अष्टादश संस्कृतमहोत्सवे दुगड्डाविकासखण्डे संस्कृतस्पर्धायां छात्रै: समाकर्षिता: दर्शका: मन्त्रमुग्धा: अभवन्
संस्कृतस्पर्धानां भव्यसमापनम्

कोटद्वारम् । उत्तराखण्ड-संस्कृत-संस्थानस्य (उत्तराखण्ड-सर्वकारस्य) आयोजनान्तर्गताः खण्डस्तरीयाः संस्कृतस्पर्धाः मेहरबानसिंहकण्डारी सरस्वतीविद्यामन्दिर इण्टरकॉलेज्, कोटद्वारे महता उत्साहेन समारब्धाः।
कार्यक्रमस्य प्रारम्भे विद्यालयस्य छात्राभिः मधुरं स्वागतगानं सरस्वतीवन्दना च प्रस्तुतम्। ततः मुख्यातिथिना समाजसेविना श्रीयोगम्बरसिंहरावतमहोदयेन, स्थलसंयोजकेन श्रीचन्दनसिंहनकोटिमहोदयेन, खण्डसंयोजिकया श्रीमतीबीनागौडमहोदयया तथा उपस्थितैः शिक्षाविद्भिः संस्कृतविद्वद्भिश्च दीपप्रज्वलनं कृतम्।
*आयोजनेन प्रतिजनस्य भाषा च संस्कृतं स्वगौरवं प्राप्स्यति -“योगम्बरसिंहरावत: *
स्वीये सम्बोधने मुख्यातिथिः योगम्बरसिंहरावत:अवदत्— “संस्कृतं सर्वासां भाषाणां जननी अस्ति। एतादृशैः आयोजनैः संस्कृतभाषा पुनः प्रतिजनस्य व्यवहारभाषा भविष्यति तथा स्वगौरवं पुनः प्राप्स्यति।” स्पर्धासु समूहनृत्ये, समूहगाने, नाटके, वादविवादे, आशुभाषणे तथा श्लोकोच्चारणे विभिन्नविद्यालयानां छात्राः उत्कृष्टां प्रतिभां प्रदर्शितवन्तः। कनिष्ठवर्गे राजकीय इण्टरकॉलेज् कोटद्वारः, श्रीसिद्धबलीगुरुकुलसंस्कृतविद्यालयः, आदर्शविद्यानिकेतनम्, महर्षिकण्वविद्यानिकेतनम् इत्यादयः विद्यालयाः प्रथमस्थानानि प्राप्तवन्तः।
अस्मिन्नवसरे डॉ. रमाकान्तकुकरेती, डॉ. रोशनबलूनी, श्री के. वी. शास्त्री, श्री विमलध्यानी, श्रीमती प्रेमाखन्तवाल, श्रीमती रेनुगौड:, श्री किशोरविडालिया तथा बहवः शिक्षक-शिक्षिकाः उपस्थिताः आसन्। कार्यक्रमस्य सञ्चालनं श्रीश्रीकान्तदुद्पुडी, डॉ. रोशनबलूनी तथा श्रीकुलदीपमैन्दोलमहोदयैः संयुक्तरूपेण सम्पन्नम्।
संस्कृतस्पर्धायां प्रथमं द्वितीयं तृतीयं च स्थानं क्रमश: आसन्
समूहनृत्ये रा.इ.का. कोटद्वारं रा.बा.इ.का. दुगड्डा श्री सिद्धबली गुरुकुलं
समूहगाने रा.इ.का. कोटद्वारं, प्रधानमंत्री श्रीराबाइका कण्वघाटी, रा.बा.इ.का. दुगड्डा
नाटके श्री सिद्धबली गुरुकुलं रा.इ.का. कोटद्वारं, अटल उत्कृष्ट रा.इ.का. कण्वघाटी
वाद-विवादे आदर्शविद्या निकेतनं श्री सिद्धबली गुरुकुलं रा.इ.का. कोटद्वारं
आशु भाषणे श्री सिद्धबली गुरुकुलन, एमकेवीएनकण्वघाटी, आदर्शविद्या निकेतनं
श्लोकोच्चारणे महर्षिकण्वविद्या निकेतनं, रा.इ.का. कोटद्वारं, श्री सिद्धबली गुरुकुलसंस्कृतविद्यालय:
*रा.इ.का.कोटद्वारस्य संस्कृतस्पर्धायां वर्चस्वं प्रतिष्ठितम्*
खण्डस्तरीयासु संस्कृतस्पर्धासु राजकीय इण्टर कालेज कोटद्वारम् समूहनृत्ये तथा समूहगाने प्रथमस्थानं प्राप्य उल्लेखनीयं वर्चस्वं प्रतिष्ठापितवान्। एतस्य उत्कृष्टस्य सफलतायाः अवसरः सम्पूर्णकोटद्वारनगरे हर्षोल्लासेन अभिनन्दितः। वादविवादे तृतीयं नाटके द्वितीयं, श्लोकोच्चारणे द्वितीयं स्थानं चापि विद्यालयेन सम्प्राप्तं ।
*प्रधानाचार्यः मुकेशरावत: कृतवान् अभिनन्दनम्*
विद्यालयस्य प्रधानाचार्यः मुकेशरावतमहोदयः समस्तशिक्षकैः सह विजयीछात्रान् अभिनन्दितवान्। अस्य सफलतायाः पृष्ठभूमौ संगीतशिक्षकः प्रणवरावतः, मार्गदर्शिका पूजारावतमहोदया तथा संस्कृतशिक्षकः कुलदीपमैन्दोलः इत्येतेषां मार्गदर्शनं, प्रशिक्षणं च विशेषरूपेण महत्त्वपूर्णं सिद्धम्।
दुगड्डाखण्डस्य वरिष्ठसंस्कृतस्पर्धाः उत्साहेन सम्पन्नाः
वरिष्ठवर्गीयाः संस्कृतस्पर्धाः मेहरबानसिंहकण्डारी सरस्वतीविद्यामन्दिरे इण्टर-कॉलेज-कालाबडकोटद्वारे सोत्साहेन सफलतया सम्पन्नाः अभवन् विभिन्नविद्यालयानां सामाजिकजनानां बहुसम्मर्द: दर्शनीय: आसीत् ।
*दीपप्रज्वलनेन शुभारम्भः*
कार्यक्रमस्य उद्घाटनं मुख्यातिथिना समाजसेविना प्रवेशनवानी-महोदयेन, विशिष्टातिथ्या नीरूबाला-खन्तवाल-महोदयया, प्रधानाचार्येण चन्दनसिंहनकोटि-महोदयेन श्रीसिद्धबलीगुरुकुलसंस्कृतविद्यालयत: डा.रमाकान्तकुकरेतीवर्येण , डा.मंजूकपरवाणमहोदयया च खण्डसंयोजिकया तथा अन्यैः विशिष्टैः अतिथिभिः संयुक्तरूपेण दीपप्रज्वलनेन कृतम्।
*समूहगाने कोटद्वारस्य विजयः*
समूहगानस्पर्धायां राजकीय-इण्टर-कॉलेज-कोटद्वारं प्रथमस्थानम्, पी.एम.श्री राजकीयबालिका-इण्टर-कॉलेज- कण्वघाटी द्वितीयस्थानम् तथा राजकीयबालिका-इण्टर-कॉलेज- कोटद्वारं तृतीयस्थानम् अलभत्।
*नृत्य–नाटकयोः प्रतिभायाः प्रदर्शनम्*
स्पर्धायां समूहनृत्ये राजकीय-इण्टर-कॉलेज-कुम्भीचौडः प्रथमः, राजकीय-बालिका-इण्टर-कॉलेज-दुगड्डा द्वितीयः, मेहरबानसिंहकण्डारी (इण्टर-कॉलेज) तृतीयः अभवत्। नाटकस्पर्धायां राजकीय-इण्टर-कॉलेजकोटद्वारं प्रथम: तथा मेहरबानसिंहकण्डारी (इण्टर-कॉलेज) द्वितीयः अभवत्।
*वाद–विवादे आशुभाषणे च उत्कृष्टता*
वाद–विवादस्पर्धायां मेहरबानसिंहकण्डारी (इण्टर-कॉलेज) प्रथमः, राजकीयबालिका (इण्टर-कॉलेज) लालपानी द्वितीयः, राजकीय-इण्टर-कॉलेज-दुगड्डा तृतीयः। आशुभाषणस्पर्धायामपि मेहरबानसिंहकण्डारी इण्टर-कॉलेज प्रथमस्थानम् अलभत्।
*श्लोकोच्चारणे महाविद्यालयस्य गौरवम्*
श्लोकोच्चारणस्पर्धायां राजकीयस्नातकोत्तरमहाविद्यालयः कोटद्वारः प्रथमः, मेहरबानसिंहकण्डारी (इण्टरकॉलेज) द्वितीयः, राजकीय-बालिका इण्टर-कॉलेज-कण्वघाटी तृतीयः अभवत्।
*सम्मान–पुरस्कारवितरणेन समापनम्*
अभिलेखीकरणकार्ये योगदानाय पूजा घनसेला, विनीता बिष्ट: तथा आञ्चलबिष्ट: सम्मानिताः। सहकार्याय अरुणपरन्दियाल: तथा लोककलाकारः नवीनबिष्ट: शालप्रदानेन सत्कृतौ। कार्यक्रमस्य सञ्चालनं डॉ. रोशनलाल बलूनी तथा कुलदीपमैन्दोला कृतवन्तौ।







