कण्वनगर्यां नगरायुक्तमहोदयेन क्रीडकाः सम्मानिताः
क्रीडकानां सम्मानं देशस्य सम्मानम् - "पी.एल.शाह:"

उत्तराखण्डम्। कोटद्वारस्य तड़ियालचतुष्पथे के. प्राइड मॉल्-मध्ये स्थिते मङ्गलम्-सभागारे भारतभूमि-न्यासेन, “रैबार पहाड़ का” इत्यनेन वार्तापटलेन तथा के. प्राइड मॉल् इत्येतेषां संयुक्ततत्त्वावधाने क्रीडक-सम्मान-समारोहः आयोजितः। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण उपस्थितेन नगरायुक्तेन श्रीमता पी.एल.शाह-महोदयेन उत्कृष्टप्रदर्शनं कृतवन्तः क्रीडकाः सम्मानिताः।

देहरादूननगरे आयोजितायां पञ्चदशोत्तराखण्ड-राज्य-वुशु-क्रीडाप्रतियोगितायां स्वर्णपदकं विजितवती आकांक्षा पोखरियालबालिका, जॉर्जियादेशे आयोजिते बटुमि-ओपन-अन्ताराष्ट्रिय-वुशु-क्रीडाप्रतियोगितायां तृतीयस्थानं प्राप्तवान् कांस्यपदकविजेता शिवांशु पोखरियाल, देहरादूननगरे आयोजितायां षड्विंशति-उत्तराखण्ड-राज्य-शक्त्युत्थापन-क्रीडाप्रतियोगितायां सुवर्णपदकं तथा कांस्यपदकं विजितवान् ऋतिकः, नेपालदेशे आयोजितायाम् इण्डो-नेपाल-क्रीडाप्रतियोगितायां सुवर्णपदकं विजितवती सृष्टिः सैनी च नगरायु क्तेन सम्मानिताः।


एतेषां क्रीडकानां प्रशिक्षकाः नितिननेगी, चिन्तनरावतः तथा क्रीडकानां परिजनाः अपि मुख्यातिथिना पी.एल.शाह-महोदयेन सम्मानिताः। नगरायुक्तेन क्रीडकानां उज्ज्वलभविष्याय शुभकामनाः प्रदत्ताः तथा तेषां क्रीडाक्षेत्रे प्राप्तानां उपलब्धीनां प्रशंसा कृता। तै: कथितं यत् क्रीडकानां सम्मानं देशस्य सम्मानम् इति ।

अवसरेऽस्मिन् के. प्राइड मॉल् इत्यस्य अध्यक्षः चन्द्रप्रकाशशर्मा, पदमपुर-गैस-एजेन्सी-स्वामी भुवनेशकुंज:, कार्यक्रमस्य संयोजकः चन्द्रमोहनजदली, पूर्वप्रधानाचार्यः रमाकान्तकुकरेती, शिक्षकः पवनरावतः, संस्कृताचार्यः कुलदीपमैन्दोला, राज्य-आन्दोलनकारी विजयध्यानी, पूर्वजिलापञ्चायतसदस्यः तथा सम्प्रति काण्डा-ग्रामस्य क्षेत्रपञ्चायतसदस्या सरिता पोखरियालवर्या, दिनकरपोखरियाल:, मोहरा-क्षेत्रस्य क्षेत्रपञ्चायतसदस्यः नवीननेगी, दर्था-ग्रामस्य ग्रामप्रधानः रिंकी नेगी, वॉरियर् अकादमी-प्रशिक्षकः नितिननेगी, सोनी भारद्वाज:, सोनी जोशी, बीना जुयाल:, सम्पत्तिध्यानी, रीताध्यानी, लक्ष्मी रावत:, हेमलता नेगी, सन्तोषी रावत:, सुमनद्विवेदी, रामेश्वरी नेगी, बबीता सैनी, नीलमरावत:, सतेश्वरी जदली, मायारामजदली इत्यादयः अनेकाः गणमान्याः जनाः उपस्थिताः आसन्।

कार्यक्रमस्य सञ्चालनं संस्कृताचार्येण कुलदीप मैन्दोला-महोदयेन कृतम्। समारोहः क्रीडकानां प्रतिभायाः सम्माननेन तथा तेषां उज्ज्वलभविष्यस्य मंगलकामनाभिः सह सम्पन्नः।







