्य गहनतां, वेदानां सार्वत्रिकं सन्देशं, आधुनिकविज्ञानस्य नवान्वेषणं च उपस्थापयितुं समर्थम् अस्ति इति। आधुनिकज्ञानं प्राचीनज्ञानस्य अपेक्षया भौतिकविकासे अधिकं केन्द्रीकृतम् अस्ति परन्तु प्राचीनभारतीयज्ञानं स्वविकासे, सामाजिक-सहयोगे, प्रकृति-सन्तुलने च आधारितम् आसीत्। कुलपतिः प्रो.रमाकान्तपाण्डेयवर्यः युवलेखकैः सह स्वविचारान् प्रकटयन् अवदत् यत् यदि युवाशक्तिः नवनवोन्मेषशालिनीप्रतिभया राष्ट्रे नैतिकतायाः, नूतनविचाराणां च प्रसारं करिष्यति तर्हि आगामिषु विंशतिषु वर्षेषु भारतं पूर्णतया विकसितराष्ट्रं भविष्यति विषयेऽस्मिन् कोऽपि संशयः नास्ति इति।

अस्यां राष्ट्रीयसंगोष्ठ्यां डॉ.हरीशतिवारीवर्येण स्वागतभाषणम्, डॉ.प्रकाशपन्तवर्येण कार्यक्रमस्य सञ्चालनं विहितम्। अस्मिन्नवसरे डॉ.सुबोधश्रीवास्तव:, डॉ.प्रकाशमिश्रा, डॉ.सुनीलसमदानी, डॉ.निशि, डॉ.सुनीता इत्यादयः युवसंस्कृतलेखका: उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button