उत्तराखण्डनैनीताल

हलद्वान्यां खण्डस्तरीय-संस्कृत-स्पर्धा सोत्साहेन सम्पन्ना

कनिष्ठवरिष्ठवर्गयो: षड्विधस्पर्धायां पुरस्कारवितरणं सञ्जातं

खण्डस्तरीय-संस्कृत-स्पर्धा २०२६–२७ इति कार्यक्रमः हल्द्वानी-नगरस्थे डी०ए०वी० सैन्चुरी पब्लिक स्कूल- इत्यस्मिन् विद्यालये दिनाङ्के २३.०९.२०२६ तः प्रारब्धः। उद्घाटनदिने राज्य-सङ्गठनमन्त्रीश्रीशङ्कर-कोरङ्ग-महोदयेन संस्कृत-स्पर्धायाः विधिवत् उद्घाटनं कृतम्। स्पर्धायाः अध्यक्षतां डी०ए०वी० सैन्चुरी पब्लिक स्कूल-इत्यस्य विद्यालयस्य प्रधानाचार्यः श्री अमित जोशी-महोदयः अकरोत्।
मुख्यातिथिरूपेण उपस्थितेन राज्य-मन्त्री श्रीशङ्कर-कोरङ्ग-महोदयेन स्वोद्बोधने भारतीयसंस्कृतेः संरक्षणाय समाजे नैतिकतायाश्च विकासाय संस्कृतभाषायाः प्रचार-प्रसारस्य विशेषमहत्त्वं प्रतिपादितम्। तेन उक्तं यत् संस्कृतभाषा एव देववाणी अस्ति। संस्कृतमन्त्रेषु महती शक्तिः विद्यते तथा च अद्य वैज्ञानिकाः अपि वैदिकमन्त्राणां प्रभावं स्वीकरोन्ति।
प्रधानाचार्यः श्री अमितजोशी-महोदयः छात्रैः संस्कृत-स्पर्धायां क्रियमाणानां प्रयत्नानां प्रशंसां कृत्वा सर्वान् आहूतवान् यत् स्वसंस्कृतेः संरक्षणाय संस्कृतभाषायाः प्रचारः प्रसारश्च सर्वैः कर्तव्यः। अस्मिन् कार्ये सर्वकारेण सह समाजस्यापि महत्त्वपूर्णं योगदानं भवितव्यम्।
खण्डस्तरीय-संस्कृत-स्पर्धा षड्विधासु स्पर्धासु सम्पन्ना अभवत्। कनिष्ठवर्गे संस्कृत-नाटक-स्पर्धायां सनातनधर्मसंस्कृत उत्तरमाध्यमिक विद्यालयः, हल्द्वानी प्रथमस्थानं प्राप्तवान्। समूह-नृत्य-स्पर्धायां श्री सनातन धर्म संस्कृत महाविद्यालयः प्रथमस्थानं प्राप्तवान्। समूहगान-स्पर्धायां के०वी०एम० पब्लिक स्कूल, हल्द्वानी प्रथमस्थानं प्राप्तवान्।
संस्कृत-वादविवाद-स्पर्धायां अदितिपाण्डे तथा वेदान्ती पाण्डे, वैल्ली सीनियर सेकेण्डरी स्कूल, डोलपुर, प्रथमस्थानं प्राप्तवत्यौ। श्लोकोच्चारण-स्पर्धायां त्रिलोक महतोलिया, महादेवगिरि संस्कृत महाविद्यालयः, प्रथमस्थानं प्राप्तवान्।

द्वितीयदिने वरिष्ठवर्गस्य संस्कृत-स्पर्धा सम्पन्ना अभवत्। अस्यां सर्वासु षड्विधासु स्पर्धासु—संस्कृत-नाटकम्, समूहगानम्, समूह-नृत्यम्, आशुभाषणम्, श्लोकोच्चारणम् तथा संस्कृत-वादविवादः—हल्द्वानी-विकासखण्डस्य पञ्चविंशतिः विद्यालयानां ४५६ छात्राः छात्राश्च स्वस्वदलशिक्षकैः सह उत्साहपूर्वकं भागं गृहीतवन्तः।
समापन-दिवसस्य उद्घाटनसत्रे मुख्यातिथिरूपेण दर्जा-राज्यमन्त्री तथा मण्डी-समित्याः अध्यक्षः श्री अनिलडब्बू-महोदयः उपस्थितः आसीत्। विशिष्टातिथिरूपेण राष्ट्रिय-शैक्षिक-सङ्घस्य पूर्वप्रान्तीय-महामन्त्री श्री सोहनमाजिला-महोदयः तथा धौलिया बालिका इण्टर-कॉलेजत: प्रधानाचार्या श्रीमती भारती नारायणभट्ट-महोदया च उपस्थितौ आस्ताम्।
समापनसमारोहे अध्यक्षः श्री अमितजोशी-महोदयः तथा खण्ड-संस्कृत-संयोजकः श्री हरीश पाठक-महोदयः सर्वेभ्यः प्रतिभागिभ्यः पुरस्कार-राशेः वितरणं कृतवन्तौ।
श्री सनातनधर्म-संस्कृत -महाविद्यालयेन श्लोकोच्चारणे तथा वादविवादे प्रथमस्थानं, संस्कृत-नाटके च तृतीयस्थानं प्राप्तम्।

श्री-कपिलाश्रमी-संस्कृत -विद्यालयेन संस्कृत-नाटके तथा वादविवादे द्वितीयस्थानं, समूहगाने च प्रथमस्थानं प्राप्तम्।
महादेवगिरि-संस्कृत -महाविद्यालयेन संस्कृत-नाटके प्रथमस्थानं प्राप्तम्।
कार्यक्रमस्य सफलतापूर्वकं संचालनाय सर्वेभ्यः निर्णायकेभ्यः, लेखासमित्याः सदस्येभ्यः, प्रतिभागिभ्यश्च हार्दिकं कृतज्ञतापूर्वकं धन्यवादं ज्ञापितम्।
अस्य कार्यक्रमस्य सफलतायां निर्णायकमण्डल्याः तथा लेखासमित्याः सदस्याः—डा० मोहितजोशी, डा० हेमन्तजोशी, चन्द्रप्रकाश: उप्रेती, मनोजकुमार: पाण्डे, दुर्गादत्त गुणवन्तः, गणेशजोशी, विपिनपन्त:, अर्जुनगिरिः, भुवनचन्द्रजोशी, सुभाषतिवारी, सुनीता जोशी, वन्दना तिवारी, डा० जगदीश पाण्डे, कर्षित जोशी, डा० हिमाचल कुमारी, घनश्यामभट्ट: इत्यादयः—महत्त्वपूर्णं सहयोगं प्रदत्तवन्तः।
सम्पूर्णः कार्यक्रमः संस्कृतभाषायाः प्रचार-प्रसाराय, भारतीयसंस्कृतेः संरक्षणाय तथा छात्रेषु नैतिक-मूल्यानां विकासाय च अत्यन्तं महत्त्वपूर्णः सिद्धः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button