उत्तराखण्डदेहरादून

ग्राफिक-ऐरा-विश्वविद्यालये आचार्यकीर्तिवल्लभमैन्दोलियाद्वारा ज्योतिषीयगरिमा वर्धिता।

देहरादूनस्थिते ज्योतिष-महाकुम्भे ग्राफिक-ऐरा-विश्वविद्यालये आयोजिते कार्यक्रमे वैदिक-ज्योतिषपरम्परायाः सुविख्यातः यशस्वी आचार्यः श्री कीर्तिबल्लभ मैन्दोलिया रामानुजवैष्णवः दिव्यज्योतिषज्ञानप्रभावेण विशेषरूपेण समुपस्थितोभवत्। कार्यक्रमकाले आचार्य: अनेकेषां सुधीमित्राणाम्, आत्मीयबन्धूनां च प्रश्नानां समाधानं कृतवान् । जनमानसं निरीक्ष्य जातककुण्डली-विचारः, प्रश्न-ज्योतिषम्, सामुद्रिकशास्त्राधारितं विचारणं तथा मुखावलोकनद्वारा भावीफल-कथनं च विद्वत्समागमे विशेषाकर्षणं जातम्। आचार्यस्य उपरि श्री नृसिंहभगवतः पूर्णकृपाया: उल्लेखः सर्वत्र प्रशंसितः।

वैदिक-सनातनपरम्परायाः अनुयायी आचार्यः श्री कीर्तिबल्लभमैन्दोलिया रामानुजवैष्णवः उत्तराखण्डप्रदेशे भारद्वाजगोत्रीय-सारस्वत-ब्राह्मणकुले, पौड़ी-गढ़वालजनपदे दिगोलीग्रामे दिनाङ्के 19 नवम्बर 1978 तमे जन्म प्राप्नोत्। प्रारम्भिकशिक्षां गुरुकुले वेद-व्याकरण-धर्मसंघे प्राप्तवान्। तदनन्तरं राजधानी-दिल्लीस्थे श्रीलालबहादुर-संस्कृत-विद्यापीठ-विश्वविद्यालये ज्योतिषविषये शास्त्री, ज्योतिषाचार्य: तथा पुराणाचार्य: इति परीक्षाः उत्तीर्णवान्।

गत 20–22 वर्षाणि समाजे ज्योतिषीयसेवायां निरन्तरं संलग्नः आचार्य, अपि च एयरटेल, हच, वोडाफोन इत्यादिषु दूरवाणीवाक्सञ्चारकेन्द्रे पञ्चवर्षपर्यन्तं सेवां प्रदाय राजधानी-दिल्लीमध्ये ज्योतिषाधारित-भविष्यवाणीसेवां च अकरोत्। हिन्दुस्तान टाइम्स, अमर उजाला, दैनिक जागरण इत्यादिषु प्रतिष्ठितेषु समाचारपत्रेषु समये समये लेखनकार्यं कृतवान्। गत 5–7 वर्षेषु जी हिन्दुस्तान, नवभारत, टाइम्स नाव, एच एन एन, टीवी देहरादून इत्यादिषु दूरदर्शन-माध्यमेषु अपि अनेकाः कार्यक्रमाः प्रसारिताः।

स्वीयज्ञानप्रभया प्रेरितः आचार्य: भारतदेशात् बहिर्देशेषु अपि यात्रां कृतवान्। पूर्वं माननीयमुख्यमन्त्रिणा श्री बी. सी. खण्डूरीमहोदयेन उत्तराखण्डसरकारत: सम्मानितः। नैनीताल-क्लब इत्यत्र आयोजितायां ज्योतिष-चर्चायां ज्योतिषप्रज्ञया अपि सम्मानं प्राप्तवान्। अनेकैः राजनेतृभिः—पूर्वमन्त्री श्री प्रकाशपन्तमहोदयेन, श्री डॉ. रमेशपोखरियालमहोदयेन च—यज्ञादिककर्मसु सत्कारितः।

वर्तमानकाले आचार्यः श्री कीर्तिबल्लभमैन्दोलिया काशीपुरे निवसति। ब्रह्मलीन-पूज्यस्य अनन्तश्रीमाधवाश्रमशंकराचार्यस्य स्वामीबद्रिकाश्रममहोदयस्य आशीर्वादं तथा स्वामीविद्याभास्करमहाराजकोसलेश-सदन-पीठाधीश्वरात् श्रीभाष्यकारवासुदेवाचार्यरामानुजवैष्णव-सम्प्रदायात् दीक्षां प्राप्य भागवत-धर्मे सनातनपरम्परायां निष्ठया प्रवृत्तः अस्ति।
एवं देहरादून-ज्योतिष-महाकुम्भे आचार्यगणे उपस्थिति:, विद्वद्गणैः सह विचार-विमर्शः तथा जनहिताय कृतं ज्योतिषीय-मार्गदर्शनं कार्यक्रमस्य गरिमां विशेषतया वर्धितवान्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button