भारतीयज्ञानपरम्परायां निहितम् आदर्शशासनस्य राजनीतेश्च मार्गदर्शनम्।

पौडी। हेमवतीनन्दनबहुगुणागढवालविश्वविद्यालयस्य (केन्द्रीयविश्वविद्यालयस्य) डॉ. बी. जी. आर. परिसरे पौडीगढवाले प्रचलिते संस्कृतसप्ताहस्य पञ्चमदिवसे “राजनीतौ शासनप्रशासने च संस्कृतस्य उपयोगिता” इति विषये विशेषव्याख्यानकार्यक्रमः सम्पन्नः। अस्मिन् कार्यक्रमे भारतीयज्ञानपरम्परायां वर्णितस्य राजनीतिकप्रशासनिकचिन्तनस्य समकालीनसन्दर्भेषु सम्यक् विवेचनम् अभवत्।

कार्यक्रमस्य मुख्यवक्ता डॉ. हेमन्तजोशी ‘शिवमहोदयः, (पीएमश्रीराजकीय-इण्टर-कॉलेज), पतलोट: (ओखलकाण्डा, नैनीतालं) इत्यस्य प्रवक्ता, भारतसरकारस्य गृहमन्त्रालयाधीनराजभाषाविभागस्य सदस्यश्च, विषयं सरलया सुबोधया च शैल्या निरूपितं। तेन उक्तं यत् प्राचीनभारतीयग्रन्थेषु राज्ञः प्रशासकस्य च कर्तव्यं, राजधर्मः, न्यायः, नीतिः तथा प्रजाहितं विषये व्यापकं चिन्तनं विद्यते।
तेन कौटिलीयार्थशास्त्रस्य, महाभारतस्य, रघुवंशस्य च उदाहरणैः वर्तमानराजनीतिशासनव्यवस्थायां भारतीयज्ञानपरम्परायाः प्रासङ्गिकता स्पष्टतया प्रतिपादिता। तस्य व्याख्यानेन विद्यार्थिनः शोधार्थिनश्च संस्कृतस्य राजनीतिकप्रशासनिकसाहित्यम् अभिनवदृष्ट्या अवगन्तुं प्रेरिताः।
कार्यक्रमस्य अध्यक्षतां रसायनविभागाध्यक्षः प्रो. प्रभाकरप्रसादबडोनी महोदयः अकरोत्। तेन भारतीयज्ञानपरम्परायाः व्यापकता समकालीनकाले तस्याः अध्ययनस्य आवश्यकता च प्रतिपादिता तथा संस्कृतस्थितां ज्ञानसम्पदं आधुनिकपरिप्रेक्ष्ये अवगन्तुं संवर्धयितुं च बलं दत्तम्।
कार्यक्रमस्य सञ्चालनम् अंशुलमहाभागेन कुशलतया कृतम्। वैदिकमन्त्रपाठेन गायत्रीपाण्डेयमहाभागया कार्यक्रमस्य शुभारम्भः अभवत्।
संस्कृतविभागाध्यक्षः कार्यक्रमसंयोजकश्च दिनेशचन्द्रपाण्डेयमहाभागः संस्कृतविभागे निरन्तरं ज्ञानवर्धकानाम् अकादमिककार्यक्रमाणाम् आयोजनं प्रोत्साहयति। तस्य प्रयत्नैः विद्यार्थिनः शोधार्थिनश्च विषयविशेषज्ञैः सह प्रत्यक्षसंवादस्य अवसरं प्राप्नुवन्ति तथा संस्कृतं समकालीनविमर्शैः सह सम्बध्यते। कार्यक्रमस्य समन्वयिका प्रो. कुसुमडोबरियालमहाभागा आसीत्। तस्याः सम्यक् समन्वयेन संस्कृतसप्ताहस्य विविधकार्यक्रमाः सुव्यवस्थितरूपेण सम्पन्नाः।
अकादमिकसांस्कृतिकगतिविधिषु विद्यार्थिनां सहभागितायां तस्याः योगदानम् उल्लेखनीयम्। अन्ते रोहितमैन्दोलमहाभागेन धन्यवादज्ञापनं प्रस्तुतम्। तेन उक्तं यत् भारतीयज्ञानपरम्परायां राजनीतेः शासनस्य च परमलक्ष्यं केवलं सत्तासञ्चालनं न, अपितु न्यायस्य, नीतेः, लोककल्याणस्य च स्थापना इति। तेन सर्वेषां अतिथीनाम्, अध्यक्षस्य, मुख्यवक्तुः, आयोजकानाम्, आचार्याणां, शोधार्थिनां विद्यार्थिनां च प्रति हार्दिकः कृतज्ञताभावः प्रकटितः।
संस्कृतसप्ताहस्य पञ्चमदिवसस्यायं कार्यक्रमः भारतीयराजनीतिकचिन्तनस्य वर्तमानशासनप्रशासनयोः सम्बन्धम् अवगन्तुं महत्त्वपूर्णः अभवत् तथा संस्कृतशास्त्रसाहित्यानां समकालीनोपयोगितायाः परिचये विद्यार्थिनां सफलतया प्रेरणाम् अददात्।