Uncategorizedउत्तराखण्डहरिद्वार

संस्कृतकाव्यं भारतीयसंस्कृतेः आत्मस्वरूपम्, तथा कवयः समाजे संस्कारं, संवेदनां, राष्ट्रनिष्ठां च जागरयन्ति- “प्रो. रमाकान्तपाण्डेय:

उत्तराखण्डसंस्कृतविश्वविद्यालये अन्तर्जालीय- संस्कृतसप्ताहमहोत्सवे सञ्जातं भव्यं अखिलभारतीयसंस्कृतकविसम्मेलनम्

हरिद्वारम् । उत्तराखण्डसंस्कृतविश्वविद्यालये हरिद्वारे “संस्कृतसप्ताहमहोत्सव:–२०२६” इत्यन्तर्गतं आयोजितम् अखिलभारतीयसंस्कृतकविसम्मेलनम् गरिमामयेन साहित्यिकवातावरणेन सह सफलतया सम्पन्नम्। अन्तर्जालमाध्यमेन आयोजिते अस्मिन् राष्ट्रीयकविसम्मेलने देशस्य विविधप्रदेशेभ्यः आगतैः प्रख्यातैः संस्कृतकविभिः राष्ट्रं, संस्कृतिः, प्रकृतिः, अध्यात्मं तथा मानवीयमूल्यानि विषयीकृत्य स्वीयानां मौलिककवितानां सस्वरं काव्यपाठः कृतः।

कार्यक्रमस्य अध्यक्षतां विश्वविद्यालयस्य कुलपतिः प्रो. रमाकान्तपाण्डेयः अकरोत्, संयोजनं च डा. प्रकाशचन्द्रपन्तः अकरोत्। अध्यक्षीयसम्बोधने कुलपतिना उक्तं यत् संस्कृतकाव्यं भारतीयसंस्कृतेः आत्मस्वरूपम् अस्ति तथा कवयः समाजे संस्कारं, संवेदनां, राष्ट्रनिष्ठां च जागरयन्ति।

कविसम्मेलने प्रो. रामविनयसिंहः, प्रो. निरञ्जनमिश्रः, प्रो. सुरचनात्रिवेदी, डा. सिंहासनपाण्डेयः, डा. राजकुमारमिश्रः, प्रो. अरविन्दनारायणमिश्रः, डा. सोमेशकश्यपः, प्रो. शैलेशकुमारतिवारी, डा. कीर्तिवल्लभशक्टा, डा. अरविन्दकुमारतिवारी, डा. श्रीनाथधरद्विवेदी, डा. शशिकान्ततिवारी, डा. अवनीशधरद्विवेदी तथा डा. पङ्कजकुमारझा इत्यादयः कवयः स्वीयकाव्यानां मनोहरं पाठं कृत्वा श्रोतॄन् मन्त्र-मुग्धान् अकुर्वन्।
कार्यक्रमस्य समापनावसरे संयोजकेन डा. प्रकाशचन्द्रपन्तेन सर्वेभ्यः कविभ्यः, विद्वद्भ्यः तथा सहभागिभ्यः हार्दिकं धन्यवादज्ञापनं कृत्वा संस्कृतसाहित्यस्य प्रचारप्रसाराय दृढः सङ्कल्पः पुनरुच्चारितः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button